धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 227

  1. [वै] कर्णस्य वचनं शरुत्वा राजा दुर्यॊधनस तदा हृष्टॊ भूत्वा पुनर दीन इदं वचनम अब्रवीत ॥ 1 ॥

  2. बरवीषि यद इदं कर्ण सर्वं मे मनसि सथितम न तव अभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः ॥ 2 ॥

  3. परिदेवति तान वीरान धृतराष्ट्रॊ महीपतिः मन्यते ऽभयधिकांश चापि तपॊयॊगेन पाण्डवान ॥ 3 ॥

  4. अथ वाप्य अनुबुध्येत नृपॊ ऽसमाकं चिकीर्षितम एवम अप्य आयतिं रक्षन नाभ्यनुज्ञातुम अर्हति ॥ 4 ॥

  5. न हि दवैतवने किं चिद विद्यते ऽनयत परयॊजनम उत्सादनम ऋते तेषां वनस्थानां मम दविषाम ॥ 5 ॥

  6. जानासि हि यथा कषत्ता दयूतकाल उपस्थिते अब्रवीद यच च मां तवां च सौबलं च वचस तदा ॥ 6 ॥

  7. तानि पूर्वाणि वाक्यानि यच चान्यत परिदेवितम विचिन्त्य नाधिगच्छामि गमनायेतराय वा ॥ 7 ॥

  8. ममापि हि महान हर्षॊ यद अहं भीम फल्गुनौ कलिष्टाव अरण्ये पश्येयं कृष्णया सहिताव इति ॥ 8 ॥

  9. न तथा पराप्नुयां परीतिम अवाप्य वसुधाम अपि दृष्ट्वा यथा पाण्डुसुतान वल्लकाजिन वाससः ॥ 9 ॥

  10. किं नु सयाद अधिकं तस्माद यद अहं दरुपदात्मजाम दरौपदीं कर्ण पश्येयं काषायवसनां वने ॥ 10 ॥

  11. यदि मां धर्मराजश च भीमसेनश च पाण्डवः युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत ॥ 11 ॥

  12. उपायं न तु पश्यामि येन गच्छेम तद वनम यथा चाभ्यनुजानीयाद गच्छन्तं मां महीपतिः ॥ 12 ॥

  13. स सौबलेन सहितस तथा दुःशासनेन च उपायं पश्य निपुणं येन गच्छेम तद वनम ॥ 13 ॥

  14. अहम अप्य अद्य निश्चित्य गमनायेतराय वा काल्यम एव गमिष्यामि समीपं पार्थिवस्य ह ॥ 14 ॥

  15. मयि तत्रॊपविष्टे तु भीष्मे च कुरुसत्तमे उपायॊ यॊ भवेद दृष्टस तं बरूयाः सह सौबलः ॥ 15 ॥

  16. ततॊ भीष्मस्य राज्ञश च निशम्य गमनं परति वयवसायं करिष्ये ऽहम अनुनीय पितामहम ॥ 16 ॥

  17. तथेत्य उक्त्वा तु ते सर्वे जग्मुर आवसथान परति वयुषितायां रजन्यां तु कर्णॊ राजानम अभ्ययात ॥ 17 ॥

  18. ततॊ दुर्यॊधनं कर्णः परहसन्न इदम अब्रवीत उपायः परिदृष्टॊ ऽयं तं निबॊध जनेश्वर ॥ 18 ॥

  19. घॊषा दवैतवने सर्वे तवत्प्रतीक्षा नराधिप घॊषयात्रापदेशेन गमिष्यामॊ न संशयः ॥ 19 ॥

  20. उचितं हि सदा गन्तुं घॊषयात्रां विशां पते एवं च तवां पिता राजन समनुज्ञातुम अर्हति ॥ 20 ॥

  21. तथा कथयमानौ तौ घॊषयात्रा विनिश्चयम गान्धारराजः शकुनिः परत्युवाच हसन्न इव ॥ 21 ॥

  22. उपायॊ ऽयं मया दृष्टॊ गमनाय निरामयः अनुज्ञास्यति नॊ राजा चॊदयिष्यति चाप्य उत ॥ 22 ॥

  23. घॊषा दवैतवने सर्वे तवत्प्रतीक्षा नराधिप घॊषयात्रापदेशेन गमिष्यामॊ न संशयः ॥ 23 ॥

  24. ततः परहसिताः सर्वे ते ऽनयॊन्यस्य तलान ददुः तद एव च विनिश्चित्य ददृशुः कुरुसत्तमम ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 228

Previous: अध्याय 226