[मार्क] शिवा भार्या तवाङ्गिरसः शीलरूपगुणान्विता तस्याः सा परथमं रूपं कृत्वा देवी जनाधिप जगाम पावकाभ्याशं तं चॊवाच वराङ्गना ॥ 1 ॥
माम अग्ने कामसंतप्तां तवं कामयितुम अर्हसि करिष्यसि न चेद एवं मृतां माम उपधारय ॥ 2 ॥
अहम अङ्गिरसॊ भार्या शिवा नाम हुताशन सखीभिः सहिता पराप्ता मन्त्रयित्वा विनिश्चयम ॥ 3 ॥
[अग्नि] कथं मां तवं विजानीषे कामार्तम इतराः कथम यास तवया कीर्तिताः सर्वाः सप्तर्षीणां परियाः सत्रियः ॥ 4 ॥
[षिवा] अस्माकं तवं परियॊ नित्यं बिभीमस तु वयं तव तवच चित्तम इङ्गितैर जञात्वा परेषितास्मि तवान्तिकम ॥ 5 ॥
मैथुनायेह संप्राप्ता कामं पराप्तं दरुतं चर मातरॊ मां परतीक्षन्ते गमिष्यामि हुताशन ॥ 6 ॥
[मार्क] ततॊ ऽगनिर उपयेमे तां शिवां परीतिमुदा युतः परीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना ॥ 7 ॥
अचिन्तयन ममेदं ये रूपं दरक्ष्यन्ति कानने ते बराह्मणीनाम अनृतं दॊषं वक्ष्यन्ति पावके ॥ 8 ॥
तस्माद एतद दरक्ष्यमाणा गरुडी संभवाम्य अहम वनान निर्गमनं चैव सुखं मम भविष्यति ॥ 9 ॥
सुपर्णी सा तदा भूत्वा निर्जगाम महावनात अपश्यत पर्वतं शवेतं शरस्तम्बैः सुसंवृतम ॥ 10 ॥
दृष्टी विषैः सप्त शीर्षैर गुप्तं भॊगिभिर अद्भुतैः रक्षॊभिश च पिशाचैश च रौद्रैर भूतगणैस तथा राक्षसीभिश च संपूर्णम अनेकैश च मृगद्विजैः ॥ 11 ॥
सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम पराक्षिपत काञ्चने कुण्डे शुक्रं सा तवरिता सती ॥ 12 ॥
शिष्टानाम अपि सा देवी सप्तर्षीणां महात्मनाम पत्नी सरूपतां कृत्वा कामयाम आस पावकम ॥ 13 ॥
दिव्यरूपम अरुन्धत्याः कर्तुं न शकितं तया तस्यास तपः परभावेण भर्तृशुश्रूषणेन च ॥ 14 ॥
षट्कृत्वस तत तु निक्षिप्तम अग्ने रेतॊ कुरूत्तम तस्मिन कुण्टे परतिपदि कामिन्या सवाहया तदा ॥ 15 ॥
तत सकन्नं तेजसा तत्र संभृतं जनयत सुतम ऋषिभिः पूजितं सकन्नम अनयत सकन्दतां ततः ॥ 16 ॥
षट्शिरा दविगुणश्रॊत्रॊ दवादशाक्षि भुजक्रमः एकग्रीपस तव एककायः कुमारः समपद्यत ॥ 17 ॥
दवितीयायाम अभिव्यक्तस तृतीयायां शिशुर बभौ अङ्गप्रत्यङ्ग संभूतश चतुर्थ्याम अभवद गुहः ॥ 18 ॥
लॊहिताभ्रेण महता संवृतः सह विद्युता लॊहिताभ्रे सुमहति भाति सूर्य इवॊदितः ॥ 19 ॥
गृहीतं तु धनुस तेन विपुलं लॊमहर्षणम नयस्तं यत तरिपुरघ्नेन सुरारिविनिकृन्तनम ॥ 20 ॥
तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस तदा संमॊहयन्न इवेमां स तरीँल लॊकान सचराचरान ॥ 21 ॥
तस्य तं निनदं शरुत्वा महामेघौघनिस्वनम उत्पेततुर महानागौ चित्रश चैरावतश च ह ॥ 22 ॥
ताव आपतन्तौ संप्रेक्ष्य स बालार्कसमद्युथिः दवाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना अपरेणाग्निदायादस ताम्रचूडं भुजेन सः ॥ 23 ॥
महाकायम उपश्लिष्टं कुक्कुटं बलिनां वरम गृहीत्वा वयनदद भीमं चिक्रीड च महाबलः ॥ 24 ॥
दवाभ्यां भुजाभ्यां बलवान गृहीत्वा शङ्खम उत्तमम पराध्मापयत भूतानां तरासनं बलिनाम अपि ॥ 25 ॥
दवाभ्यां भुजाभ्याम आकाशं बहुशॊ निजघान सः करीडन भाति महासेनस तरीँल लॊकान वदनैः पिबन पर्वताग्रे ऽपरमेयात्मा रश्मिमान उदये यथा ॥ 26 ॥
स तस्य पर्वतस्याग्रे निषण्णॊ ऽदभुतविक्रमः वयलॊकयद अमेयात्मा मुखैर नानाविधैर दिशः स पश्यन विविधान भावांश चकार निनदं पुनः ॥ 27 ॥
तस्य तं निनदं शरुत्वा नयपतन बहुधा जनाः भीताश चॊद्विग्न मनसस तम एव शरणं ययुः ॥ 28 ॥
ये तु तं संश्रिता देवं नानावर्णास तदा जनाः तान अप्य आहुः पारिषदान बराह्मणाः सुमहाबलान ॥ 29 ॥
स तूत्थाय महाबाहुर उपसान्त्व्य च ताञ जनान धनुर विकृष्य वयसृजद बाणाञ शवेते महागिरौ ॥ 30 ॥
बिभेद स शरैः शैलं करौञ्चं हिमवतः सुतम तेन हंसाश च गृघ्राश च मेरुं गच्छन्ति पर्वतम ॥ 31 ॥
स विशीर्णॊ ऽपतच छैलॊ भृशम आर्तस्वरान रुवन तस्मिन निपतिते तव अन्ये नेदुः शैला भृशं भयात ॥ 32 ॥
स तं नादं भृशार्तानां शरुत्वापि बलिनां वरः न पराव्यथद अमेयात्मा शक्तिम उद्यम्य चानदत ॥ 33 ॥
सा तदा विपुला शक्तिः कषिप्ता तेन महात्मना बिभेद शिखरं घॊरं शवेतस्य तरसा गिरौ ॥ 34 ॥
स तेनाभिहतॊ दीनॊ गिरिः शवेतॊ ऽचलैः सह उत्पपात महीं तयक्त्वा भीतस तस्मान महात्मनः ॥ 35 ॥
ततः परव्यथिता भूमिर वयशीर्यत समन्ततः आर्ता सकन्दं समासाद्य पुनर बलवती बभौ ॥ 36 ॥
पर्वताश च नमस्कृत्य तम एव पृथिवीं गताः अथायम अभजल लॊकः सकन्द शुक्लस्य पञ्चमीम ॥ 37 ॥
वनपर्व · Vana Parva
अध्याय 214
Reach this point to mark the section finished.
Continue to अध्याय 215