धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 228

  1. [वै] धृतराष्ट्रं ततः सर्वे ददृशुर जनमेजय पृष्ट्वा सुखम अथॊ राज्ञः पृष्ट्वा राज्ञा च भारत ॥ 1 ॥

  2. ततस तैर विहितः पूर्वं समङ्गॊ नाम बल्लवः समीपस्थास तदा गावॊ धृतराष्ट्रे नयवेदयत ॥ 2 ॥

  3. अनन्तरं च राधेयः शकुनिश च विशां पते आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम ॥ 3 ॥

  4. रमणीयेषु देशेषु घॊषाः संप्रति कौरव समारणा समयः पराप्तॊ वत्सानाम अपि चाङ्कनम ॥ 4 ॥

  5. मृगया चॊचिता राजन्न अस्मिन काले सुतस्य ते दुर्यॊधनस्य गमनं तवम अनुज्ञातुम अर्हसि ॥ 5 ॥

  6. [धृत] मृगया शॊभना तात गवां च समवेक्षणम विश्रम्भस तु न गन्तव्यॊ बल्लवानाम इति समरे ॥ 6 ॥

  7. ते तु तत्र नरव्याघ्राः समीप इति नः शरुतम अतॊ नाभ्यनुजानामि गमनं तत्र वः सवयम ॥ 7 ॥

  8. छद्मना निर्जितास ते हि कर्शिताश च महावने तपॊनित्याश च राधेय समर्थाश च महारथाः ॥ 8 ॥

  9. धर्मराजॊ न संक्रुध्येद भीमसेनस तव अमर्षणः यज्ञसेनस्य दुहिता तेज एव तु केवलम ॥ 9 ॥

  10. यूयं चाप्य अपराध्येयुर दर्पमॊहसमन्विताः ततॊ विनिर्दहेयुस ते तपसा हि समन्विताः ॥ 10 ॥

  11. अथ वा सायुधा वीरा मनुनाभिपरिप्लुताः सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा ॥ 11 ॥

  12. अथ यूयं बहुत्वात तान आरभध्वं कथं चन अनार्यं परमं तः सयाद अशक्यं तच च मे मतम ॥ 12 ॥

  13. उषितॊ हि महाबाहुर इन्द्रलॊके धनंजयः दिव्यान्य अस्त्राण्य अवाप्याथ ततः परत्यागतॊ वनम ॥ 13 ॥

  14. अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा किं पुनः स कृतास्त्रॊ ऽदय न हन्याद वॊ महारथः ॥ 14 ॥

  15. अथ वा मद्वचॊ शरुत्वा तत्र यत्ता भविष्यथ उद्विग्नवासॊ विश्रम्भाद दुःखं तत्र भविष्यति ॥ 15 ॥

  16. अथ वा सैनिकाः के चिद अपकुर्युर युधिष्ठिरे तद अबुद्धि कृतं कर्म दॊषम उत्पादयेच च वः ॥ 16 ॥

  17. तस्माद गच्छन्तु पुरुषाः समारणायाप्त कारिणः न सवयं तत्र गमनं रॊचये तव भारत ॥ 17 ॥

  18. [षकुनि] धर्मज्ञः पाण्डवॊ जयेष्ठः परतिज्ञातं च संसदि तेन दवादश वर्षाणि वस्तव्यानीति भारत ॥ 18 ॥

  19. अनुवृत्ताश च ते सर्वे पाण्डवा धर्मचारिणः युधिष्ठिरश च कौन्तेयॊ न नः कॊपं करिष्यति ॥ 19 ॥

  20. मृगयां चैव नॊ गन्तुम इच्छा संवर्धते भृशम समारणं च चिकीर्षामॊ न तु पाण्डव दर्शनम ॥ 20 ॥

  21. न चानार्य समाचारः कश चित तत्र भविष्यति न च तत्र गमिष्यामॊ यत्र तेषां परतिश्रयः ॥ 21 ॥

  22. [वै] एवम उक्तः शकुनिना धृतराष्ट्रॊ जनेश्वरः दुर्यॊधनं सहामात्यम अनुजज्ञे न कामतः ॥ 22 ॥

  23. अनुज्ञातस तु गान्धारिः कर्णेन सहितस तदा निर्ययौ भरतश्रेष्ठॊ बलेन महता वृतः ॥ 23 ॥

  24. दुःशासनेन च तथा सौबलेन च देविना संवृतॊ भरातृभिश चान्यैः सत्रीभिश चापि सहस्रशः ॥ 24 ॥

  25. तं निर्यान्तं महाबाहुं दरष्टुं दवैतवनं सरः पौराश चानुययुः सर्वे सह दारा वनं च तत ॥ 25 ॥

  26. अष्टौ रथसहस्राणि तरीणि नागायुतानि च पत्तयॊ बहुसाहस्रा हयाश च नवतिः शताः ॥ 26 ॥

  27. शकटापण वेश्याश च वणिजॊ बन्दिनस तथा नराश च मृगया शीलाः शतशॊ ऽथ सहस्रशः ॥ 27 ॥

  28. ततः परयाणे नृपतेः सुमहान अभवत सवनः परावृषीव महावायॊर उद्धतस्य विशां पते ॥ 28 ॥

  29. गव्यूति मात्रे नयवसद राजा दुर्यॊधनस तदा परयातॊ वाहनैः सर्वैस ततॊ दवैतवनं सरः ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 229

Previous: अध्याय 227