[मार्क] सकन्दस्य पार्षदान घॊराञ शृणुष्वाद्भुत दर्शनान वज्रप्रहारात सकन्दस्य जज्ञुस तत्र कुमारकाः ये हरन्ति शिशूञ जातान गर्भस्थांश चैव दारुणाः ॥ 1 ॥
वज्रप्रहारात कन्याश च जज्ञिरे ऽसय महाबलाः कुमाराश च विशाखं तं पितृत्वे समकल्पयन ॥ 2 ॥
स भूत्वा भगवान संख्ये रक्षंश छाग मुखस तदा वृतः कन्या गणैः सर्वैर आत्मनीनैश च पुत्रकैः ॥ 3 ॥
मातॄणां परेक्षतीनां च भद्रशाखश च कौशलः ततः कुमार पितरं सकन्दम आहुर जना भुवि ॥ 4 ॥
रुद्रम अग्निम उमां सवाहां परदेशेषु महाबलाम यजन्ति पुत्र कामाश च पुत्रिणश च सदा जनाः ॥ 5 ॥
यास तास तव अजनयत कन्यास तपॊ नाम हुताशनः किं करॊमीति ताः सकन्दं संप्राप्ताः समभाषत ॥ 6 ॥
[मातरह] भवेम सर्वलॊकस्य वयं मातर उत्तमाः परसादात तव पूज्याश च परियम एतत कुरुष्व नः ॥ 7 ॥
[मार्क] सॊ ऽबरवीद बाढम इत्य एवं भविष्यध्वं पृथग्विधाः अशिवाश च शिवाश चैव पुनः पुनर उदारधीः ॥ 8 ॥
ततः संकल्प्य पुत्रत्वे सकंदं मातृगणॊ ऽगमत काकी च हलिमा चैव रुद्राथ बृहली तथा आर्या पलाला वै मित्रा सत्न्प्तैताः शुशु मातरः ॥ 9 ॥
एतासां वीर्यसंपन्नः शिशुर नामातिदारुणः सकन्द परसादजः पुत्रॊ लॊहिताक्षॊ भयंकरः ॥ 10 ॥
एष वीराष्टकः परॊक्तः सकन्द मातृगणॊद्भवः छाग वक्त्रेण सहितॊ नवकः परिकीर्यते ॥ 11 ॥
षष्ठं छागमयं वक्त्रं सकन्दस्यैवेति विद्धि तत षष षिरॊ ऽभयन्तरं राजन नित्यं मातृगणार्चितम ॥ 12 ॥
षण्णां तु परवरं तस्य शीर्षाणाम इह शब्द्यते शक्तिं येनासृजद दिव्यां भद्रशाख इति सम ह ॥ 13 ॥
इत्य एतद विविधाकारं वृत्तं शुक्लस्य पञ्चमीम तत्र युद्धं महाघॊरं वृत्तं षष्ठ्यां जनाधिप ॥ 14 ॥
वनपर्व · Vana Parva
अध्याय 217
Reach this point to mark the section finished.
Continue to अध्याय 218