[वै] उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु दरौपदी सत्यभामा च विविशाते तदा समम जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः ॥ 1 ॥
चिरस्य दृष्ट्वा राजेन्द्र ते ऽनयॊन्यस्य परियंवदे कथयाम आसतुश चैत्राः कथाः कुरु यदुक्षिताम ॥ 2 ॥
अथाब्रवीत सत्यभामा कृष्णस्य महिषी परिया सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा ॥ 3 ॥
केन दरौपदि वृत्तेन पाण्डवान उपतिष्ठसि लॊकपालॊपमान वीरान यूनः परमसंमतान कथं च वशगास तुभ्यं न कुप्यन्ति च ते शुभे ॥ 4 ॥
तव वश्याहि सततं पाण्डवाः परियदर्शने मुखप्रेक्षाश च ते सर्वे तत्त्वम एतद बरवीहि मे ॥ 5 ॥
वरतचर्या तपॊ वापि सनानमन्त्रौषधानि वा विद्या वीर्यं मूलवीर्यं जपहॊमस तथागदाः ॥ 6 ॥
मम आचक्ष्व पाञ्चालि यशस्यं भग वेदनम येन कृष्णे भवेन नित्यं मम कृष्णॊ वशानुगः ॥ 7 ॥
एवम उक्त्वा सत्यभामा विरराम यशस्विनी पतिव्रता महाभागा दरौपदी परत्युवाच ताम ॥ 8 ॥
असत सत्रीणां समाचारं सत्ये माम अनुपृच्छसि असद आचरिते मार्गे कथं सयाद अनुकीर्तनम ॥ 9 ॥
अनुप्रश्नः संशयॊ वा नैतत तवय्य उपपद्यते तथा हय उपेता बुद्ध्या तवं कृष्टस्य महिषी परिया ॥ 10 ॥
यदैव भर्ता जानीयान मन्त्रमूलपरां सत्रियम उद्विजेत तदैवास्याः सर्वाद वेश्म गताद इव ॥ 11 ॥
उद्विग्नस्य कुतः शान्तिर अशान्तस्य कुतः सुखम न जातु वशगॊ भर्ता सत्रियाः सयान मन्त्रकारणात ॥ 12 ॥
अमित्रप्रहितांश चापि गदान परमदारुणान मूलप्रवादैर हि विषं परयच्छन्ति जिघांसवः ॥ 13 ॥
जिह्वया यानि पुरुषस तवचा वाप्य उपसेवते तत्र चूर्णानि दत्तानि हन्युः कषिप्रम असंशयम ॥ 14 ॥
जलॊदर समायुक्ताः शवित्रिणः पलितास तथा अपुमांसः कृताः सत्रीभिर जडान्धबधिरास तथा ॥ 15 ॥
पापानुगास तु पापास ताः पतीन उपसृजन्त्य उत न जातु विप्रियं भर्तुः सत्रिया कार्यं कथं चन ॥ 16 ॥
वर्ताम्य अहं तु यां वृत्तिं पाण्डवेषु महात्मसु तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि ॥ 17 ॥
अहंकारं विहायाहं कामक्रॊधौ च सर्वदा सदारान पाण्डवान नित्यं परयतॊपचराम्य अहम ॥ 18 ॥
परणयं परतिसंगृह्य निधायात्मानम आत्मनि शुश्रूषुर निरभीमाना पतीनां चित्तरक्षणी ॥ 19 ॥
दुर्व्याहृताच छङ्कमाना दुःखिता ददुरवेक्षितात दुरासिताद दुर्व्रजिताद इङ्गिताध्यासिताद अपि ॥ 20 ॥
सूर्यवैश्वानर निभान सॊमकल्पान महारथान सेवे चक्षुर्हणः पार्थान उग्रतेजः परतापिनः ॥ 21 ॥
देवॊ मनुष्यॊ गन्धर्वॊ युवा चापि सवलंकृतः दरव्यवान अभिरूपॊ वा न मे ऽनयः पुरुषॊ मतः ॥ 22 ॥
नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि न संविशामि नाश्नामि सदा कर्म करेष्व अपि ॥ 23 ॥
कषेत्राद वनाद वा गरामाद वा भर्तारं गृहम आगतम परत्युत्थायाभिनन्दामि आसनेनॊदकेन च ॥ 24 ॥
परमृष्ट भाण्डा मृष्टान्ना काले भॊजनदायिनी संयता गुप्तधान्या च सुसंमृष्ट निवेशना ॥ 25 ॥
अतिरस्कृत संभाषा दुःस्त्रियॊ नानुसेवती अनुकूलवती नित्यं भवाम्य अनलसा सदा ॥ 26 ॥
अनर्मे चापि हसनं दवारि सथानम अभीक्ष्णशः अवस्करे चिरस्थानं निष्कुटेषु च वर्जये ॥ 27 ॥
अतिहासातिरॊषौ च करॊधस्थानं च वर्जये निरताहं सदा सत्ये भर्तॄणाम उपसेनवे सर्वथा भर्तृरहितं न ममेष्टं कथं चन ॥ 28 ॥
यदा परवसते भर्ता कुटुम्बार्थेन केन चित सुमनॊवर्णकापेता भवामि वरतचारिणी ॥ 29 ॥
यच च भर्ता न पिबति यच च भर्ता न खादति यच च नाश्नाति मे भर्ता सर्वं तद वर्जयाम्य अहम ॥ 30 ॥
यथॊपदेशं नियता वर्तमाना वराङ्गने सवलंकृता सुप्रयता भर्तुः परियहिते रता ॥ 31 ॥
ये च धर्माः कुटुम्बेषु शवश्र्वा मे कथिताः पुरा भिक्षा बलिश्राधम इति सथाली पाकाश च पर्वसु मान्यानां मानसत्कारा ये चान्ये विदिता मया ॥ 32 ॥
तान सर्वान अनुवर्तामि दिवारात्रम अतन्द्रिता विनयान नियमांश चापि सदा सर्वात्मना शरिता ॥ 33 ॥
मृदून सतः सत्यशीलान सत्यधर्मानुपालिनः आशीविषान इव करुद्धान पतीन परिचराम्य अहम ॥ 34 ॥
पत्याश्रयॊ हि मे धर्मॊ मतः सत्रीणां सनातनः स देवः सागतिर नान्या तस्य का विप्रियं चरेत ॥ 35 ॥
अहं पतीन नातिशये नात्यश्ने नातिभूषये नापि परिवदे शवश्रूं सर्वदा परियन्त्रिता ॥ 36 ॥
अवधानेन सुभगे नित्यॊत्थानतयैव च भर्तारॊ वशगा मह्यं गुरुशुश्रूषणेन च ॥ 37 ॥
नित्यम आर्याम अहं कुन्तीं वीरसूं सत्यवादिनीम सवयं परिचराम्य एका सनानाच छादनभॊजनैः ॥ 38 ॥
नैताम अतिशये जातु वस्त्रभूषण भॊजनैः नापि परिवदे चाहं तां पृथां पृथिवीसमाम ॥ 39 ॥
अष्टाव अग्रे बराह्मणानां सहस्राणि सम नित्यदा भुञ्जते रुक्मपात्रीषु युधिष्ठिर निवेशने ॥ 40 ॥
अष्टाशीति सहस्राणि सनातका गृहमेधिनः तरिंशद दासीक एकैकॊ यान बिभर्ति युधिष्ठिरः ॥ 41 ॥
दशान्यानि सहस्राणि येषाम अन्नं सुसंस्कृतम हरियते रुक्मपात्रीभिर यतीनाम ऊर्ध्वरेतसाम ॥ 42 ॥
तान सर्वान अग्रहारेण बराह्मणान बरह्मवादिनः यथार्हं पूजयामि सम पानाच छादनभॊजनैः ॥ 43 ॥
शतं दासी सहस्राणि कौन्तेयस्य महात्मनः कम्बुकेयूर धारिण्यॊ निष्ककण्ठ्यॊ सवलंकृताः ॥ 44 ॥
महार्हमाल्याभरणाः सुवर्णाश चन्दनॊक्षिताः मणीन हेमच बिभ्रत्यॊ नृत्यगीतविशारदाः ॥ 45 ॥
तासां नाम च रूपं च भॊजनाच छादनानि च सर्वासाम एव वेदाहं कर्म चैव कृताकृतम ॥ 46 ॥
शतं दासी सहस्राणि कुन्तीपुत्रस्य धीमतः पात्री हस्ता दिवारात्रम अतिथीन भॊजयन्त्य उत ॥ 47 ॥
शतम अश्वसहस्राणि दशनागायुतानि च युधिष्ठिरस्यानुयात्रम इन्द्रप्रस्थ निवासिनः ॥ 48 ॥
एतद आसीत तदा राज्ञॊ यन महीं पर्यपालयत येषां संख्या विधिं चैव परदिशामि शृणॊमि च ॥ 49 ॥
अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः आ गॊपालाविपालेभ्यः सर्वं वेद कृताकृतम ॥ 50 ॥
सर्वं राज्ञः समुदयम आयं च वययम एव च एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम ॥ 51 ॥
मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः उपासन रताः सर्वे घटन्ते सम शुभानने ॥ 52 ॥
तम अहं भारम आसक्तम अनाधृष्यं दुरात्मभिः सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै ॥ 53 ॥
अधृष्यं वरुणस्येव निधिपूर्णम इवॊदधिम एकाहं वेद्मि कॊशं वै पतीनां धर्मचारिणाम ॥ 54 ॥
अनिशायां निशायां च सहायाः कषुत्पिपासयॊः आराधयन्त्याः कौरव्यांस तुल्या रात्रिर अहॊ च मे ॥ 55 ॥
परथमं परतिबुध्यामि चरमं संविशामि च नित्यकालम अहं सत्ये एतत संवननं मम ॥ 56 ॥
एतज जानाम्य अहं कर्तुं भर्तृसंवननं महत असत सत्रीणां समाचारं नाहं कुर्यां न कामये ॥ 57 ॥
तच छरुत्वा धर्मसहितं वयाहृतं कृष्णया तदा उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम ॥ 58 ॥
अभिपन्नास्मि पाञ्चालि याज्ञसेनि कषमस्व मे कामकारः सखीनां हि सॊपहासं परभाषितुम ॥ 59 ॥
वनपर्व · Vana Parva
अध्याय 222
Reach this point to mark the section finished.
Continue to अध्याय 223