[वा] आनर्तनगरं मुक्तं ततॊ ऽहम अगमं तदा महाक्रतौ राजसूये निवृत्ते नृपते तव ॥ 1 ॥
अपश्यं दवारकां चाहं महाराज हतत्विषम निःस्वाध्याय वषट्कारां निर्भूषण वरस्त्रियम ॥ 2 ॥
अनभिज्ञेय रूपाणि दवारकॊपवनानि च दृष्ट्वा शङ्कॊपपन्नॊ ऽहम अपृच्छं हृदिकात्मजम ॥ 3 ॥
अस्वस्थनरनारीकम इदं वृष्णिपुरं भृषम किम इदं नरशार्दूल शरॊतुम इच्छामहे वयम ॥ 4 ॥
एवम उक्तस तु स मया विस्तरेणेदम अब्रवीत रॊधं मॊक्षं च शाल्वेन हार्दिक्यॊ राजसत्तम ॥ 5 ॥
ततॊ ऽहं कौरवश्रेष्ठ शरुत्वा सर्वम अशेषतः विनाशे शाल्वराजस्य तदैवाकरवं मतिम ॥ 6 ॥
ततॊ ऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम राजानम आहुकं चैव तथैवानक दुन्दुभिम सर्ववृष्णिप्रवीरांश च हर्षयन्न अब्रुवं तदा ॥ 7 ॥
अप्रमादः सदा कार्यॊ नगरे यादवर्षभाः शाल्वराजविनाशाय परयातं मां निबॊधत ॥ 8 ॥
नाहत्वा तं निवर्तिष्ये पुरीं दवारवतीं परति सशाल्वं सौभनगरं हत्वा दरष्टास्मि वः पुनः तरिसामा हन्यताम एषा दुन्दुभिः शत्रुभीषणी ॥ 9 ॥
ते मयाश्वासिता वीरा यथावद भरतर्षभ सर्वे माम अब्रुवन हृष्टाः परयाहि जहि शत्रवान ॥ 10 ॥
तैः परहृष्टात्मभिर वीरैर आशीर्भिर अभिनन्दितः वाचयित्वा दविजश्रेष्ठान परणम्य शिरसाहुकम ॥ 11 ॥
सैन्यसुग्रीव युक्तेन रथेनानादयन दिशः परध्माप्य शङ्खप्रवरं पाञ्चजन्यम अहं नृप ॥ 12 ॥
परयातॊ ऽसमि नरव्याघ्र बलेन महता वृतः कॢप्तेन चतुरङ्गेण बलेन जितकाशिना ॥ 13 ॥
समतीत्य बहून देशान गिरींश च बहुपादपान सरांसि सरितश चैव मार्तिकावतम आसदम ॥ 14 ॥
तत्राश्रौषं नरव्याघ्र शाल्वं नगरम अन्तिकात परयातं सौभम आस्थाय तम अहं पृष्ठतॊ ऽनवयाम ॥ 15 ॥
ततः सागरम आसाद्य कुक्षौ तस्य महॊर्मिणः समुद्रनाभ्यां शाल्वॊ ऽभूत सौभम आस्थाय शत्रुहन ॥ 16 ॥
स समालॊक्य दूरान मां समयन्न इव युधिष्ठिर आह्वयाम आस दुष्टात्मा युद्धायैव मुहुर मुहुः ॥ 17 ॥
तस्य शार्ङ्गविनिर्मुक्तैर बहुभिर मर्मभेदिभिः पुरं नासाद्यत शरैस ततॊ मां रॊष आविशत ॥ 18 ॥
स चापि पापप्रकृतिर दैतेयापसदॊ नृप मय्य अवर्षत दुर्धर्षः शरधाराः सहस्रशः ॥ 19 ॥
सैनिकान मम सूतं च हयांश च समवाकिरत अचिन्तयन्तस तु शरान वयं युध्याम भारत ॥ 20 ॥
ततः शतसहस्राणि शराणां नतपर्वणाम चिक्षिपुः समरे वीरा मयि शाल्व पदानुगाः ॥ 21 ॥
ते हयान मे रथं चैव तदा दारुकम एव च छादयाम आसुर असुरा बाणैर मर्म विभेदिभिः ॥ 22 ॥
न हया न रथॊ वीर न यन्ता मम दारुकः अदृश्यन्त शरैश छन्नास तथाहं सैनिकाश च मे ॥ 23 ॥
ततॊ ऽहम अपि कौरव्य शराणाम अयुतान बहून अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम ॥ 24 ॥
न तत्र विषयस तव आसीन मम सैन्यस्य भारत खे विषिक्तं हि तत सौभं करॊशमात्र इवाभवत ॥ 25 ॥
ततस ते परेक्षकाः सर्वे रङ्ग वाट इव सथिताः हर्षयाम आसुर उच्चैर मां सिंहनाद तलस्वनैः ॥ 26 ॥
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे अङ्गेषु रुधिराक्तास ते विविशुः शलभा इव ॥ 27 ॥
ततॊ हलहलाशब्दः सौभमध्ये वयवर्धत वध्यतां विशिखैस तीक्ष्णैः पततां च महार्णवे ॥ 28 ॥
ते निकृत्तभुजस्कन्धाः कबन्धाकृति दर्शनाः नदन्तॊ भैरवान नादन निपतन्ति सम दानवाः ॥ 29 ॥
ततॊ गॊक्षीरकुन्देन्दु मृणालरजतप्रभम जलजं पाञ्चजन्यं वै पराणेनाहम अपूरयम ॥ 30 ॥
तान दृष्ट्वा पतितांस तत्र शाल्वः सौभपतिस तदा मायायुद्धेन महता यॊधयाम आस मां युधि ॥ 31 ॥
ततॊ हुडहुडाः परासाः शक्तिशूलपरश्वधाः पट्टिशाश च भुशुण्ड्यश च परापतन्न अनिशं मयि ॥ 32 ॥
तान अहं माययैवाशु परतिगृह्य वयनाशयम तस्यां हतायां मायायां गिरिशृङ्गैर अयॊधयत ॥ 33 ॥
ततॊ ऽभवत तम इव परभातम इव चाभवत दुर्दिनं सुदिनं चैव शीतम उष्णं च भारत ॥ 34 ॥
एवं मायां विकुर्वाणॊ यॊधयाम आस मां रिपुः विज्ञाय तद अहं सर्वं माययैव वयनाशयम यथाकालं तु युद्धेन वयधमं सर्वतः शरैः ॥ 35 ॥
ततॊ वयॊम महाराज शतसूर्यम इवाभवत शतचन्द्रं च कौन्तेय सहस्रायुत तारकम ॥ 36 ॥
ततॊ नाज्ञायत तदा दिवारात्रं तथा दिशः ततॊ ऽहं मॊहम आपन्नः परज्ञास्त्रं समयॊजयम ततस तद अस्त्रम अस्त्रेण विधूतं शरतूलवत ॥ 37 ॥
तथा तद अभवद युद्धं तुमुलं लॊमहर्षणम लब्धालॊकश च राजेन्द्र पुनः शत्रुम अयॊधयम ॥ 38 ॥
वनपर्व · Vana Parva
अध्याय 21
Reach this point to mark the section finished.
Continue to अध्याय 22