धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 211

  1. [मार्क] गुरुभिर नियमैर युक्तॊ भरतॊ नाम पावकः अग्निः पुष्टिमतिर नाम तुष्टः पुष्टिं परयच्छति भरत्य एष परजाः सर्वास ततॊ भरत उच्यते ॥ 1 ॥

  2. अग्निर यस तु शिवॊ नाम शक्तिपूजा परश च सः दुःखार्तानां स सर्वेषां शिव कृत सततं शिवः ॥ 2 ॥

  3. तपसस तु फलं दृष्ट्वा संप्रवृद्धं तपॊ महत उद्धर्तु कामॊ मतिमान पुत्रॊ जज्ञे पुरंदरः ॥ 3 ॥

  4. ऊष्मा चैवॊष्मणॊ जज्ञे सॊ ऽगनिर भूतेषु लक्ष्यते अग्निश चापि मनुर नाम पराजापत्यम अकारयत ॥ 4 ॥

  5. शम्भुम अग्निम अथ पराहुर बराह्मणा वेदपारगाः आवसथ्यं दविजाः पराहुर दीप्तम अग्निं महाप्रभम ॥ 5 ॥

  6. ऊर्जः करान हव्यवाहान सुवर्णसदृशप्रभान अग्निस तपॊ हय अजनयत पञ्च यज्ञसुतान इह ॥ 6 ॥

  7. परशान्ते ऽगनिर महाभाग परिश्रन्तॊ गवां पतिः असुराञ जनयन घॊरान मर्त्यांश चैव पृथग्विधान ॥ 7 ॥

  8. तपसश च मनुं पुत्रं भानुं चाप्य अङ्गिरासृजत बृहद्भानुं तु तं पराहुर बराह्मणा वेदपारगाः ॥ 8 ॥

  9. भानॊर भार्या सुप्रजा तु बृहद्भासा तु सॊमजा असृजेतां तु षट पुत्राञ शृणु तासां परजा विधम ॥ 9 ॥

  10. दुर्बलानां तु भूतानां तनुं यः संप्रयच्छति तम अग्निं बलदं पराहौः परथमं भानुतः सुतम ॥ 10 ॥

  11. यः परशान्तेषु भूतेषु मन्युर भवति दारुणः अग्निः स मन्युमान नाम दवितीयॊ भानुतः सुतः ॥ 11 ॥

  12. दर्शे च पौर्णमासे च यस्येह हविर उच्यते विष्णुर नामेह यॊ ऽगनिस तु धृतिमान नाम सॊ ऽङगिराः ॥ 12 ॥

  13. इन्द्रेण सहितं यस्य हविर आग्रयणं समृतम अग्निर आग्रयणॊ नाम भानॊर एवान्वयस तु सः ॥ 13 ॥

  14. चातुर्भास्येषु नित्यानां हविषां यॊ निरग्रहः चतुर्भिः सहितः पुत्रैर भानॊर एवान्वयस तु सः ॥ 14 ॥

  15. निशां तव अजनयत कन्याम अग्नीषॊमाव उभौ तथा मनॊर एवाभवद भार्या सुषुवे पञ्च पावकान ॥ 15 ॥

  16. पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः पर्जन्यसहितः शरीमान अग्निर वैश्वानरस तु सः ॥ 16 ॥

  17. अस्य लॊकस्य सर्वस्य यः पतिः परिपठ्यते सॊ ऽगनिर विश्वपतिर नाम दवितीयॊ वै मनॊः सुतः ततः सविष्टं भवेद आज्यं सविष्टकृत परमः समृतः ॥ 17 ॥

  18. कन्या सा रॊहिणी नाम हिरण्यकशिपॊः सुता कर्मणासौ बभौ भार्या स वह्निः स परजापतिः ॥ 18 ॥

  19. पराणम आश्रित्य यॊ देहं परवर्तयति देहिनाम तस्य संनिहितॊ नाम शब्दरूपस्य साधनः ॥ 19 ॥

  20. शुक्लकृष्ण गतिर देवॊ यॊ बिभर्ति हुताशनम अकल्मषः कल्मषाणां कर्ता करॊधाश्रितस तु सः ॥ 20 ॥

  21. कपिलं परमर्षिं च यं पराहुर यतयः सदा अग्निः स कपिलॊ नाम सांख्ययॊगप्रवर्तकः ॥ 21 ॥

  22. अग्निर यच्छति भूतानि येन भूतानि नित्यदा कर्मस्व इह विचित्रेषु सॊ ऽगरणीर वह्निर उच्यते ॥ 22 ॥

  23. इमान अन्यान समसृजत पावकान परथितान भुवि अग्निहॊत्रस्य दुष्टस्य परायच्श्चित्तार्थम अल्बणान ॥ 23 ॥

  24. संस्पृशेयुर यदान्यॊन्यं कथं चिद वायुनाग्नयः इष्टिर अष्टाकपालेन कार्या वै शुचये ऽगनये ॥ 24 ॥

  25. दक्षिणाग्निर यदा दवाभ्यां संसृजेत तदा किल इष्टिर अष्टाकपालेन कार्या वै वीतये ऽगनये ॥ 25 ॥

  26. यद्य अग्नयॊ हि सपृश्येयुर निवेशस्था दवाग्निना इष्टिर अष्टाकपालेन कार्या तु शुचये ऽगनये ॥ 26 ॥

  27. अग्निं रजस्वला चेत सत्री संस्पृशेद अग्निहॊत्रिकम इष्टिर अष्टाकपालेन कार्या दस्युमते ऽगनये ॥ 27 ॥

  28. मृतः शरूयेत यॊ जीवन परेयुः पशवॊ यथा इष्टिर अष्टाकपालेन कर्तव्याभिमते ऽगनये ॥ 28 ॥

  29. आर्तॊ न जुहुयाद अग्निं तरिरात्रं यस तु बराह्मणः इष्टिर अष्टाकपालेन कार्या सयाद उत्तराग्नये ॥ 29 ॥

  30. दर्शं च पौर्णमासं च यस्य तिष्ठेत परतिष्ठितम इष्टिर अष्टाकपालेन कार्या पथिकृते ऽगनये ॥ 30 ॥

  31. सूतिकाग्निर यदा चाग्निं संस्पृशेद अग्निहॊत्रिकम इष्टिर अष्टाकपालेन कार्या चाग्निमते ऽगनये ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 212

Previous: अध्याय 210