[मार्क] यदाभिषिक्तॊ भगवान सेनापत्येन पावकिः तदा संप्रस्थितः शरीमान हृष्टॊ भद्र वटं हरः रथेनादित्यवर्णेन पार्वत्या सहितः परभुः ॥ 1 ॥
सहस्रं तस्य सिंहानां तस्मिन युक्तं रथॊत्तमे उत्पपात दिवं शुभ्रं कालेनाभिप्रचॊदितः ॥ 2 ॥
ते पिबन्त इवाकाशं तरासयन्तश चराचरान सिंहा नभस्य अगच्छन्त नदन्तश चारु केसराः ॥ 3 ॥
तस्मिन रथे पशुपतिः सथितॊ भात्य उमया सह विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा ॥ 4 ॥
अग्रतस तस्य भगवान धनेशॊ गुह्यकैः सह आस्थाय रुचिरं याति पुष्पकं नरवाहनः ॥ 5 ॥
ऐरावतं समास्थाय शक्रश चापि सुरैः सह पृष्ठतॊ ऽनुययौ यान्तं वरदं वृषभध्वजम ॥ 6 ॥
जम्भकैर यक्षरक्षॊभिः सरग्विभिः समलंकृतः यात्य अमॊघॊ महायक्षॊ दक्षिणं पक्षम आस्थितः ॥ 7 ॥
तस्य दक्षिणतॊ देवा मरुतश चित्रयॊधिनः गच्छन्ति वसुभिः सार्धं रुद्रैश च सह संगताः ॥ 8 ॥
यमश च मृत्युना सार्धं सर्वतः परिवारितः घॊरैर वयाधिशतैर याति घॊररूपवपुस तथा ॥ 9 ॥
यमस्य पृष्ठतश चैव घॊरस तरिशिखरः शितः विजयॊ नाम रुद्रस्य याति शूलः सवलंकृतः ॥ 10 ॥
तम उग्रपाशॊ वरुणॊ भगवान सलिलेश्वरः परिवार्य शनैर याति यादॊभिर विविधैर वृतः ॥ 11 ॥
पृष्ठतॊ विजयस्यापि याति रुद्रस्य पट्टिशः गदामुसलशक्त्याद्यैर वृतः परहरणॊत्तमैः ॥ 12 ॥
पट्टिशं तव अन्वगाद राजंश छत्रं रौद्रं महाप्रभम कमण्डलुश चाप्य अनु तं महर्षिगणसंवृतः ॥ 13 ॥
तस्य दक्षिणतॊ भाति दण्डॊ गच्छञ शरिया वृतः भृग्वङ्गिरॊभिः सहितॊ देवैश चाप्य अभिपूजितः ॥ 14 ॥
एषां तु पृष्ठतॊ रुद्रॊ विमले सयन्दने सथितः याति संहर्षयन सर्वांस तेजसा तरिदिवौकसः ॥ 15 ॥
ऋषयश चैव देवाश च गन्धर्वा भुजगास तथा नद्यॊ नदा दरुमाश चैव तथैवाप्सरसां गणाः ॥ 16 ॥
नक्षत्राणि गरहाश चैव देवानां शिशवश च ये सत्रियश च विविधाकारा यान्ति रुद्रस्य पृष्ठतः सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः ॥ 17 ॥
पर्जन्यश चाप्य अनुययौ नमस्कृत्य पिनाकिनम छत्रं तु पाण्डुरं सॊमस तस्य मूर्धन्य अधारयत चामरे चापि वायुश च गृहीत्वाग्निश च विष्ठितौ ॥ 18 ॥
शक्रश च पृष्ठतस तस्य याति राजञ शरिया वृतः सह राजर्षिभिः सर्वैः सतुवानॊ वृषकेतनम ॥ 19 ॥
गौरी विद्याथ गान्धारि केशिनी मित्र साह्वया सावित्र्या सह सर्वास ताः पार्वत्या यान्ति पृष्ठतः ॥ 20 ॥
तत्र विद्या गणाः सर्वे ये के चित कविभिः कृताः यस्य कुर्वन्ति वचनं सेन्द्रा देवाश चमूमुखे ॥ 21 ॥
स गृहीत्वा पताकां तु यात्य अग्रे राक्षसॊ गरहः वयापृतस तु शमशाने यॊ नित्यं रुद्रस्य वै सखा पिङ्गलॊ नाम यक्षेन्द्रॊ लॊकस्यानन्द दायकः ॥ 22 ॥
एभिः स सहितस तत्र ययौ देवॊ यथासुखम अग्रतः पृष्ठतश चैव न हि तस्य गतिर धरुवा ॥ 23 ॥
रुद्रं सत कर्मभिर मर्त्याः पूजयन्तीह दैवतम शिवम इत्य एव यं पराहुर ईशं रुद्रं पिनाकिनम भावैस तु विविधाकारैः पूजयन्ति महेश्वरम ॥ 24 ॥
देव सेनापतिस तव एवं देव सेनाभिर आवृतः अनुगच्छति देवेशं बरह्मण्यः कृत्तिका सुतः ॥ 25 ॥
अथाब्रवीन महासेनं महादेवॊ बृहद्वचः सप्तमं मारुत सकन्धं रक्षनित्यम अतन्द्रितः ॥ 26 ॥
[सकन्द] सप्तमं मारुत सकन्धं पालयिष्याम्य अहं परभॊ यद अन्यद अपि मे कार्यं देव तद वद माचिरम ॥ 27 ॥
[रुद्र] कार्येष्व अहं तवया पुत्र संद्रष्टव्यः सदैव हि दर्शनान मम भक्त्या च शरेयॊ परम अवाप्स्यसि ॥ 28 ॥
[मार्क] इत्य उक्त्वा विससर्जैनं परिष्वज्य महेष्वरः विसर्जिते ततः सकन्दे बभूवौत्पातिकं महत सहसैव महाराज देवान सर्वान परमॊहयत ॥ 29 ॥
जज्वाल खं सनक्षत्रं परमूढं भुवनं भृशम चचाल वयनदच चॊर्वी तमॊ भूतं जगत परभॊ ॥ 30 ॥
ततस तद दारुणं दृष्ट्वा कषुभितः शंकरस तदा उमा चैव महाभागा देवाश च समहर्षयः ॥ 31 ॥
ततस तेषु परमूढेषु पर्वताम्बुद संनिभम नानाप्रहरणं घॊरम अदृश्यत महद बलम ॥ 32 ॥
तद धि घॊरम असंख्येयं गर्जच च विविधा गिरः अभ्यद्रवद रणे देवान भगवन्तं च शंकरम ॥ 33 ॥
तैर विसृष्टान्य अनीकेषु बाणजालान्य अनेकशः पर्वताश च शतघ्न्यश च परासाश च परिघा गदाः ॥ 34 ॥
निपतद्भिश च तैर घॊरैर देवानीकं महायुधैः कषणेन वयद्रवत सर्वं विमुखं चाप्य अदृश्यत ॥ 35 ॥
निकृत्तयॊधनागाश्वं कृत्तायुध महारथम दानवैर अर्दितं सैन्यं देवानां विमुखं बभौ ॥ 36 ॥
असुरैर वध्यमानं तत पावकैर इव काननम अपतद दुग्ध भूयिष्ठं महाद्रुम वनं यथा ॥ 37 ॥
ते विभिन्नशिरॊ देहाः परच्यवन्ते दिवौकसः न नाथम अध्यगच्छन्त वध्यमाना महारणे ॥ 38 ॥
अथ तद विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः आश्वासयन्न उवाचेदं बलवद दानवार्दितम ॥ 39 ॥
भयं तयजत भद्रं वः शूराः शस्त्राणि गृह्णत कुरुध्वं विक्रमे बुद्धिं मा वः का चिद वयथा भवेत ॥ 40 ॥
जयतैनान सुदुर्वृत्तान दानवान घॊरदर्शनान अभिद्रवत भद्रं वॊ मया सह महासुरान ॥ 41 ॥
शक्रस्य वचनं शरुत्वा समाश्वस्ता दिवौकसः दानवान परत्ययुध्यन्त शक्रं कृत्वा वयपाश्रयम ॥ 42 ॥
ततस ते तरिदशाः सर्वे मरुतश च महाबलाः परत्युद्ययुर महावेगाः साध्याश च वसुभिः सह ॥ 43 ॥
तैर विसृष्टान्य अनीकेषु करुद्धैः शस्त्राणि संयुगे शराश च दैत्य कायेषु पिबन्ति समासृग उल्बणम ॥ 44 ॥
तेषां देहान विनिर्भिद्य शरास ते निशितास तदा निष्पतन्तॊ अदृश्यन्त नगेभ्य इव पन्नगाः ॥ 45 ॥
तानि दैत्य शरीराणि निर्भिन्नानि सम सायकैः अपतन भूतले राजंश छिन्नाभ्राणीव सर्वशः ॥ 46 ॥
ततस तद दानवं सैन्यं सर्वैर देवगणैर युधि तरासितं विविधैर बाणैः कृतं चैव पराङ्मुखम ॥ 47 ॥
अथॊत्क्रुष्टं तदा हृष्टैः सर्वैर देवैर उदायुधैः संहतानि च तूर्याणि तदा सर्वाण्य अनेकशः ॥ 48 ॥
एवम अन्यॊन्यसंयुक्तं युद्धम आसीत सुदारुणम देवानां दानवानां च मांसशॊणितकर्दमम ॥ 49 ॥
अनयॊ देवलॊकस्य सहसैव वयदृश्यत तथा हि दानवा घॊरा विनिघ्नन्ति दिवौकसः ॥ 50 ॥
ततस तूर्यप्रणादश च भेरीणां च महास्वनाः बभूवुर दानवेन्द्राणां सिंहनादाश च दारुणाः ॥ 51 ॥
अथ दैत्य बलाद घॊरान निष्पपात महाबलः दानवॊ महिषॊ नाम परगृह्य विपुलं गिरिम ॥ 52 ॥
ते तं घनैर इवादित्यं दृष्ट्वा संपरिवारितम समुद्यतगिरिं राजन वयद्रवन्त दिवौकसः ॥ 53 ॥
अथाभिद्रुत्य महिषॊ देवांश चिक्षेप तं गिरिम पतता तेन गिरिणा देवसैन्यस्य पार्थिव भीमरूपेण निहतम अयुतं परापतद भुवि ॥ 54 ॥
अथ तैर दानवैः सार्धं महिषस तरासयन सुरान अभ्यद्रवद रणे तूर्णं सिंहः कषुद्रमृगान इव ॥ 55 ॥
तम आपतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः वयद्रवन्त रणे भीता विशीर्णायुध केतनाः ॥ 56 ॥
ततः स महिषः करुद्धस तूर्णं रुद्र रथं ययौ अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम ॥ 57 ॥
यदा रुद्र रथं करुद्धॊ महिषः सहसा गतः रेसतू रॊदसी गाढं मुमुहुश च महर्षयः ॥ 58 ॥
वयनदंश च महाकाया दैत्या जलधरॊपमाः आसीच च निश्चितं तेषां जितम अस्माभिर इत्य उत ॥ 59 ॥
तथा भूते तु भगवान नावधीन महिषं रणे सस्मार च तदा सकन्दं मृत्युं तस्य दुरात्मनः ॥ 60 ॥
महिषॊ ऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत देवान संत्रासयंश चापि दैत्यांश चापि परहर्षयन ॥ 61 ॥
ततस तस्मिन भये घॊरे देवानां समुपस्थिते आजगाम महासेनः करॊधात सूर्य इव जवलन ॥ 62 ॥
लॊहिताम्बर संवीतॊ लॊहितस्रग्वि भूषणः लॊहितास्यॊ महाबाहुर हिरण्यकवचः परभुः ॥ 63 ॥
रथम आदित्यसंकाशम आस्थितः कनकप्रभम तं दृष्ट्वा दैत्य सेना सा वयद्रवत सहसा रणे ॥ 64 ॥
स चापि तां परज्वलितां महिषस्य विदारिणीम मुमॊच शक्तिं राजेन्द्र महासेनॊ महाबलः ॥ 65 ॥
सा मुक्ताभ्यहनच छक्तिर महिषस्य शिरॊमहत पपात भिन्ने शिरसि महिषस तयक्तजीवितः ॥ 66 ॥
कषिप्ताक्षिप्ता तु सा शक्तिर हत्वा शत्रून सहस्रशः सकन्द हस्तम अनुप्राप्ता दृश्यते देवदानवैः ॥ 67 ॥
परायॊ शरैर विनिहता महासेनेन धीमता शेषा दैत्य गणा घॊरा भीतास तरस्ता दुरासदैः सकन्दस्य पार्षदैर हत्वा भक्षिताः शतसंघशः ॥ 68 ॥
दानवान भक्षयन्तस ते परपिबन्तश च शॊणितम कषणान निर्दानवं सर्वम अकार्षुर भृशहर्षिताः ॥ 69 ॥
तमांसीव यथा सूर्यॊ वृक्षान अग्निर घनान खगः तथा सकन्दॊ ऽजयच छत्रून सवेन वीर्येण कीर्तिमान ॥ 70 ॥
संपूज्यमानस तरिदशैर अभिवाद्य महेश्वरम शुशुभे कृत्तिका पुत्रः परकीर्णांशुर इवांशुमान ॥ 71 ॥
नष्टशत्रुर यदा सकन्दः परयातश च महेश्वरम अथाब्रवीन महासेनं परिष्वज्य पुरंदरः ॥ 72 ॥
बरह्मदत्तवरः सकन्द तवयायं महिषॊ हतः देवास तृणमया यस्य बभूवुर जयतां वर सॊ ऽयं तवया महाबाहॊ शमितॊ देवकण्टकः ॥ 73 ॥
शतं महिषतुल्यानां दानवानां तवया रणे निहतं देवशत्रूणां यैर वयं पूर्वतापिताः ॥ 74 ॥
तावकैर भक्षिताश चान्ये दानवाः शतसंघशः अजेयस तवं रणे ऽरीणाम उमापतिर इव परभुः ॥ 75 ॥
एतत ते परथमं देवख्यातं कर्म भविष्यति तरिषु लॊकेषु कीर्तिश च तवाक्षय्या भविष्यति वशगाश च भविष्यन्ति सुरास तव सुरात्मज ॥ 76 ॥
महासेनेत्य एवम उक्त्वा निवृत्तः सह दैवतैः अनुज्ञातॊ भगवता तयम्बकेन शचीपतिः ॥ 77 ॥
गतॊ भद्र वटं रुद्रॊ निवृत्ताश च दिवौकसः उक्ताश च देवा रुद्रेण सकन्दं पश्यत माम इव ॥ 78 ॥
स हत्वा दानव गणान पूज्यमानॊ महर्षिभिः एकाह्नैवाजयत सर्वं तरैलॊक्यं वह्निनन्दनः ॥ 79 ॥
सकन्दस्य य इदं जन्म पठते सुसमाहितः स पुष्टिम इह संप्राप्य सकन्द सालॊक्यताम इयात ॥ 80 ॥
वनपर्व · Vana Parva
अध्याय 221
Reach this point to mark the section finished.
Continue to अध्याय 222