धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 205

  1. [मार्क] गुरू निवेद्य विप्राय तौ मातापितराव उभौ पुनर एव स धर्मात्मा वयाधॊ बराह्मणम अब्रवीत ॥ 1 ॥

  2. परवृत्त चक्षुर जातॊ ऽसमि संपश्य तपसॊ बलम यदर्थम उक्तॊ ऽसि तया गच्छस्व मिथिलाम इति ॥ 2 ॥

  3. पतिशुश्रूष परया दान्तया सत्यशीलया मिथिलायां वसन वयाधः स ते धर्मान परवक्ष्यति ॥ 3 ॥

  4. [बरा] पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत संस्मृत्य वाक्यं धर्मज्ञ गुणवान असि मे मतः ॥ 4 ॥

  5. [वयध] यत तदा तवं दविजश्रेष्ठ तयॊक्तॊ मां परति परभॊ दृष्टम एतत तया सम्यग एकपत्न्या न संशयः ॥ 5 ॥

  6. तवद अनुग्रह बुद्ध्या तु विप्रैतद दर्शितं मया वाक्यं च शृणु मे तात यत ते वक्ष्ये हितं दविज ॥ 6 ॥

  7. तवया विनिकृता माता पिता च दविजसत्तम अनिसृष्टॊ ऽसि निष्क्रान्तॊ गृहात ताभ्याम अनिन्दित वेदॊच्चारण कार्यार्थम अयुक्तं तत तवया कृतम ॥ 7 ॥

  8. तव शॊकेन वृद्धौ ताव अन्धौ जातौ तपस्विनौ तौ परसादयितुं गच्छ मा तवा धर्मॊ ऽतयगान महान ॥ 8 ॥

  9. तपस्वी तवं महात्मा च धर्मे च निरतः सदा सर्वम एतद अपार्थं ते कषिप्रं तौ संप्रसादय ॥ 9 ॥

  10. शरद्दधस्य मम बरह्मन नान्यथा कर्तुम अर्हसि गम्यताम अद्य विप्रर्षे शरेयस ते कथयाम्य अहम ॥ 10 ॥

  11. [बरा] यद एतद उक्तं भवता सर्वं सत्यम असंशयम परीतॊ ऽसमि तव धर्मज्ञ साध्व आचार गुणान्वित ॥ 11 ॥

  12. [वयध] दैवतप्रतिमॊ हि तवं यस तवं धर्मम अनुव्रतः पुराणं शाश्वतं दिव्यं दुष्प्रापम अकृतात्मभिः ॥ 12 ॥

  13. अतन्द्रितः कुरु कषिप्रं मातापित्रॊर हि पूजनम अतः परम अहं धर्मं नान्यं पश्यामि कं चन ॥ 13 ॥

  14. [बरा] इहाहम आगतॊ दिष्ट्या दिष्ट्या मे संगतं तवया ईदृशा दुर्लभा लॊके नरा धर्मप्रदर्शकाः ॥ 14 ॥

  15. एकॊ नरसहस्रेषु धर्मविद विद्यते न वा परीतॊ ऽसमि तव सत्येन भद्रं ते पुरुषॊत्तम ॥ 15 ॥

  16. पतमानॊ हि नरके भवतास्मि समुद्धृतः भवितव्यम अथैवं च यद दृष्टॊ ऽसि मयानघ ॥ 16 ॥

  17. राजा ययातिर दौहित्रैः पतितस तारितॊ यथा सद्भिः पुरुषशार्दूल तथाहं भवता तव इह ॥ 17 ॥

  18. माता पितृभ्यां शुश्रूषां करिष्ये वचनात तव नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम ॥ 18 ॥

  19. दुर्ज्ञेयः शाश्वतॊ धर्मः शूद्रयॊनौ हि वर्तता न तवां शूद्रम अहं मन्ये भवितव्यं हि कारणम येन कर्म विपाकेन परातेयं शूद्रता तवया ॥ 19 ॥

  20. एतद इच्छामि विज्ञातुं तत्त्वेन हि महामते कामया बरूहि मे तथ्यं सर्वं तवं परयतात्मवान ॥ 20 ॥

  21. [वयध] अनतिक्रमणीया हि बराह्मणा वै दविजॊत्तम शृणु सर्वम इदं वृत्तं पूर्वदेहे ममानघ ॥ 21 ॥

  22. अहं हि बराह्मणः पूर्वम आसं दविज वरात्मज वेदाध्यायी सुकुशलॊ वेदाङ्गानां चपारगः आत्मदॊषकृतैर बरह्मन्न अवस्था पराप्तवान इमाम ॥ 22 ॥

  23. कश चिद राजा मम सखा धनुर्वेदपरायणः संसर्गाद धनुषि शरेष्ठस ततॊ ऽहम अभवं दविज ॥ 23 ॥

  24. एतस्मिन्न एव काले तु मृगयां निर्गतॊ नृपः सहितॊ यॊधमुख्यैश च मन्त्रिभिश च सुसंवृतः ततॊ ऽभयहन मृगांस तत्र सुबहून आश्रमं परति ॥ 24 ॥

  25. अथ कषिप्तः शरॊ घॊरॊ मयापि दविजसत्तम ताडितश च मुनिस तेन शरेणानतपर्वणा ॥ 25 ॥

  26. भूमौ निपतितॊ बरह्मन्न उवाच परतिनादयन नापराध्याम्य अहं किं चित केन पापम इदं कृतम ॥ 26 ॥

  27. मन्वानस तं मृगं चाहं संप्राप्तः सहसा मुनिम अपश्यं तम ऋषिं विद्धं शरेणानतपर्वणा तम उग्रतपसं विप्रं निष्टनन्तं महीतले ॥ 27 ॥

  28. अकार्य करणाच चापि भृशं मे वयथितं मनः अजानता कृतम इदं मयेत्य अथ तम अब्रुवम कषन्तुम अर्हसि मे बरह्मन्न इति चॊक्तॊ मया मुनिः ॥ 28 ॥

  29. ततः परत्यब्रवीद वाक्यम ऋशिर मां करॊधमूर्च्छितः वयाधस तवं भविता करूर शूद्रयॊनाव इति दविज ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 206

Previous: अध्याय 204