धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 20

  1. [वा] एवम उक्तस तु कौन्तेय सूतपुत्रस तदा मृधे परद्युम्नम अब्रवीच छलक्ष्णं मधुरं वाक्यम अञ्जसा ॥ 1 ॥

  2. न मे भयं रौक्मिणेय संग्रामे यच्छतॊ हयान युद्धज्ञश चास्मि वृष्णीनां नात्र किं चिद अतॊ ऽनयथा ॥ 2 ॥

  3. आयुष्मन्न उपदेशस तु सारथ्ये वर्ततां समृतः सर्वार्थेषु रथी रक्ष्यस तवं चापि भृशपीडितः ॥ 3 ॥

  4. तवं हि शाल्व परयुक्तेन पत्रिणाभिहतॊ भृशम कश्मलाभिहतॊ वीर ततॊ ऽहम अपयातवान ॥ 4 ॥

  5. स तवं सात्वत मुख्याद्य लब्धसंज्ञॊ यदृच्छया पश्य मे हयसाम्याने शिक्षां केशवनन्दन ॥ 5 ॥

  6. दारुकेणाहम उत्पन्नॊ यथावच चैव शिक्षितः वीतभीः परविशाम्य एतां शाल्वस्य महतीं चमूम ॥ 6 ॥

  7. एवम उक्त्वा ततॊ वीर हयान संचॊद्य संगरे रश्मिभिश च समुद्यम्य जवेनाभ्यपतत तदा ॥ 7 ॥

  8. मण्डलानि विचित्राणि यमकानीतराणि च सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ॥ 8 ॥

  9. परतॊदेनाहता राजन रश्मिभिश च समुद्यताः उत्पतन्त इवाकाशं विबभुस ते हयॊत्तमाः ॥ 9 ॥

  10. ते हस्तलाघवॊपेतं विज्ञाय नृप दारुकिम दह्यमाना इव तदा पस्पृशुश चरणैर महीम ॥ 10 ॥

  11. सॊ ऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ चकार नातियत्नेन तद अद्भुतम इवाभवत ॥ 11 ॥

  12. अमृष्यमाणॊ ऽपसव्यं परद्युम्नेन स सौभराट यन्तारम अस्य सहसा तरिभिर बाणैः समर्पयत ॥ 12 ॥

  13. दारुकस्य सुतस तं तु बाणवेगम अचिन्तयन भूय एव महाबाहॊ परययौ हयसंमतः ॥ 13 ॥

  14. ततॊ बाणान बहुविधान पुनर एव स सौभराट मुमॊच तनये वीरे मम रुक्मिणिनन्दने ॥ 14 ॥

  15. तान अप्राप्ताञ शितैर बाणैश चिच्छेद परवीरहा रौक्मिणेयः समितं कृत्वा दर्शयन हस्तलाघवम ॥ 15 ॥

  16. छिन्नान दृष्ट्वा तु तान बाणान परद्युम्नेन स सौभराट आसुरीं दारुणीं मायाम आस्थाय वयसृजच छरान ॥ 16 ॥

  17. परयुज्यमानम आज्ञाय दैतेयास्त्रं महाबलः बरह्मास्त्रेणान्तरा छित्त्वा मुमॊचान्यान पतत्रिणः ॥ 17 ॥

  18. ते तद अस्त्रं विधूयाशु विव्यधू रुधिराशनाः शिरस्य उरसि वक्त्रेच स मुमॊह पपात च ॥ 18 ॥

  19. तस्मिन निपतिते कषुद्रे शाल्वे बाणप्रपीडिते रौक्मिणेयॊ ऽपरं बाणं संदधे शत्रुनाशनम ॥ 19 ॥

  20. तम अर्चितं सर्वदाशार्ह पूगैर; आशीर्भिर अर्कज्वलन परकाशम दृष्ट्वा शरं जयाम अभिनीयमानं; बभूव हाहाकृतम अन्तरिक्षम ॥ 20 ॥

  21. ततॊ देवगणाः सर्वे सेन्द्राः सह धनेश्वराः नारदं परेषयाम आसुः शवसनं च महाबलम ॥ 21 ॥

  22. तौ रौक्मिणेयम आगम्य वचॊ ऽबरूतां दिवौकसाम नैष वध्यस तवया वीर शाल्वराजः कथं चन ॥ 22 ॥

  23. संहरस्व पुनर बाणम अवध्यॊ ऽयं तवया रणे एतस्य हि शरस्याजौ नावध्यॊ ऽसति पुमान कव चित ॥ 23 ॥

  24. मृत्युर अस्य महाबाहॊ रणे देवकिनन्दनः कृष्णः संकल्पितॊ धात्रा तन न मिथ्या भवेद इति ॥ 24 ॥

  25. ततः परमसंहृष्टः परद्युम्नः शरम उत्तरम संजहार धनुःश्रेष्ठात तूर्णे चैव नयवेशयत ॥ 25 ॥

  26. तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः वयपायात सबलस तूर्णं परद्युम्न शरपीडितः ॥ 26 ॥

  27. स दवारकां परित्यज्य करूरॊ वृणिभिर अर्दितः सौभम आस्थाय राजेन्द्र दिवम आचक्रमे तदा ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 21

Previous: अध्याय 19