धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 216

  1. [मार्क] गरहाः सॊपग्रहाश चैव ऋषयॊ मातरस तथा हुताशनमुखाश चापि दीप्ताः पारिषदां गणाः ॥ 1 ॥

  2. एते चान्ये च बहवॊ घॊरास तरिदिववासिनः परिवार्य महासेनं सथिता मातृगणैः सह ॥ 2 ॥

  3. संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः आरुह्यैरावत सकन्धं परययौ दैवतैः सह विजिघांसुर महासेनम इन्द्रस तूर्णतरं ययौ ॥ 3 ॥

  4. उग्रं तच च महावेगं देवानीकं महाप्रभम विचित्रध्वजसंनाहं नाना वाहन कार्मुकम परवराम्बर संवीतं शरिया जुष्टम अलंकृतम ॥ 4 ॥

  5. विजिघांसुं तद आयान्तं कुमारः शक्रम अभ्ययात विनदन पथि शक्रस तु दरुतं याति महाबलः संहर्षयन देवसेनां जिघांसुः पावकात्मजम ॥ 5 ॥

  6. संपूज्यमानस तरिदशैस तथैव परमर्षिभिः समीपम उपसंप्राप्तः कार्त्तिकेयस्य वासवः ॥ 6 ॥

  7. सिंहनादं ततश चक्रे देवेशः सहितः सुरैः गुहॊ ऽपि शब्दं तं शरुत्वा वयनदत सागरॊ यथा ॥ 7 ॥

  8. तस्य शब्देन महता समुद्धूतॊदधि परभम बभ्राम तत्र तत्रैव देवसैन्यम अचेतनम ॥ 8 ॥

  9. जिघांसून उपसंप्राप्तान देवान दृष्ट्वा स पावकिः विससर्ज मुखात करुद्धः परवृद्धाः पावकार्चिषः ता देवसैन्यान्य अदहन वेष्टमानानि भूतले ॥ 9 ॥

  10. ते परदीप्तशिरॊ देहाः परदीप्तायुध वाहनाः परच्युताः सहसा भान्ति चित्रास तारागणा इव ॥ 10 ॥

  11. दह्यमानाः परपन्नास ते शरणं पावकात्मजम देवा वज्रधरं तयक्त्वा ततः शान्तिम उपागताः ॥ 11 ॥

  12. तयक्तॊ देवैस ततः सकन्दे वज्रं शक्राभ्यवासृजत तद विसृष्टं जघानाशु पार्श्वं सकन्दस्य दक्षिणम बिभेद च महाराज पार्श्वं तस्य महात्मनः ॥ 12 ॥

  13. वज्रप्रहारात सकन्दस्य संजातः पुरुषॊ ऽपरः युवा काञ्चनसंनाहः शक्तिधृग दिव्यकुण्डलः यद वज्रविशनाज जातॊ विशाखस तेन सॊ ऽभवत ॥ 13 ॥

  14. तं जातम अपरं दृष्ट्वा कालानलसमद्युतिम भयाद इन्द्रस ततः सकन्दं पराञ्जलिः शरणं गतः ॥ 14 ॥

  15. तस्याभयं ददौ सकन्दः सह सैन्यस्य सत्तम ततः परहृष्टास तरिदशा वादित्राण्य अभ्यवादयन ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 217

Previous: अध्याय 215