धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 223

  1. [दरौ] इमं तु ते मार्गम अपेतदॊषं; वक्ष्यामि चित्तग्रहणाय भर्तुः यस्मिन यथावत सखिवर्तमाना; भर्तारम आच्छेत्स्यसि कामिनीभ्यः ॥ 1 ॥

  2. नैतादृशं दैवतम अस्ति सत्ये; सर्वेषु लॊकेषु सदैवतेषु यथा पतिस तस्य हि सर्वकामा; लभ्याः परसादे कुपितश च हन्यात ॥ 2 ॥

  3. तस्माद अपत्यं विविधाश च भॊगाः; शय्यासनान्य अद्भुतदर्शनानि वस्त्राणि माल्यानि तथैव गन्धाः; सवर्गश च लॊकॊ विषमा च कीर्तिः ॥ 3 ॥

  4. सुखं सुखेनेह न जातु लभ्यं; दुःखेन साध्वी लभते सुखानि सा कृष्णम आराधय सौहृदेन; परेम्णा च नित्यं परतिकर्मणा च ॥ 4 ॥

  5. तथाशनैश चारुभिर अग्र्यमाल्यैर; दाक्षिण्ययॊगैर विविधैश च गन्धैः अस्याः परियॊ ऽसमीति यथा विदित्वा; तवाम एव संश्लिष्यति सर्वभावैः ॥ 5 ॥

  6. शरुत्वा सवरं दवारगतस्य भर्तुः; परत्युत्थिता तिष्ठ गृहस्य मध्ये दृष्ट्वा परविष्टं तवरितासनेन; पाद्येन चैव परतिपूजय तवम ॥ 6 ॥

  7. संप्रेषितायाम अथ चैव दास्याम; उत्थाय सर्वं सवयम एव कुर्याः जानातु कृष्णस तव भावम एतं; सर्वात्मना मां भजतीति सत्ये ॥ 7 ॥

  8. तवत्संनिधे यत कथयेत पतिस ते; यद्य अप्य अगुह्यं परिरक्षितव्यम का चित सपत्नी तव वासुदेवं; परत्यादिशेत तेन भवेद विरागः ॥ 8 ॥

  9. परियांश च रक्तांश च हितांश च भर्तुस; तान भॊजयेथा विविधैर उपायैः दवेष्यैर अपक्षैर अहितैश च तस्य; भिद्यस्व नित्यं कुहकॊद्धतैश च ॥ 9 ॥

  10. मदं परमादं पुरुषेषु हित्वा; संयच्छ भावं परतिगृह्य मौनम परद्युम्न साम्बाव अपि ते कुमारौ; नॊपासितव्यौ रहिते कदा चित ॥ 10 ॥

  11. महाकुलीनाभिर अपापिकाभिः; सत्रीभिः सतीभिस तव सख्यम अस्तु चण्डाश च शौण्डाश च महाशनाश च; चौराश च दुष्टाश चपलाश च वर्ज्याः ॥ 11 ॥

  12. एतद यशस्यं भग वेदनं च; सवर्ग्यं तथा शत्रुनिबर्हणं च महार्हमाल्याभरणाङ्गरागा; भर्तारम आराधय पुण्यगन्धा ॥ 12 ॥

Reach this point to mark the section finished.

Continue to अध्याय 224

Previous: अध्याय 222