धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 207

  1. [वै] शरुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम पुनः पप्रच्छ तम ऋषिं मार्कण्डेयं तपस्विनम ॥ 1 ॥

  2. [य] कथम अग्निर वनं यातः कथं चाप्य अङ्गिराः पुरा नष्टे ऽगनौ हव्यम अवहद अग्निर भूत्वा महान ऋषिः ॥ 2 ॥

  3. अग्निर यदा तव एक एव बहुत्वं चास्य कर्मसु दृश्यते भगवन सर्वम एतद इच्छामि वेदितुम ॥ 3 ॥

  4. कुमारश च यथॊत्पन्नॊ यथा चाग्नेः सुतॊ ऽभवत यथा रुद्राच च संभूतॊ गङ्गायां कृत्तिकासु च ॥ 4 ॥

  5. एतद इच्छाम्य अहं तवत्तः शरॊतुं भार्गवनन्दन कौतूहलसमाविष्टॊ यथातथ्यं महामुने ॥ 5 ॥

  6. [मार्क] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम यथा करुद्धॊ हुतवहस तपस तप्तुं वनं गतः ॥ 6 ॥

  7. यथा च भगवान अग्निः सवयम एवाङ्गिराभवत संतापयन सवप्रभया नाशयंस तिमिराणि च ॥ 7 ॥

  8. आश्रमस्थॊ महाभागॊ हव्यवाहं विशेषयन तथा स भूत्वा तु तदा जगत सर्वं परकाशयन ॥ 8 ॥

  9. तपॊ चरंश च हुतभुक संतप्तस तस्य तेजसा भृशं गलानश च तेजस्वी न स किं चित परजज्ञिवान ॥ 9 ॥

  10. अथ संचिन्तयाम आस भगवान हव्यवाहनः अन्यॊ ऽगनिर इह लॊकानां बरह्मणा संप्रवर्तितः अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः ॥ 10 ॥

  11. कथम अग्निः पुनर अहं भवेयम इति चिन्त्य सः अपश्यद अग्निवल लॊकांस तापयन्तं महामुनिम ॥ 11 ॥

  12. सॊपासर्पच छनैर भीतस तम उवाच तदाङ्गिराः शीघ्रम एव भवस्वाग्निस तवं पुनर लॊकभावनः विज्ञातश चासि लॊकेषु तरिषु संस्थान चारिषु ॥ 12 ॥

  13. तवम अग्ने परथमः सृष्टॊ बरह्मणा तिमिरापहः सवस्थानं परतिपद्यस्व शीघ्रम एव तमॊनुद ॥ 13 ॥

  14. [अग्नि] नष्टकीर्तिर अहं लॊके भवाञ जातॊ हुताशनः भवन्तम एव जञास्यन्ति पावकं न तु मां जनाः ॥ 14 ॥

  15. निक्षिपाम्य अहम अग्नित्वं तवम अग्निः परथमॊ भव भविष्यामि दवितीयॊ ऽहं पराजापत्यक एव च ॥ 15 ॥

  16. [अन्गिरस] कुरु पुण्यं परकास्व अर्ग्यं भवाग्निस तिमिरापहः मां च देवकुरुष्वाग्ने परथमं पुत्रम अञ्जसा ॥ 16 ॥

  17. [मार्क] तच छरुत्वाङ्गिरसॊ वाक्यं जातवेदास तथाकरॊत राजन बृहस्पतिर नाम तस्याप्य अङ्गिरसः सुतः ॥ 17 ॥

  18. जञात्वा परथमजं तं तु वह्नेर आङ्गिरसं सुतम उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ॥ 18 ॥

  19. स तु पृष्टस तदा देवैस ततः कारणम अब्रवीत परत्यगृह्णंस तु देवाश च तद वचॊ ऽङगिरसस तदा ॥ 19 ॥

  20. तत्र नानाविधान अग्नीन परवक्ष्यामि महाप्रभान कर्मभिर बहुभिः खयातान नानात्वं बराह्मणेष्व इह ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 208

Previous: अध्याय 206