धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 229

  1. [वै] अथ दुर्यॊधनॊ राजा तत्र तत्र वने वसन जगाम घॊषान अभितस तत्र चक्रे निवेशनम ॥ 1 ॥

  2. रमणीये समाज्ञाते सॊदके समहीरुहे देशे सर्वगुणॊपेते चक्रुर आवसथं नराः ॥ 2 ॥

  3. तथैव तत समीपस्थान पृथग आवसथान बहून कर्णस्य शकुनेश चैव भरातॄणां चैव सर्वशः ॥ 3 ॥

  4. ददर्श स तदा गावः शतशॊ ऽथ सहस्रशः अङ्कैर लक्षैश च ताः सर्वा लक्षयाम आस पार्थिवः ॥ 4 ॥

  5. अङ्कयाम आस वत्सांश च जज्ञे चॊपसृतास तव अपि बाल वत्साश च या गावः कालयाम आस ता अपि ॥ 5 ॥

  6. अथ स समारणं कृत्वा लक्षयित्वा तरिहायनान वृतॊ गॊपालकैः परीतॊ वयहरत कुरुनन्दनः ॥ 6 ॥

  7. स च पौरजनः सर्वः सैनिकाश च सहस्रशः यथॊपजॊषं चिक्रीडुर वने तस्मिन यथामराः ॥ 7 ॥

  8. ततॊ गॊपाः परगातारः कुशला नृत्तवादिते धार्तराष्ट्रम उपातिष्ठन कन्याश चैव सवलंकृताः ॥ 8 ॥

  9. स सत्रीगणवृतॊ राजा परहृष्टः परददौ वसु तेभ्यॊ यथार्हम अन्नानि पानानि विविधानि च ॥ 9 ॥

  10. ततस ते सहिताः सर्वे तरक्षून महिषान मृगान गवयर्क्ष वराहांश च समन्तात पर्यकालयन ॥ 10 ॥

  11. स ताञ शरैर विनिर्भिन्दन गजान बध्नन महावने रमणीयेषु देशेषु गराहयाम आस वै मृगान ॥ 11 ॥

  12. गॊरसान उपयुञ्जान उपभॊगांश च भारत पश्यन सुरमणीयानि पुष्पितानि वनानि च ॥ 12 ॥

  13. मत्तभ्रमर जुष्टानि बर्हिणाभिरुतानि च अगच्छद आनुपूर्व्येण पुण्यं दवैतवनं सरः ऋद्ध्या परमया युक्तॊ महेन्द्र इव वज्रभृत ॥ 13 ॥

  14. यदृच्छया च तद अहॊ धर्मपुत्रॊ युधिष्ठिरः ईजे राजर्षियज्ञेन सद्यस्केन विशां पते दिव्येन विधिना राजा वन्येन कुरुसत्तमः ॥ 14 ॥

  15. कृत्वा निवेशम अभितः सरसस तस्य कौरवः दरौपद्या सहितॊ धीमान धर्मपत्न्या नराधिपः ॥ 15 ॥

  16. ततॊ दुर्यॊधनः परेष्यान आदिदेश सहानुजः आक्रीडावसथाः कषिप्रं करियन्ताम इति भारत ॥ 16 ॥

  17. ते तथेत्य एव कौरव्यम उक्त्वा वचनकारिणः चिकीर्षन्तस तदाक्रीडाञ जग्मुर दवैतवनं सरः ॥ 17 ॥

  18. सेनाग्रं धार्तराष्ट्रस्य पराप्तं दवैतवनं सरः परविशन्तं वनद्वारि गन्धर्वाः समवारयन ॥ 18 ॥

  19. तत्र गन्धर्वराजॊ वै पूर्वम एव विशां पते कुबेरभवनाद राजन्न आजगाम गणावृतः ॥ 19 ॥

  20. गणैर अप्सरसां चैव तरिदशानां तथात्मजैः विहारशीलः करीडार्थं तेन तत संवृतं सरः ॥ 20 ॥

  21. तेन तत संवृतं दृष्ट्वा ते राजपरिचारकाः परतिजग्मुस ततॊ राजन यत्र दुर्यॊधनॊ नृपः ॥ 21 ॥

  22. स तु तेषां वचॊ शरुत्वा सैनिकान युद्धदुर्मदान परेषयाम आस कौरव्य उत्सारयत तान इति ॥ 22 ॥

  23. तस्य तद वचनं शरुत्वा राज्ञः सेनाग्रयायिनः सरॊ दवैतवनं गत्वा गन्धर्वान इदम अब्रुवन ॥ 23 ॥

  24. राजा दुर्यॊधनॊ नाम धृतराष्ट्र सुतॊ बली विजिहीर्षुर इहायाति तदर्थम अपसर्पत ॥ 24 ॥

  25. एवम उक्तास तु गन्धर्वाः परहसन्तॊ विशां पते परत्यब्रुवंस तान पुरुषान इदं सुपरुषं वचः ॥ 25 ॥

  26. न चेतयति वॊ राजा मन्दबुद्धिः सुयॊधनः यॊ ऽसमान आज्ञापयत्य एवं वश्यान इव दिवौकसः ॥ 26 ॥

  27. यूयं मुमूर्षवश चापि मन्दप्रज्ञा न संशयः ये तस्य वचनाद एवम अस्मान बरूत विचेतसः ॥ 27 ॥

  28. गच्छत तवरिताः सर्वे यत्र राजा स कौरवः दवेष्यं माद्यैव गच्छध्वं धर्मराज निवेशनम ॥ 28 ॥

  29. एवम उक्तास तु गन्धर्वै राज्ञः सेनाग्रयायिनः संप्राद्रवन्यतॊ राजा धृतराष्ट्र सुतॊ ऽभवत ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 230

Previous: अध्याय 228