[मार्क] एवं तु सूक्ष्मे कथिते धर्मव्याजेन भारत बराह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः ॥ 1 ॥
[बरा] सत्त्वस्य रजसश चैव तमसश च यथातथम गुणांस तत्त्वेन मे बरूहि यथावद इह पृच्छतः ॥ 2 ॥
[वयध] हन्त ते कथयिष्यामि यन मां तवं परिपृच्छसि एषां गुणान पृथक्त्वेन निबॊध गदतॊ मम ॥ 3 ॥
मॊहात्मकं तमस तेषां रज एषां परवर्तकम परकाशबहुलत्वाच च सत्त्वं जयाय इहॊच्यते ॥ 4 ॥
अविद्या बहुलॊ मूढः सवप्नशीलॊ विचेतनः दुर्दृशीकस तमॊ धवस्तः सक्रॊधस तामसॊ ऽलसः ॥ 5 ॥
परवृत्त वाक्यॊ मन्त्री च यॊ ऽनुराग्य अभ्यसूयकः विवित्समानॊ विप्रर्षे सतब्धॊ मानी स राजसः ॥ 6 ॥
परकाशबहुलॊ धीरॊ निर्विवित्सॊ ऽनसूयकः अक्रॊधनॊ नरॊ धीमान दान्तश चैव स सात्त्विकः ॥ 7 ॥
सात्त्विकस तव अथ संबुद्धॊ लॊकवृत्तेन कलिश्यते यदा बुध्यति बॊद्धव्यं लॊकवृत्तं जुगुप्सते ॥ 8 ॥
वैराग्यस्य हि रूपं तु पुर्वम एव परवर्तते मृदुर भवत्य अहंकारः परसीदत्य आर्जवं च यत ॥ 9 ॥
ततॊ ऽसय सर्वद्वन्द्वानि परशाम्यन्ति परस्परम न चास्य संयमॊ नाम कव चिद भवति कश चन ॥ 10 ॥
शूद्रयॊनौ हि जातस्य सवगुणान उपतिष्ठतः वैश्यत्वं भवति बरह्मन कषत्रियत्वं तथैव च ॥ 11 ॥
आज्रवे वर्तमानस्य बराह्मण्यम अभिजायते गुणास ते कीर्तिताः सर्वे किं भूयॊ शरॊतुम इच्छसि ॥ 12 ॥
[बरा] पार्थिवं धातुम आसाद्य शारीरॊ ऽगनिः कथं भवेत अवकाश विशेषेण कथं वर्तयते ऽनिलः ॥ 13 ॥
[मार्क] परश्नम एतं समुद्दिष्टं बराह्मणेन युधिष्ठिर वयाधः स कथयाम आस बराह्मणाय महात्मने ॥ 14 ॥
[वयध] मूर्धानम आश्रितॊ वह्निः शरीरं परिपालयन पराणॊ मूर्धनि चाग्नौ च वर्तमानॊ विचेष्टते भूतं भव्यं भविष्यच च सर्वं पराणे परतिष्ठितम ॥ 15 ॥
शरेष्ठं तद एव भूतानां बरह्म जयॊतिर उपास्महे सजन्तुः सर्वभूतात्मा पुरुषः स सनातनः मनॊ बुद्धिर अहंकारॊ भूतानां विषयश च सः ॥ 16 ॥
एवं तव इह स सर्वत्र पराणेन परिपाल्यते पृष्ठतस तु समानेन सवां सवां गतिम उपाश्रितः ॥ 17 ॥
बस्ति मूले गुदे चैव पावकः समुपाश्रितः वहन मूत्रं पुरीषं चाप्य अपानः परिवर्तते ॥ 18 ॥
परयत्ने कर्मणि बले य एकस तरिषु वर्तते उदान इति तं पराहुर अध्यात्मविदुषॊ जनाः ॥ 19 ॥
संधौ संधौ संनिविष्टः सर्वेष्व अपि तथानिलः शरीरेषु मनुष्याणां वयान इत्य उपदिष्यते ॥ 20 ॥
धातुष्व अग्निस तु विततः स तु वायुसमीरितः रसान धतूंश च दॊषांश च वर्तयन परिधावति ॥ 21 ॥
पराणानां संनिपातात तु संनिपातः परजायते उष्मा चाग्निर इति जञेयॊ यॊ ऽननं पचति देहिनाम ॥ 22 ॥
अपानॊदानयॊर मध्ये पराणव्यानौ समाहितौ समन्वितस तव अधिष्ठानं सम्यक पचति पावकः ॥ 23 ॥
तस्यापि पायुपर्यन्तस तथा सयाद उदसंज्ञितः सरॊतांसि तस्माज जायन्ते सर्वप्राणेषु देहिनाम ॥ 24 ॥
अग्निवेगवहः पराणॊ गुदान्ते परतिहन्यते स ऊर्ध्वम आगम्य पुनः समुत्क्षिपति पावकम ॥ 25 ॥
पक्वाशयस तव अधॊ नाभ्या ऊर्ध्वम आमाशयः सथितः नाभिमध्ये शरीरस्य पराणाः सर्वे परतिष्ठिताः ॥ 26 ॥
परवृत्ता हृदयात सर्वास तिर्यग ऊर्ध्वम अधस तथा वहन्त्य अन्नरसान नाड्यॊ दश पराणप्रचॊदिताः ॥ 27 ॥
यॊगिनाम एष मार्गस तु येन गच्छन्ति तत्परम जितक्लमासना धीरा मूर्धन्य आत्मानम आदधुः एवं सर्वेषु विततौ पराणापानौ हि देहिषु ॥ 28 ॥
एकादश विकारात्मा कला संभारसंभृतः मूर्तिमन्तं हि तं विद्धि नित्यं कर्म जितात्मकम ॥ 29 ॥
तस्मिन यः संस्थितॊ हय अग्निर नित्यं सथाल्यम इवाहितः आत्मानं तं विजानीहि नित्यं यॊगजितात्मकम ॥ 30 ॥
देवॊ यः संस्थितस तस्मिन्न अब्बिन्दुर इव पुष्करे कषेत्रज्ञं तं विजानीहि नित्यं तयागजितात्मकम ॥ 31 ॥
जीवात्मकानि जानीहि रजॊ सत्त्वं तमस तथा जीवम आत्मगुणं विद्धि तथात्मानं परात्मकम ॥ 32 ॥
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम ततः परं कषेत्रविदॊ वदन्ति; पराकल्पयद यॊ भुवनानि सप्त ॥ 33 ॥
एवं सर्वेषु भूतेषु भूतात्मा न परकाशते दृश्यते तव अग्र्यया बुद्ध्या सूक्ष्मया जञानवेदिभिः ॥ 34 ॥
चित्तस्य हि परसादेन हन्ति कर्म शुभाशुभम परसन्नात्मात्मनि सथित्वा सुखम आनन्त्यम अश्नुते ॥ 35 ॥
लक्षणं तु परसादस्य यथा तृप्तः सुखं सवपेत निवाते वा यथा दीपॊ दीप्येत कुशलदीपितः ॥ 36 ॥
पूर्वरात्रे परे चैव युञ्जानः सततं मनः लब्धाहारॊ विशुद्धात्मा पश्यन्न आत्मानम आत्मनि ॥ 37 ॥
परदीप्तेनेव दीपेन मनॊ दीपेन पश्यति दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते ॥ 38 ॥
सर्वॊपायैस तु लॊभस्य करॊधस्य च विनिग्रहः एतत पवित्रं यज्ञानां तपॊ वै संक्रमॊ मतः ॥ 39 ॥
नित्यं करॊधात तपॊ रक्षेच छरियं रक्षेत मत्सरात विद्यां मानापमानाभ्याम आत्मानं तु परमादतः ॥ 40 ॥
आनृशंस्यं परॊ धर्मः कषमा च परमं बलम आत्मज्ञानं परं जञानं परं सत्यव्रतं वरतम ॥ 41 ॥
सत्यस्य वचनं शरेयॊ सत्यं जञानं हितं भवेत यद भूतहितम अत्यन्तं तद वै सत्यं परं मतम ॥ 42 ॥
यस्य सर्वे समारम्भा निराशीर बन्धनाः सदा तवागे यस्य हुतं सर्वं स तयागी स च बुद्धिमान ॥ 43 ॥
यतॊ न गुरुर अप्य एनं चयावयेद उपपादयन तं विद्याद बरह्मणॊ यॊगं वियॊगं यॊगसंज्ञितम ॥ 44 ॥
न हिंस्यात सर्वभूतानि मैत्रायण गतश चरेत नेदं जीवितम आसाद्य वैरं कुर्वीत केन चित ॥ 45 ॥
आकिंचन्यं सुसंतॊषॊ निराशित्वम अचापलम एतद एव परं जञानं सद आत्मज्ञानम उत्तमम ॥ 46 ॥
परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः अशॊकं सथानम आतिष्ठेन निश्चलं परेत्य चेह च ॥ 47 ॥
तपॊनित्येन दान्तेन मुनिना संतयात्मना अजितं जेतुकामेन भाव्यं सङ्गेष्व असङ्गिना ॥ 48 ॥
गुणागुणम अनासङ्गम एककार्यम अनन्तरम एतद बराह्मण ते वृत्तम आहुर एकपदं सुखम ॥ 49 ॥
परित्यजति यॊ दुःखं सुखं चाप्य उभयं नरः बरह्म पराप्नॊति सॊ ऽतयन्तम असङ्गेन च गच्छति ॥ 50 ॥
यथा शरुतम इदं सर्वं समासेन दविजॊत्तम एतत ते सर्वम आख्यात्म किं भूयॊ शरॊतुम इच्छसि ॥ 51 ॥
वनपर्व · Vana Parva
अध्याय 203
Reach this point to mark the section finished.
Continue to अध्याय 204