[मार्क] आपस्य मुदिता भार्या सहस्य परमा परिया भूपतिर भुव भर्ता च जनयत पावकं परम ॥ 1 ॥
भूतानां चापि सर्वेषां यं पराहुः पावकं पतिम आत्मा भुवन भर्तेति सान्वयेषु दविजातिषु ॥ 2 ॥
महतां चैव भूतानां सर्वेषाम इह यः पतिः भगवान स महातेजा नित्यं चरति पावकः ॥ 3 ॥
अग्निर गृहपतिर नाम नित्यं यज्ञेषु पूज्यते हुतं वहति यॊ हव्यम अस्य लॊकस्य पावकः ॥ 4 ॥
अपां गर्भॊ महाभागः सहपुत्रॊ महाद्भुतः भूपतिर भुव भर्ता च महतः पतिर उच्यते ॥ 5 ॥
दहन मृतानि भूतानि तस्याग्निर भरतॊ ऽभवत अग्निष्टॊमे च नियतः करतुश्रेष्ठॊ भरस्य तु ॥ 6 ॥
आयान्तं नियतं दृष्ट्वा परविवेशार्णवं भयात देवास तं नाधिगच्छन्ति मार्गमाणा यथा दिशम ॥ 7 ॥
दृष्ट्वा तव अग्निर अथर्वाणं ततॊ वचनम अब्रवीत देवानां वह हव्यं तवम अहं वीर सुदुर्बलः अथर्वन गच्छ मध्व अक्षं परियम एतत कुरुष्व मे ॥ 8 ॥
परेष्यचाग्निर अथर्वाणम अन्यं देशं ततॊ ऽगमत मत्स्यास तस्य समाचख्युः करुद्धस तान अग्निर अब्रवीत ॥ 9 ॥
भक्ष्या वै विविधैर भावैर भविष्यथ शरीरिणाम अथर्वाणं तथा चापि हव्यवाहॊ ऽबरवीद वचः ॥ 10 ॥
अनुनीयमानॊ ऽपि भृशं देववाक्याद धि तेन सः नैच्छद वॊढुं हविः सर्वं शरीरं च समत्यजत ॥ 11 ॥
स तच छरीरं संत्यज्य परविवेश धरां तदा भूमिं सपृष्ट्वासृजद धातून पृथक्पृथग अतीव हि ॥ 12 ॥
आस्यात सुगन्धि तेजश च अस्थिभ्यॊ देवदारु च शलेष्मणः सफटिकं तस्य पित्तान मरकतं तथा ॥ 13 ॥
यकृत कृष्णायसं तस्य तरिभिर एव बभुः परजाः नखास तस्याभ्र पटलं शिरा जालानि विद्रुमम शरीराद विविधाश चान्ये धातवॊ ऽसयाभवन नृप ॥ 14 ॥
एवं तयक्त्वा शरीरं तु परमे तपसि सथितः भृग्वङ्गिरादिभिर भूयस तपसॊत्थापितस तदा ॥ 15 ॥
भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी दृष्ट्वा ऋषीन भयाच चापि परविवेश महार्णवम ॥ 16 ॥
तस्मिन नष्टे जगद भीतम अथर्वाणम अथाश्रितम अर्चयाम आसुर एवैनम अथर्वाणं सुरर्षयः ॥ 17 ॥
अथर्वा तव असृजल लॊकान आत्मनालॊक्य पावकम मिषतां सर्वभूतानाम उन्ममाथ महार्णवम ॥ 18 ॥
एवम अग्निर भगवता नष्टः पूर्वम अथर्वणा आहूतः सर्वभूतानां हव्यं वहति सर्वदा ॥ 19 ॥
एवं तव अजनयद धिष्ण्यान वेदॊक्तान विबुधान बहून विचरन विविधान देशान भरममाणस तु तत्र वै ॥ 20 ॥
सिन्धुवर्जं पञ्च नद्यॊ देविकाथ सरस्वती गङ्गा च शतकुम्भा च शरयूर गण्डसाह्वया ॥ 21 ॥
चर्मण्वती मही चैव मेध्या मेधातिथिस तथा ताम्रावती वेत्रवती नद्यस तिस्रॊ ऽथ कौशिकी ॥ 22 ॥
तमसा नर्मदा चैव नदी गॊदावरी तथा वेण्णा परवेणी भीमा च मेद्रथा चैव भारत ॥ 23 ॥
भारती सुप्रयॊगा च कावेरी मुर्मुरा तथा कृष्णा च कृष्णवेण्णा च कपिला शॊण एव च एता नद्यस तु धिष्ण्यानां मातरॊ याः परकीर्तिताः ॥ 24 ॥
अद्भुतस्य परिया भार्या तस्याः पुत्रॊ विडूरथः यावन्तः पावकाः परॊक्ताः सॊमास तावन्त एव च ॥ 25 ॥
अत्रेश चाप्य अन्वये जाता बरह्मणॊ मानसाः परजाः अत्रिः पुत्रान सरष्टुकामस तान एवात्मन्य अधारयत तस्य तद बरह्मणः कायान निर्हरन्ति हुताशनाः ॥ 26 ॥
एवम एते महात्मानः कीर्तितास ते ऽगनयॊ मया अप्रमेया यथॊत्पन्नाः शरीमन्तस तिमिरापहाः ॥ 27 ॥
अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम तादृशं विद्धि सर्वेषाम एकॊ हय एष हुताशनः ॥ 28 ॥
एक एवैष भगवान विज्ञेयः परथमॊ ऽङगिराः बहुधानिःसृतः कायाज जयॊतिष्टॊमः करतुर यथा ॥ 29 ॥
इत्य एष वंशः सुमहान अग्नीनां कीर्तितॊ मया पावितॊ विविधैर मन्त्रैर हव्यं वहति देहिनाम ॥ 30 ॥
वनपर्व · Vana Parva
अध्याय 212
Reach this point to mark the section finished.
Continue to अध्याय 213