धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 204

  1. [मार्क] एवं संकथिते कृत्स्ने मॊक्षधर्मे युधिष्ठिर दृढं परीतिमना विप्रॊ धर्मव्याधम उवाच ह ॥ 1 ॥

  2. नयाययुक्तम इदं सर्वं भवता परिकीर्तितम न ते ऽसत्य अविदितं किं चिद धर्मेष्व इह हि दृश्यते ॥ 2 ॥

  3. [वयध] परत्यक्षं मम यॊ धर्मस तं पश्य दविजसत्तम येन सिद्धिर इयं पराप्ता मया बराह्मणपुंगव ॥ 3 ॥

  4. उत्तिष्ठ भगवन कषिप्रं परविश्याभ्यन्तरं गृहम दरष्टुम अर्हसि धर्मज्ञ मातरं पितरं च मे ॥ 4 ॥

  5. [मार्क] इत्य उक्तः स परविश्याथ ददर्श परमार्चितम सौधं हृद्यं चतुर्शालम अतीव च मनॊहरम ॥ 5 ॥

  6. देवता गृहसंकाशं दैवतैश च सुपूजितम शयनासनसंबाधं गन्धैश च परमैर युतम ॥ 6 ॥

  7. तत्र शुक्लाम्बर धरौ पितराव अस्य पूजितौ कृताहारौ सुतुष्टौ ताव उपविष्टौ वरासने धर्मव्याधस तुतौ दृष्ट्वा पादेषु शिरसापतत ॥ 7 ॥

  8. [वृद्धौ] उत्तिष्ठॊत्तिष्ठ धर्मज्ञ धर्मस तवाम अभिरक्षतु परीतौ सवस तव शौचेन दीर्घम आयुर अवाप्नुहि सत पुत्रेण तवया पुत्र नित्यकालं सुपूजितौ ॥ 8 ॥

  9. न ते ऽनयद दैवतं किं चिद दैवतेष्व अपि वर्तते परयतत्वाद दविजातीनां दमेनासि समन्वितः ॥ 9 ॥

  10. पितुः पितामहा ये च तथैव परपितामहाः परीतास ते सततं पुत्र दमेनावां च पूजया ॥ 10 ॥

  11. मनसा कर्मणा वाचा शुश्रूषा नैव हीयते न चान्या वितथा बुद्धिर दृश्यते सांप्रतं तव ॥ 11 ॥

  12. जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ तथा तवया कृतं सर्वं तद विशिष्टं च पुत्रक ॥ 12 ॥

  13. [मार्क] ततस तं बराह्मणं ताभ्यां धर्मव्याधॊ नयवेदयत तौ सवागतेन तं विप्रम अर्चयाम आसतुस तदा ॥ 13 ॥

  14. परतिगृह्य च तां पूजां दविजः पप्रच्छ ताव उभौ सपुत्राभ्यां सभृत्याभ्यां कच चिद वां कुशलं गृहे अनामयं च वां कच चित सदैवेह शरीरयॊः ॥ 14 ॥

  15. [वृद्धौ] कुशलं नॊ गृहे विप्र भृत्यवर्गे च सर्वशः कच चित तवम अप्य अविघ्नेन संप्राप्तॊ भगवन्न इह ॥ 15 ॥

  16. [मार्क] बाढम इत्य एव तौ विप्रः परत्युवाच मुदान्वितः धर्मव्याधस तु तं विप्रम अर्थवद वाक्यम अब्रवीत ॥ 16 ॥

  17. पिता माता च भगवन्न एतौ मे दैवतं परम यद दैवतेभ्यः कर्तव्यं तद एताभ्यां करॊम्य अहम ॥ 17 ॥

  18. तरयस्त्रिंशद यथा देवाः सर्वे शक्रपुरॊगमाः संपूज्याः सर्वलॊकस्य तथा वृत्ताव इमौ मम ॥ 18 ॥

  19. उपहारान आहरन्तॊ देवतानां यथा दविजाः कुर्वते तद्वद एताभ्यां करॊम्य अहम अतन्द्रितः ॥ 19 ॥

  20. एतौ मे परमं बरह्मन पिता माता च दैवतम एतौ पुष्पैः फलै रत्नैस तॊषयामि सदा दविज ॥ 20 ॥

  21. एताव एवाग्नयॊ मह्यं यान वदन्ति मनीषिणः यज्ञा वेदाश च चत्वारः सर्वम एतौ मम दविज ॥ 21 ॥

  22. एतदर्थं मम पराणा भार्या पुत्राः सुहृज्जनाः सपुत्रदारः शुश्रूषां नित्यम एव करॊम्य अहम ॥ 22 ॥

  23. सवयं च सनापयाम्य एतौ तथा पादौ परधावये आहारं संप्रयच्छामि सवयं च दविजसत्तम ॥ 23 ॥

  24. अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन अधर्मेणापि संयुक्तं परियम आभ्यां करॊम्य अहम ॥ 24 ॥

  25. धर्मम एव गुरुं जञात्वा करॊमि दविजसत्तम अतन्द्रितः सदा विप्र शुश्रूषां वै करॊम्य अहम ॥ 25 ॥

  26. पञ्चैव गुरवॊ बरह्मन पुरुषस्य बभूषतः पिता माताग्निर आत्मा च गुरुश च दविजसत्तम ॥ 26 ॥

  27. एतेषु यस तु वर्तेत सम्यग एव दविजॊत्तम भवेयुर अग्नयस तस्य परिचीर्णास तुनित्यशः गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 205

Previous: अध्याय 203