धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 215

  1. [मार्क] ऋषयस तु महाघॊरान दृष्ट्वॊत्पातान पृथग्विधान अकुर्वञ शान्तिम उद्विग्ना लॊकानां मॊक भावनाः ॥ 1 ॥

  2. निवसन्ति वने ये तु तस्मिंश चैत्ररथे जनाः ते ऽबरुवन्न एष नॊ ऽनर्थः पावकेनाहृतॊ महान संगम्य षड्भिः पत्नीभिः सप्तर्षीणाम इति सम ह ॥ 2 ॥

  3. अपरे गरुडीम आहुस तवयानर्थॊ ऽयम आहृतः यैर दृष्टा सा तदा देवी तस्या रूपेण गच्छती न तु तत सवाहया कर्मकृतं जानाति वै जनः ॥ 3 ॥

  4. सुपर्णी तु वचॊ शरुत्वा ममायं तनयस तव इति उपगम्य शनैः सकन्दम आहाहं जननी तव ॥ 4 ॥

  5. अथ सप्तर्षयः शरुत्वा जातं पुत्रं महौजसम तत्यजुः षट तदा पत्नीर विना देवीम अरुन्धतीम ॥ 5 ॥

  6. षड्भिर एव तदा जातम आहुस तद वनवासिनः सप्तर्षीन आह च सवाहा मम पुत्रॊ ऽयम इत्य उत अहं जाने नैतद एवम इति राजन पुनः पुनः ॥ 6 ॥

  7. विश्वामित्रस तु कृत्वेष्टिं सप्तर्षीणां महामुनिः पावकं कामसंतप्तम अदृष्टः पृष्ठतॊ ऽनवगात तत तेन निखिलं सर्वम अवबुद्धं यथातथम ॥ 7 ॥

  8. विश्वामित्रस तु परथमं कुमारं शरणं गतः सतवं दिव्यं संप्रचक्रे महासेनस्य चापि सः ॥ 8 ॥

  9. मङ्गलानि च सर्वाणि कौमाराणि तरयॊदश जातकर्मादिकास तस्य करियाश चक्रे महामुनिः ॥ 9 ॥

  10. षड वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम शक्त्या देव्याः साधनं च तथा पारिषदाम अपि ॥ 10 ॥

  11. विश्वामित्रश चकारैतत कर्म लॊकहिताय वै तस्माद ऋषिः कुमारस्य विश्वामित्राभवत परियः ॥ 11 ॥

  12. अन्वजानाच च सवाहाया रूपान्यत्वं महामुनिः अब्रवीच च मुनी सर्वान नापराध्यन्ति वै सत्रियः शरुत्वा तु तत्त्वतस तस्मात ते पत्नीः सर्वतॊ ऽतयजन ॥ 12 ॥

  13. सकन्दं शरुत्वा ततॊ देवा वासवं सहिताब्रुवन अविषह्य बलं सकन्दं जहि शक्राशु माचिरम ॥ 13 ॥

  14. यदि वा न निहन्स्य एनम अद्येन्द्रॊ ऽयं भविष्यति तरैलॊक्यं संनिगृह्यास्मांस तवां च शक्र महाबलः ॥ 14 ॥

  15. स तान उवाच वयथितॊ बालॊ ऽयं सुमहाबलः सरष्टारम अपि लॊकानां युधि विक्रम्य नाशयेत ॥ 15 ॥

  16. सर्वास तवयाभिगच्छन्तु सकन्दं लॊकस्य मातरः कामवीर्या घनन्तु चैनं तथेत्य उक्त्वा च ता ययुः ॥ 16 ॥

  17. तम अप्रतिबलं दृष्ट्वा विषण्णवनदास तु ताः अशक्यॊ ऽयं विचिन्त्यैवं तम एव शरणं ययुः ॥ 17 ॥

  18. ऊचुश चापि तवम अस्माकं पुत्रास्माभिर धृतं जगत अभिनन्दस्व नः सर्वाः परस्नुताः सनेहविक्लवाः ॥ 18 ॥

  19. ताः संपूज्य महासेनः कामांश चासां परदाय सः अपश्यद अग्निम आयान्तं पितरं बलिनां बली ॥ 19 ॥

  20. स तु संपूजितस तेन सह मातृगणेन ह परिवार्य महासेनं रक्षमाणः सथितः सथिरम ॥ 20 ॥

  21. सर्वासां या तु मातॄणां नारी करॊधसमुद्भवा धात्री सा पुत्रवत सकन्दं शूलहस्ताभ्यरक्षत ॥ 21 ॥

  22. लॊहितस्यॊदधेः कन्या करूरा लॊहितभॊजना परिष्वज्य महासेनं पुत्रवत पर्यरक्षत ॥ 22 ॥

  23. अग्निर भूत्वा नैगमेयश छाग वक्त्रॊ बहु परजः रमयाम आस शैलस्थं बालं करीडनकैर इव ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 216

Previous: अध्याय 214