धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 208

  1. [मार्क] बरह्मणॊ यस तृतीयस तु पुत्रः कुरुकुलॊद्वह तस्यापव सुता भार्या परजास तस्यापि मे शृणु ॥ 1 ॥

  2. बृहज्ज्यॊतिर बृहत्कीर्तिर बृहद्ब्रह्मा बृहन्मनाः बृहन्मन्त्रॊ बृहद्भासस तथा राजन बृहस्पतिः ॥ 2 ॥

  3. परजासु तासु सर्वासु रूपेणाप्रतिमाभवत देवी भानुमती नाम परथमाङ्गिरसः सुता ॥ 3 ॥

  4. भूतानाम एव सर्वेषां यस्यां रागस तदाभवत रागाद रागेति याम आहुर दवितीयाङ्गिरसः सुता ॥ 4 ॥

  5. यां कपर्दि सुताम आहुर दृश्यादृश्येति देहिनः तनुत्वात सा सिनीवाली तृतीयाङ्गिरसः सुता ॥ 5 ॥

  6. पश्यत्य अर्चिष्मती भाभिर हविर भिश च हविष्मती षष्ठम अङ्गिरसः कन्यां पुण्याम आहुर हविष्मतीम ॥ 6 ॥

  7. महामखेष्व आङ्गिरषी दीप्तिमत्सु महामती महामतीति विख्याता सप्तमी कथ्यते सुता ॥ 7 ॥

  8. यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते एकानंशेति याम आहुः कुहूम अङ्ग्निरसः सुताम ॥ 8 ॥

Reach this point to mark the section finished.

Continue to अध्याय 209

Previous: अध्याय 207