[मार्क] उपविष्टं ततः सकन्दं हिरण्यकवच सरजम हिरण्यचूड मुकुटं हिरण्याक्षं महाप्रभम ॥ 1 ॥
लॊहिताम्बर संवीतं तीक्ष्णदंष्ट्रं मनॊरमम सर्वलक्षणसंपन्नं तरैलॊक्यस्यापि सुप्रियम ॥ 2 ॥
ततस तं वरदं शूरं युवानं मृष्टकुण्डलम अभजत पद्मरूपा शरीः सवयम एव शरीरिणी ॥ 3 ॥
शरिया जुष्टः पृथु यशाः स कुमार वरस तदा निषण्णॊ दृश्यते भूतैः पौर्णमास्यां यथा शशी ॥ 4 ॥
अपूजयन महात्मानॊ बराह्मणास तं महाबलम इदम आहुस तदा चैव सकन्दं तत्र महर्षयः ॥ 5 ॥
हिरण्यवर्णभद्रं ते लॊकानां शंकरॊ भव तवया षष रात्रजातेन सर्वे लॊका वशीकृताः ॥ 6 ॥
अभयं च पुनर दत्तं तवयैवैषां सुरॊत्तम तस्माद इन्द्रॊ भवान अस्तु तरैलॊक्यस्याभयंकरः ॥ 7 ॥
[सकन्द] किम इन्द्रः सर्वलॊकानां करॊतीह तपॊधनाः कथं देव गनांश चैव पाति नित्यं सुरेश्वरः ॥ 8 ॥
[रसयह] इन्द्रॊ दिशति भूतानां बलं तेजॊ परजाः सुखम तुष्टः परयच्छति तथा सर्वान दायान सुरेश्वरः ॥ 9 ॥
दुर्वृत्तानां संहरति वृत्तस्थानां परयच्छति अनुशास्ति च भूतानि कार्येषु बलसूदनः ॥ 10 ॥
असूर्ये च भवेत सूर्यस तथाचन्द्रे च चन्द्रमाः भवत्य अग्निश च वायुश च पृथिव्य आपश च कारणैः ॥ 11 ॥
एतद इन्द्रेण कर्तव्यम इन्द्रे हि विपुलं बलम तवं च वीर बलश्रेष्ठस तस्माद इन्द्रॊ भवस्व नः ॥ 12 ॥
[षक्र] भवस्वेन्द्रॊ महाबाहॊ सर्वेषां नः सुखावहः अभिषिच्यस्व चैवाद्य पराप्तरूपॊ ऽसि सत्तम ॥ 13 ॥
[सकन्द] शाधि तवम एव तरैलॊक्यम अव्यग्रॊ विजये रतः अहं ते किंकरः शक्र न ममेन्द्रत्वम ईप्सितम ॥ 14 ॥
[षक्र] बलं तवाद्भुतं वीर तवं देवानाम अरीञ जहि अवज्ञास्यन्ति मां लॊका वीर्येण तव विस्मिताः ॥ 15 ॥
इन्द्रत्वे ऽपि सथितं वीर बलहीनं पराजितम आवयॊश च मिथॊ भेदे परयतिष्यन्त्य अतन्द्रिताः ॥ 16 ॥
भेदिते च तवयि विभॊ लॊकॊ दवैधम उपेष्यति दविधा भूतेषु लॊकेषु निश्चितेष्व आवयॊस तथा विग्रहः संप्रवर्तेत भूतभेदान महाबल ॥ 17 ॥
तत्र तवं मां रणे तात यथाश्रद्धं विजेष्यसि तस्माद इन्द्रॊ भवान अद्य भविता मा विचारय ॥ 18 ॥
[सकन्द] तवम एव राजा भद्रं ते तरैलॊक्यस्य ममैव च करॊमि किं च ते शक्र शासनं तद बरवीहि मे ॥ 19 ॥
[षक्र] यदि सत्यम इदं वाक्यं निश्चयाद भाषितं तवया यदि वा शासनं सकन्द कर्तुम इच्छसि मे शृणु ॥ 20 ॥
अभिषिच्यस्व देवानां सेनापत्ये महाबल अहम इन्द्रॊ भविष्यामि तव वाक्यान महाबल ॥ 21 ॥
[सकन्द] दानवानां विनाशाय देवानाम अर्थसिद्धये गॊब्राह्मणस्य तराणार्थं सेनापत्ये ऽभिषिञ्च माम ॥ 22 ॥
[मार्क] सॊ ऽभिषिक्तॊ मघवता सर्वैर देवगणैः सह अतीव शुशुभे तत्र पूज्यमानॊ महर्षिभिः ॥ 23 ॥
तस्य तत काञ्चनं छत्रं धरियमाणं वयरॊचत यथैव सुसमिद्धस्य पावकस्यात्म मण्डलम ॥ 24 ॥
विश्वकर्म कृता चास्य दिव्या माला हिरण्मयी आबद्धा तरिपुरघ्नेन सवयम एव यशस्विना ॥ 25 ॥
आगम्य मनुजव्याघ्रसहदेव्या परंतप अर्चयाम आस सुप्रीतॊ भगवान गॊवृषध्वजः ॥ 26 ॥
रुद्रम अग्निं दविजाः पराहू रुद्र सूनुस ततस तु सः रुद्रेण शुक्रम उत्सृष्टं तच छवेतः पर्वतॊ ऽभवत पावकस्येन्द्रियं शवेते कृत्तिकाभिः कृतं नगे ॥ 27 ॥
पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः रुद्र सूनुं ततः पराहुर गुहं गुणवतां वरम ॥ 28 ॥
अनुप्रविश्य रुद्रेण वह्निं जातॊ हय अयं शिशुः तत्र जातस ततः सकन्दॊ रुद्र सूनुस ततॊ ऽभवत ॥ 29 ॥
रुद्रस्य वह्नेः सवाहायाः षण्णां सत्रीणां च तेजसा जातः सकन्दः सुरश्रेष्ठॊ रुद्र सूनुस ततॊ ऽभवत ॥ 30 ॥
अरजे वाससी रक्ते वसानः पावकात्मजः भाति दीप्तवपुः शरीमान रक्ताभ्राभ्याम इवांशुमान ॥ 31 ॥
कुक्कुटश चाग्निना दत्तस तस्य केतुर अलंकृतः रथे समुच्छ्रितॊ भाति कालाग्निर इव लॊहितः ॥ 32 ॥
विवेश कवचं चास्य शरीरं सहजं ततः युध्यमानस्य देहस्य परादुर्भवति तत सदा ॥ 33 ॥
शक्तिर वर्म बलं तेजॊ कान्तत्वं सत्यम अक्षतिः बरह्मण्यत्वम असंमॊहॊ भक्तानां परिरक्षणम ॥ 34 ॥
निकृन्तनं च शत्रूणां लॊकानां चाभिरक्षणम सकन्देन सह जातानि सर्वाण्य एव जनाधिप ॥ 35 ॥
एवं देवगणैः सर्वैः सॊ ऽभिषिक्तः सवलंकृतः बभौ परतीतः सुमनाः परिपूर्णेन्दु दर्शनः ॥ 36 ॥
इष्टैः सवाध्यायघॊषैश च देव तूर्यरवैर अपि देवगन्धर्वगीतैश च सर्वैर अप्सरसां गणैः ॥ 37 ॥
एतैश चान्यैश च विविधैर हृष्टतुष्टैर अलंकृतैः करीडन्न इव तदा देवैर अभिषिक्तः स पावकिः ॥ 38 ॥
अभिषिक्तं महासेनम अपश्यन्त दिवौकसः विनिहत्य तमॊ सूर्यं यथेहाभ्युदितं तथा ॥ 39 ॥
अथैनम अभ्ययुः सर्वा देव सेनाः सहस्रशः अस्माकं तवं पतिर इति बरुवाणाः सर्वतॊदिशम ॥ 40 ॥
ताः समासाद्य भगवान सर्वभूतगणैर वृतः अर्चितश च सतुतश चैव सान्त्वयाम आस ता अपि ॥ 41 ॥
शतक्रतुश चाभिषिच्य सकन्दं सेनापतिं तदा सस्मार तां देव सेनां या सा तेन विमॊक्षिता ॥ 42 ॥
अयं तस्याः पतिर नूनं विहितॊ बरह्मणा सवयम इति चिन्त्यानयाम आस देवसेनां सवलंकृताम ॥ 43 ॥
सकन्दं चॊवाच बलभिद इयं कन्या सुरॊत्तम अजाते तवयि निर्दिष्टा तव पत्नी सवयम्भुवा ॥ 44 ॥
तस्मात तवम अस्या विधिवत पाणिं मन्त्रपुरस्कृतम गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम ॥ 45 ॥
एवम उक्तः स जग्राह तस्याः पाणिं यथाविधि बृहस्पतिर मन्त्रविधं जजाप च जुहाव च ॥ 46 ॥
एवं सकन्दस्य महिषीं देवसेनां विदुर बुधाः षष्ठीं यां बराह्मणाः पराहुर लक्ष्मीम आशां सुखप्रदाम सिनीवालीं कुहूं चैव सद्वृत्तिम अपराजिताम ॥ 47 ॥
यदा सकन्दः पतिर लब्धः शाश्वतॊ देवसेनया तदा तम आश्रयल लक्ष्मीः सवयं देवी शरीरिणी ॥ 48 ॥
शरीजुष्टः पञ्चमीं सकन्दस तस्माच छरी पञ्चमी समृता षष्ठ्यां कृतार्थॊ ऽभूद यस्मात तस्मात षष्ठी महातिथिः ॥ 49 ॥
वनपर्व · Vana Parva
अध्याय 218
Reach this point to mark the section finished.
Continue to अध्याय 219