[मार्क] अग्नीनां विविधॊ वंशः पीर्तितस ते मयानघ शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः ॥ 1 ॥
अद्भुतस्याद्भुतं पुत्रं परवक्ष्याम्य अमितौजसम जातं सप्तर्षिभार्याभिर बरह्मण्यं कीर्तिवर्धनम ॥ 2 ॥
देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम तत्राजयन सदा देवान दानवा घॊररूपिणः ॥ 3 ॥
वध्यमानं बलं दृष्ट्वा बहुशस तैः पुरंदरः सवसैन्यनायकार्थाय चिन्ताम आप भृशं तदा ॥ 4 ॥
देवसेनां दानवैर यॊ भग्नां दृष्ट्वा महाबलः पालयेद वीर्यम आश्रित्य स जञेयः पुरुषॊ मया ॥ 5 ॥
स शैलं मानसं गत्वा धयायन्न अर्थम इमं भृशम शुश्रावार्तस्वरं घॊरम अथ मुक्तं सत्रिया तदा ॥ 6 ॥
अभिधावतु मा कश चित पुरुषस तरातुचैव ह पतिं च मे परदिशतु सवयं वा पतिर अस्तु मे ॥ 7 ॥
पुरंदरस तु ताम आह मा भैर नास्ति भयं तव एवम उक्त्वा ततॊ ऽपश्यत केशिनं सथितम अग्रतः ॥ 8 ॥
किरीटिनं गदापाणिं धातुमन्तम इवाचलम हस्ते गृहीत्वा तां कन्याम अथैनं वासवॊ ऽबरवीत ॥ 9 ॥
अनार्यकर्मन कस्मात तवम इमां कन्यां जिहीर्षसि वर्जिणं मां विजानीहि विरमास्याः परबाधनात ॥ 10 ॥
[केषिन] विसृजस्व तवम एवैनां शक्रैषा परार्थिता मया कषमं ते जीवतॊ गन्तुं सवपुरं पाकशासन ॥ 11 ॥
[मार्क] एवम उक्त्वा गदां केशी चिक्षेपेन्द्र वधाय वै ताम आपतन्तीं चिच्छेद मध्ये वज्रेण वासवः ॥ 12 ॥
अथास्य शैलशिखरं केशी करुद्धॊ वयवासृजत तद आपतन्तं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः बिभेद राजन वज्रेण भुवि तन निपपात ह ॥ 13 ॥
पतता तु तदा केशी तेन शृङ्गेण ताडितः हित्वा कन्यां महाभागां पराद्रवद भृशपीडितः ॥ 14 ॥
अपयाते ऽसुरे तस्मिंस तां कन्यां वासवॊ ऽबरवीत कासि कस्यासि किं चेह कुरुषे तवं शुभानने ॥ 15 ॥
[कन्या] अहं परजापतेः कन्या देवसेनेति विश्रुता भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता ॥ 16 ॥
सहैवावां भगिन्यौ तु सखीभिः सह मानसम आगच्छावेह रत्यर्थम अनुज्ञाप्य परजापतिम ॥ 17 ॥
नित्यं चावां परार्थयते हर्तुं केशी महासुरः इच्छत्य एनं दैत्यसेना न तव अहं पाकशासन ॥ 18 ॥
सा हृता तेन भगवन मुक्ताहं तवद बलेन तु तवया देवेन्द्र निर्दिष्टं पतिम इच्छामि दुर्जयम ॥ 19 ॥
[इन्द्र] मम मातृस्वसेया तवं माता दाक्षायणी मम आख्यातं तव अहम इच्छामि सवयम आत्मबलं तवया ॥ 20 ॥
[कन्या] अबलाहं महाबाहॊ पतिस तु बलवान मम वरदानात पितुर भावी सुरासुरनमस्कृतः ॥ 21 ॥
[इन्द्र] कीदृशं वै बलं देवि पत्युस तव भविष्यति एतद इच्छाम्य अहं शरॊतुं तव वाक्यम अनिन्दिते ॥ 22 ॥
[कन्या] देवदानव यक्षाणां किंनरॊरगरक्षसाम जेता स दृष्टॊ दुष्टानां महावीर्यॊ महाबलः ॥ 23 ॥
यस तु सर्वाणि भूतानि तवया सह विजेष्यति स हि मे भविता भर्ता बरह्मण्यः कीर्तिवर्धनः ॥ 24 ॥
[मार्क] इन्द्रस तस्या वचॊ शरुत्वा दुःखितॊ ऽचिन्तयद भृशम अस्या देव्याः पतिर नास्ति यादृशं संप्रभाषते ॥ 25 ॥
अथापश्यत स उदये भास्करं भास्करद्युतिः सॊमं चैव महाभागं विशमानं दिवाकरम ॥ 26 ॥
अमावास्यां संप्रवृत्तं मुहूर्तं रौद्रम एव च देवासुरं च संग्रामं सॊ ऽपश्यद उदये गिरौ ॥ 27 ॥
लॊहितैश च घनैर युक्तां पूर्वां संध्यां शतक्रतुः अपश्यल लॊहितॊदं च भगवान वरुणालयम ॥ 28 ॥
भृगुभिश चाङ्गिरॊभिश च हुतं मन्त्रैः पृथग्विधैः हव्यं गृहीत्वा वह्निं च परविशन्तं दिवाकरम ॥ 29 ॥
पर्व चैव चतुर्विंशं तदा सूर्यम उपस्थितम तथा धर्मगतं रौद्रं सॊमं सूर्यगतं च तम ॥ 30 ॥
समालॊक्यैकताम एव शशिनॊ भास्करस्य च समवायं तु तं रौद्रं दृष्ट्वा शक्रॊ वयचिन्तयत ॥ 31 ॥
एष रौद्रश च संघातॊ महान युक्तश च तेजसा सॊमस्य वह्नि सूर्याभ्याम अद्भुतॊ ऽयं समागमः जनयेद यं सुतं सॊमः सॊ ऽसया देव्याः पतिर भवेत ॥ 32 ॥
अग्निश्च चैतैर गुणैर युक्तः सर्वैर अग्निश च देवता एष चेज जनयेद गर्भं सॊ ऽसया देव्याः पतिर भवेत ॥ 33 ॥
एवं संचिन्त्य भगवान बरह्मलॊकं तदा गतः गृहीत्वा देवसेनां ताम अवन्दत स पितामहम उवाच चास्या देव्यास तवं साधु शूरं पतिं दिश ॥ 34 ॥
[बरह्मा] यथैतच चिन्तितं कार्यं तवया दानव सूदन तथा स भविता गर्भॊ बलवान उरुविक्रमः ॥ 35 ॥
स भविष्यति सेनानीस तवया सह शतक्रतॊ अस्या देव्याः पतिश चैव स भविष्यति वीर्यवान ॥ 36 ॥
[मार्क] एतच छरुत्वा नमस तस्मै कृत्वासौ सह कन्यया तत्राभ्यगच्छद देवेन्द्रॊ यत्र देवर्षयॊ ऽभवन वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः ॥ 37 ॥
भागार्थं तपसॊपात्तं तेषां सॊमं तथाध्वरे पिपासवॊ ययुर देवाः शतक्रतु पुरॊगमाः ॥ 38 ॥
इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने जुहुवुस ते महात्मानॊ हव्यं सर्वदिवौकसाम ॥ 39 ॥
समाहूतॊ हुतवहः सॊ ऽदभुतः सूर्यमण्डलात विनिःसृत्याययौ वह्निर वाग्यतॊ विधिवत परभुः आगम्याहवनीयं वै तैर दविजैर मन्त्रतॊ हुतम ॥ 40 ॥
स तत्र विविधं हव्यं परतिगृह्य हुताशनः ऋषिभ्यॊ भरतश्रेष्ठ परायच्छत दिवौकसाम ॥ 41 ॥
निष्क्रामंश चाप्य अपश्यत स पत्नीस तेषां महात्मनाम सवेष्व आश्रमेषूपविष्टाः सनायन्तीश च यथासुखम ॥ 42 ॥
रुक्मवेदिनिभास तास तु चन्द्रलेखा इवामलाः हुताशनार्चि परतिमाः सर्वास तारा इवाद्भुताः ॥ 43 ॥
स तद्गतेन मनसा बभूव कषुभितेन्द्रियः पत्नीर दृष्ट्वा दविजेन्द्राणां वह्निः कामवशं ययौ ॥ 44 ॥
स भूयॊ चिन्तयाम आस न नयाय्यं कषुभितॊ ऽसमि यत साध्वीः पत्नीर दविजेन्द्राणाम अकामाः कामयाम्य अहम ॥ 45 ॥
नैताः शक्या मया दरष्टुं सप्रष्टुं वाप्य अनिमित्ततः गार्हपत्यं समाविश्य तस्मात पश्याम्य अभीक्ष्णशः ॥ 46 ॥
संस्पृशन्न इव सर्वास ताः शिखाभिः काञ्चनप्रभाः पश्यमानश च मुमुदे गार्हपत्यं समाश्रितः ॥ 47 ॥
निरुष्य तत्र सुचिरम एवं वह्निर वशंगतः मनस तासु विनिक्षिप्य कामयानॊ वराङ्गनाः ॥ 48 ॥
कामसंतप्त हृदयॊ देहत्यागे सुनिश्चितः अलाभे बराह्मण सत्रीणाम अग्निर वनम उपागतः ॥ 49 ॥
सवाहा तं दक्षदुहिता परथमं कामयत तदा सा तस्य छिद्रम अन्वैच्छच चिरात परभृति भामिनी अप्रमत्तस्य दैवस्य न चापश्यद अनिन्दिता ॥ 50 ॥
सा तं जञात्वा यथावत तु वह्निं वनम उपागतम तत्त्वतः कामसंतप्तं चिन्तयाम आस भामिनी ॥ 51 ॥
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम कामयिष्यामि कामार्तं तासां रूपेण मॊहितम एवं कृते परीतिर अस्य कामावाप्तिश च मे भवेत ॥ 52 ॥
वनपर्व · Vana Parva
अध्याय 213
Reach this point to mark the section finished.
Continue to अध्याय 214