[वै] धृतराष्ट्रस्य तद वाक्यं निशम्य सह सौबलः दुर्यॊधनम इदं काले कर्णॊ वचनम अब्रवीत ॥ 1 ॥
परव्राज्य पाण्डवान वीरान सवेन वीर्येण भारत भुङ्क्ष्वेमां पृथिवीम एकॊ दिवं शम्बरहा यथा ॥ 2 ॥
पराच्याश च दाक्षिणात्याश च परतीच्यॊदीच्यवासिनः कृताः करप्रदाः सर्वे राजानस ते नराधिप ॥ 3 ॥
या हि सा दीप्यमानेव पाण्डवान भजते पुरा साद्य लक्ष्मीस तवया राजन्न अवाप्ता भरातृभिः सह ॥ 4 ॥
इन्द्रप्रस्थ गते यां तां दीप्यमानां युधिष्ठिरे अपश्याम शरियं राजन्न अचिरं शॊककर्शिताः ॥ 5 ॥
सा तु बुद्धिबलेनेयं राज्ञस तस्माद युधिष्ठिरात तवयाक्षिप्ता महाबाहॊ दीप्यमानेव दृश्यते ॥ 6 ॥
तथैव तव राजेन्द्र राजानः परवीरहन शासने ऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः ॥ 7 ॥
तवाद्य पृथिवी राजन निखिला सागराम्बरा सपर्वतवना देवी सग्राम नगराकरा नाना वनॊद्देशवती पत्तनैर उपशॊभिता ॥ 8 ॥
वन्द्यमानॊ दविजै राजन पूज्यमानश च राजभिः पौरुषाद दिवि देवेषु भराजसे रश्मिवान इव ॥ 9 ॥
रुद्रैर इव यमॊ राजा मरुद्भिर इव वासवः कुरुभिस तवं वृतॊ राजन भासि नक्षत्रराड इव ॥ 10 ॥
ये सम ते नाद्रियन्ते ऽऽजञां नॊद्विजन्ते कदा च न पश्यामस ताञ शरिया हीनान पाण्डवान वनवासिनः ॥ 11 ॥
शरूयन्ते हि महाराज सरॊ दवैतवनं परति वसन्तः पाण्डवाः सार्धं बराह्मणैर वनवासिभिः ॥ 12 ॥
स परयाहि महाराज शरिया परमया युतः परतपन पाण्डुपुत्रांस तवं रश्मिवान इव तेजसा ॥ 13 ॥
सथितॊ राज्ये चयुतान राज्याच छरिया हीनाञ शरिया वृतः असमृद्धान समृद्धार्थः पश्य पाण्डुसुतान नृप ॥ 14 ॥
महाभिजन संपन्नं भद्रे महति संस्थितम पाण्डवास तवाभिवीक्षन्तां ययातिम इव नाहुषम ॥ 15 ॥
यां शरियं सुहृदश चैव दुर्हृदश च विशां पते पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्य उत ॥ 16 ॥
समस्थॊ विषमस्थान हि दुर्हृदॊ यॊ ऽभिवीक्षते जगतीस्थान इवाद्रिस्थः किं ततः परमं सुखम ॥ 17 ॥
न पुत्र धनलाभेन न राज्येनापि विन्दति परीतिं नृपतिशार्दूल याम अमित्राघ दर्शनात ॥ 18 ॥
किं नु तस्य सुखं न सयाद आश्रमे यॊ धनंजयम अभिवीक्षेत सिद्धार्थॊ वकलाजिन वाससम ॥ 19 ॥
सुवाससॊ हि ते भार्या वकलाजिन वाससम पश्यन्त्व असुखितां कृष्णां सा च निर्विद्यतां पुनः विनिन्दतां तथात्मानं जीवितं च धनच्युता ॥ 20 ॥
न तथा हि सभामध्ये तस्या भवितुम अर्हति वैमनस्य यथादृष्ट्वा तव भार्याः सवलंकृताः ॥ 21 ॥
एवम उक्त्वा तु राजानं कर्णः शकुनिना सह तूष्णीं बभूवतुर उभौ वाक्यान्ते जनमेजय ॥ 22 ॥
वनपर्व · Vana Parva
अध्याय 226
Reach this point to mark the section finished.
Continue to अध्याय 227