[मार्क] यदा सकन्देन मातॄणाम एवम एतत परियं कृतम अथैनम अब्रवीत सवाहा मम पुत्रस तवम औरसः ॥ 1 ॥
इच्छाम्य अहं तवया दत्तां परीतिं परमदुर्लभाम ताम अब्रवीत ततः सकन्दः परीतिम इच्छसि कीदृशीम ॥ 2 ॥
[सवाहा] दक्षस्याहं परिया कन्या सवाहा नाम महाभुज बाल्यात परभृति नित्यं च जातकामा हुताशने ॥ 3 ॥
न च मां कामिनीं पुत्रसम्यग जानाति पावकः इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना ॥ 4 ॥
[सकन्द] हव्यं कव्यं च यत किं चिद दविजा मन्त्रपुरस्कृतम हॊष्यन्त्य अग्नौ सदा देवि सवाहेत्य उक्त्वा समुद्यतम ॥ 5 ॥
अद्य परभृति दास्यन्ति सुवृत्ताः सत्पथे सथिताः एवम अग्निस तवया सार्धं सदा वत्स्यति शॊभने ॥ 6 ॥
[मार्क] एवम उक्ता ततः सवाहा तुष्टा सकन्देन पूजिता पावकेन समायुक्ता भर्त्रा सकन्दम अपूजयत ॥ 7 ॥
ततॊ बरह्मा महासेनं परजापतिर अथाब्रवीत अभिगच्छ महादेवं पितरं तरिपुरार्दनम ॥ 8 ॥
रुद्रेणाग्निं समाविश्य सवाहाम आविश्य चॊमया हितार्थं सर्वलॊकानां जातस तवम अपराजितः ॥ 9 ॥
उमा यॊन्यां च रुद्रेण शुक्रं सिक्तं महात्मना आस्ते गिरौ निपतितं मिञ्जिका मिञ्जिकं यतः ॥ 10 ॥
संभूतं लॊहितॊदे तु शॊक्र शेषम अवापतत सूर्यरश्मिषु चाप्य अन्यद अन्यच चैवापतद भुवि आसक्तम अन्यद वृक्षेषु तद एवं पञ्चधापतत ॥ 11 ॥
त एते विविधाकारा गणा जञेया मनीषिभिः तव पारिषदा घॊरा य एते पिशिताशनाः ॥ 12 ॥
एवम अस्त्व इति चाप्य उक्त्वा महासेनॊ महेश्वरम अपूजयद अमेयात्मा पितरं पितृवत्सलः ॥ 13 ॥
अर्कपुष्पैस तु ते पञ्च गणाः पूज्या धनार्थिभि वयाधिप्रशमनार्थं च तेषां पूजां समाचरेत ॥ 14 ॥
मिञ्जिका मिञ्जिकं चैव मिथुनं रुद्र संभवम नमः कार्यं सदैवेह बालानां हितम इच्छता ॥ 15 ॥
सत्रियॊ मानुषमांसादा वृद्धिका नाम नामतः वृक्षेषु जातास ता देव्यॊ नमः कार्याः परजार्थिभिः ॥ 16 ॥
एवम एते पिशाचानाम असंख्येया गणाः समृताः घण्टायाः सपताकायाः शृणु मे संभवं नृप ॥ 17 ॥
ऐरावतस्य घण्टे दवे वैजयन्त्याव इति शरुते गुहस्य ते सवयं दत्ते शक्रेणानाय्य धीमता ॥ 18 ॥
एका तत्र विशाखस्य घण्टा सकन्दस्य चापरा पताका कार्त्तिकेयस्य विशाखस्य च लॊहिता ॥ 19 ॥
यानि करीडनकान्य अस्य देवैर दत्तानि वै तदा तैर एव रमते देवॊ महासेनॊ महाबलः ॥ 20 ॥
स संवृतः पिशाचानां गणैर देवगणैस तथा शुशुभे काञ्चने शैले दीप्यमानः शरिया वृतः ॥ 21 ॥
तेन वीरेण शुशुभे स शैलः शुभकाननः आदित्येणेवांशुमता मन्दरश चारुकन्दरः ॥ 22 ॥
संतानकवनैः फुल्लैः करवीर वनैर अपि पारिजात वनैश चैव जपा शॊकवनैस तथा ॥ 23 ॥
कदम्बतरुषण्डैश च दिव्यैर मृगगणैर अपि दिव्यैः पक्षिगणैश चैव शुशुभे शवेतपर्वतः ॥ 24 ॥
तत्र देवगणाः सर्वे सर्वे चैव महर्षयः मेघतूर्य रवाश चैव कषुब्धॊदधि समस्वनाः ॥ 25 ॥
तत्र दिव्याश च गन्धर्वा नृत्यन्त्य अप्सरसस तथा हृष्टानां तत्र भूतानां शरूयते निनदॊ महान ॥ 26 ॥
एवं सेन्द्रं जगत सर्वं शवेतपर्वतसंस्थितम परहृष्टं परेक्षते सकन्दं न च गलायति दर्शनात ॥ 27 ॥
वनपर्व · Vana Parva
अध्याय 220
Reach this point to mark the section finished.
Continue to अध्याय 221