धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 22

  1. [वा] एवं स पुरुषव्याघ्र शाल्वॊ राज्ञां महारिपुः युध्यमानॊ मया संख्ये वियद अभ्यागमत पुनः ॥ 1 ॥

  2. ततः शतघ्नीश च महागदाश च; दीप्तंश च शूलान मुसलान असींश च चिक्षेप रॊषान मयि मन्दबुद्धिः; शाल्वॊ महाराज जयाभिकाङ्क्षी ॥ 2 ॥

  3. तान आशुगैर आपततॊ ऽहम आशु; निवार्य तूर्णं खगमान ख एव दविधा तरिधा चाच्छिनम आशु मुखैस; ततॊ ऽनतरिक्षे निनदॊ बभूव ॥ 3 ॥

  4. ततः शतसहस्रेण शराणां नतपर्वणाम दारुकं वाजिनश चैव रथं च समवाकिरत ॥ 4 ॥

  5. ततॊ माम अब्रवीद वीर दारुकॊ विह्वलन्न इव सथातव्यम इति तिष्ठामि शाल्व बाणप्रपीडितः ॥ 5 ॥

  6. इति तस्य निशम्याहं सारथेः करुणं वचः अवेक्षमाणॊ यन्तारम अपश्यं शरपीडितम ॥ 6 ॥

  7. न तस्यॊरसि नॊ मूर्ध्नि न काये न भुजद्वजे अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः ॥ 7 ॥

  8. स तु बाणवरॊत्पीडाद विस्रवत्य असृग उल्बणम अभिवृष्टॊ यथा मेधैर गिरिर गैरिकधातुमान ॥ 8 ॥

  9. अभीषु हस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे अस्तम्भयं महाबाहॊ शाल्व बाणप्रपीडितम ॥ 9 ॥

  10. अथ मां पुरुषः कश चिद दवारका निलयॊ ऽबरवीत तवरितॊ रथम अभ्येत्य सौहृदाद इव भारत ॥ 10 ॥

  11. आहुकस्य वचॊ वीर तस्यैव परिचारकः विषण्णः सन्नकण्ठॊ वै तन निबॊध युधिष्ठिरः ॥ 11 ॥

  12. दवारकाधिपतिर वीर आह तवाम आहुकॊ वचः केशवेह विजानीष्व यत तवां पितृसखॊ ऽबरवीत ॥ 12 ॥

  13. उपयात्वाद्य शाल्वेन दवारकां वृष्णिनन्दन विषक्ते तवयि दुर्धर्ष हतः शूर सुतॊ बलात ॥ 13 ॥

  14. तद अलं साधु युद्धेन निवर्तस्व जनार्दन दवारकाम एव रक्षस्व कार्यम एतन महत तव ॥ 14 ॥

  15. इत्य अहं तस्य वचनं शरुत्वा परमदुर्मनाः निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा ॥ 15 ॥

  16. सात्यकिं बलदेवं च परद्युम्नं च महारथम जगर्हे मनसा वीर तच छरुत्वा विप्रियं वचः ॥ 16 ॥

  17. अहं हि दवारकायाश च पितुश च कुरुनन्दन तेषु रक्षां समाधाय परयातः सौभपातने ॥ 17 ॥

  18. बलदेवॊ महाबाहुः कच चिज जीवति शत्रुहा सात्यकी रौक्मिणेयश च चारुदेष्णश च वीर्यवान साम्बप्रभृतयश चैवेत्य अहम आसं सुदुर्मनाः ॥ 18 ॥

  19. एतेषु हि नरव्याघ्र जीवत्सु न कथं चन शक्यः शूर सुतॊ हन्तुम अपि वज्रभृता सवयम ॥ 19 ॥

  20. हतः शूर सुतॊ वयक्तं वयक्तं ते च परासवः बलदेव मुखाः सर्वे इति मे निश्चिता मतिः ॥ 20 ॥

  21. सॊ ऽहं सर्वविनाशं तं चिन्तयानॊ मुहुर मुहुः सुविह्वलॊ महाराज पुनः शाल्वम अयॊधयम ॥ 21 ॥

  22. ततॊ ऽपश्यं महाराज परपतन्तम अहं तदा सौभाच छूर सुतं वीर ततॊ मां मॊह आविशत ॥ 22 ॥

  23. तस्य रूपं परपततः पितुर मम नराधिप ययातेः कषीणपुण्यस्य सवर्गाद इव महीतलम ॥ 23 ॥

  24. विशीर्णगलितॊष्णीषः परकीर्णाम्बर मूर्धजः परपतन दृश्यते ह सम कषीणपुण्य इव गरहः ॥ 24 ॥

  25. ततः शार्ङ्गं धनुःश्रेष्ठं करात परपतितं मम मॊहात सन्नश च कौन्तेय रथॊपस्थ उपाविशम ॥ 25 ॥

  26. ततॊ हाहाकृतं सर्वं सैन्यं मे गतचेतनम मां दृष्ट्वा रथनीडस्थं गतासुम इव भारत ॥ 26 ॥

  27. परसार्य बाहू पततः परसार्य चरणाव अपि रूपं पितुर अपश्यं तच छकुनेः पतितॊ यथा ॥ 27 ॥

  28. तं पतन्तं महाबाहॊ शूलपट्टिशपाणयः अभिघ्नन्तॊ भृशं वीरा मम चेतॊ वयकम्पयन ॥ 28 ॥

  29. ततॊ मुहूर्तात परतिलभ्य संज्ञाम; अहं तदा वीर महाविमर्दे न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि ॥ 29 ॥

  30. ततॊ ममासीन मनसि पायेयम इति निश्चितम परबुद्धॊ ऽसमि ततॊ भूयः शतशॊ विकिरञ शरान ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 23

Previous: अध्याय 21