[वै] ततस ते सहिताः सर्वे दुर्यॊधनम उपागमन अब्रुवंश च महाराज यद ऊचुः कौरवं परति ॥ 1 ॥
गन्धर्वैर वारिते सैन्ये धार्तराष्ट्रः परतापवान अमर्षपूर्णः सैन्यानि परत्यभाषत भारत ॥ 2 ॥
शासतैनान अधर्मज्ञान मम विप्रियकारिणः यदि परक्रीडितॊ देवैः सर्वैः सह शतक्रतुः ॥ 3 ॥
दुर्यॊधन वचॊ शरुत्वा धार्तराष्ट्रा महाबलाः सर्व एवाभिसंनद्धा यॊधाश चापि सहस्रशः ॥ 4 ॥
ततः परमथ्य गन्धर्वांस तद वनं विविशुर बलात सिंहनादेन महता पूरयन्तॊ दिशॊ दश ॥ 5 ॥
ततॊ ऽपरैर अवार्यन्त गन्धर्वैः कुरु सैनिकाः ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप तान अनादृत्य गन्धर्वांस तद वनं विविशुर महत ॥ 6 ॥
यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः ततस ते खेचराः सर्वे चित्रसेने नयवेदयन ॥ 7 ॥
गन्धर्वराजस तान सर्वान अब्रवीत कौरवान परति अनार्याञ शासतेत्य एवं चित्रसेनॊ ऽतयमर्षणः ॥ 8 ॥
अनुज्ञातास तु गन्धर्वाश चित्रसेनेन भारत परगृहीतायुधाः सर्वे धार्तराष्ट्रान अभिद्रवन ॥ 9 ॥
तान दृष्ट्वा पततः शीघ्रान गन्धर्वान उद्यतायुधान सर्वे ते पराद्रवन संख्ये धार्तराष्ट्रस्य पश्यतः ॥ 10 ॥
तान दृष्ट्वा दरवतः सर्वान धार्तराष्ट्रान पराङ्मुखान वैकर्तनस तदा वीरॊ नासीत तत्र पराङ्मुखः ॥ 11 ॥
आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम महता शरवर्षेण राधेयः परत्यवारयत ॥ 12 ॥
कषुरपैर विशिखैर भल्लैर वत्सदन्तैस तथायसैः गन्धर्वाञ शतशाभ्यघ्नँल लघुत्वात सूतनन्दनः ॥ 13 ॥
पातयन्न उत्तमाङ्गानि गन्धर्वाणां महारथाः कषणेन वयधमत सर्वां चित्रसेनस्य वाहिनीम ॥ 14 ॥
ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता भूय एवाभ्यवर्तन्त शतशॊ ऽथ सहस्रशः ॥ 15 ॥
गन्धर्वभूता पृथिवी कषणेन समपद्यत आपतद्भिर महावेगैश चित्रसेनस्य सैनिकैः ॥ 16 ॥
अथ दुर्यॊधनॊ राजा शकुनिश चापि सौबलः दुःशासनॊ विकर्णश च ये चान्ये धृतराष्ट्रजाः नयहनंस तत तदा सैन्यं रथैर गरुड निस्वनैः ॥ 17 ॥
भूयॊ च यॊधयाम आसुः कृत्वा कर्णम अथाग्रतः महता रथघॊषेण हयचारेण चाप्य उत वैकर्तनं परीप्सन्तॊ गन्धर्वान समवारयन ॥ 18 ॥
ततः संन्यपतन सर्वे गन्धर्वाः कौरवैः सह तदा सुतुमुलं युद्धम अभवल लॊमहर्षणम ॥ 19 ॥
ततस ते मृदवॊ ऽभूवन गन्धर्वाः शरपीडिताः उच्चुक्रुशुश च कौरव्या गन्धर्वान परेक्ष्य पीडितान ॥ 20 ॥
गन्धर्वांस तरासितान दृष्ट्वा चित्रसेनॊ ऽतयमर्षणः उत्पपातासनात करुद्धॊ वधे तेषां समाहितः ॥ 21 ॥
ततॊ मायास्त्रम आस्थाय युयुधे चित्रमार्गवित तयामुह्यन्त कौरव्याश चित्रसेनस्य मायया ॥ 22 ॥
एकैकॊ हि तदा यॊधॊ धार्तराष्ट्रस्य भारत पर्यवर्तत गन्धर्वैर दशभिर दशभिः सह ॥ 23 ॥
ततः संपीड्यमानास ते बलेन महता तदा पराद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः ॥ 24 ॥
भज्यमानेष्व अनीकेषु धार्तराष्ट्रेषु सर्वशः कर्णॊ वैकर्तनॊ राजंस तस्थौ गिरिर इवाचलः ॥ 25 ॥
दुर्यॊधनश च कर्णश च शकुनिश चापि सौबलः गन्धर्वान यॊधयां चक्रुः समरे भृशविक्षताः ॥ 26 ॥
सर्व एव तु गन्धर्वाः शतशॊ ऽथ सहस्रशः जिघांसमानाः सहिताः कर्णम अभ्यद्रवन रणे ॥ 27 ॥
असिभिः पट्टिशैः शूलैर गदाभिश च महाबलाः सूतपुत्रं जिघांसन्तः समन्तात पर्यवारयन ॥ 28 ॥
अन्ये ऽसय युगमच छिन्दन धवजम अन्ये नयपातयन ईषाम अन्ये हयान अन्ये सूतम अन्ये नयपातयन ॥ 29 ॥
अन्ये छत्रं वरूथं च वन्धुरं च तथापरे गन्धर्वा बहुसाहस्राः खण्डशॊ ऽभयहनन रथम ॥ 30 ॥
ततॊ रथाद अवप्लुत्य सूतपुत्रॊ ऽसि चर्म भृत विकर्ण रथम आस्थाय मॊक्षायाश्वान अचॊदयत ॥ 31 ॥
वनपर्व · Vana Parva
अध्याय 230
Reach this point to mark the section finished.
Continue to अध्याय 231