धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 224

  1. [वै] मार्कण्डेयाधिभिर विप्रैः पाण्डवैश च महात्मभिः कथाभिर अनुकूलाभिः सहासित्वा जनार्दनः ॥ 1 ॥

  2. ततस तैः संविदं कृत्वा यथावन मधुसूदनः आरुरुक्षू रथं सत्याम आह्वयाम आस केशवः ॥ 2 ॥

  3. सत्यभामा ततस तत्र सवजित्वा दरुपदात्मजाम उवाच वचनं हृद्यं यथा भावसमाहितम ॥ 3 ॥

  4. कृष्णे मा भूत तवॊत्कण्ठा मा वयथा मा परजागरः भर्तृभिर देवसंकाशैर जितां पराप्स्यसि मेदिनीम ॥ 4 ॥

  5. न हय एवं शीलसंपन्ना नैवं पूजित लक्षणाः पराप्नुवन्ति चिरं कलेशं यथा तवम असितेक्षणे ॥ 5 ॥

  6. अवश्यं च तवया भूमिर इयं निहतकण्टका भर्तृभिः सह भॊक्तव्या निर्द्वन्द्वेति शरुतं मया ॥ 6 ॥

  7. धार्तराष्ट्र वधं कृत्वा वौराणि परतियात्य च युधिष्ठिरस्थां पृथिवीं दरष्टासि दरुपदात्मजे ॥ 7 ॥

  8. यास ताः परव्राजमानां तवां पराहसन दर्पमॊहिताः ताः कषिप्रं हतसंकल्पा दरक्ष्यसि तवं कुरु सत्रियः ॥ 8 ॥

  9. तव दुःखॊपपन्नाया यैर आचरितम अप्रियम विद्धि संप्रस्थितान सर्वांस तान कृष्णे यमसादनम ॥ 9 ॥

  10. पुत्रस ते परतिविन्ध्यश च सुत सॊमस तथा विभुः शरुतकर्मार्जुनिश चैव शतानीकश च नाकुलिः सहदेवाच च यॊ जातः शरुतसेनस तवात्मजः ॥ 10 ॥

  11. सर्वे कुशलिनॊ वीराः कृतास्त्राश च सुतास तव अभिमन्युर इव परीता दवारवत्यां रता भृशम ॥ 11 ॥

  12. तवम इवैषां सुभद्राच परीत्या सर्वात्मना सथिता परीयते भावनिर्द्वन्द्वा तेभ्यश च विगतज्वरा ॥ 12 ॥

  13. भेजे सर्वात्मना चैव परद्युम्न जननी तथा भानुप्रभृतिभिश चैनान विशिनष्टि च केशवः ॥ 13 ॥

  14. भॊजनाच छादने चैषां नित्यं मे शवशुरः सथितः रामप्रभृतयः सर्वे भजन्त्य अन्धकवृष्णयः तुल्यॊ हि परणयस तेषां परद्युम्नस्य च भामिनि ॥ 14 ॥

  15. एवमादि परियं परीत्या हृद्यम उक्त्वा मनॊऽनुगम गमनाय मनॊ चक्रे वासुदेव रथं परति ॥ 15 ॥

  16. तां कृष्णां कृष्ण महिषी चकाराभिप्रदक्षिणम आरुरॊह रथं शौरेः सत्यभामा च भामिनी ॥ 16 ॥

  17. समयित्वा तु यदुश्रेष्ठॊ दरौपदीं परिसान्त्व्य च उपावर्त्य ततः शीघ्रैर हयैः परायात परंतपः ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 225

Previous: अध्याय 223