[मार्क] एवम उक्तस तु विप्रेण धर्मव्याधॊ युधिष्ठिर परत्युवाच यथा विप्रं तच छृणुष्व नराधिप ॥ 1 ॥
[वयध] विज्ञानार्थं मनुष्याणां मनॊ पूर्वं परवर्तते तत पराप्य कामं भजते करॊधं च दविजसत्तम ॥ 2 ॥
ततस तदर्थं यतते कर्म चारभते महत इष्टानां रूपगन्धानाम अभ्यासं च निषेवते ॥ 3 ॥
ततॊ रागः परभवति दवेषश च तदनन्तरम ततॊ लॊभः परभवति मॊहश च तदनन्तरम ॥ 4 ॥
तस्य लॊभाभिभूतस्य रागद्वेषहतस्य च न धर्मे जायते बुद्धिर वयाजाद धर्मं करॊति च ॥ 5 ॥
वयाजेन चरते धर्मम अर्थं वयाजेन रॊचते वयाजेन सिध्यमानेषु धनेषु दविजसत्तम तत्रैव रमते बुद्धिस ततः पापं चिकीर्षति ॥ 6 ॥
सुहृद्भिर वार्यमाणश च पण्डितैश च दविजॊत्तम उत्तरं शरुतिसंबद्धं बरवीति शरुतियॊजितम ॥ 7 ॥
अधर्मस तरिविधस तस्य वर्धते रागदॊषतः पापं चिन्तयते चापि बरवीति च करॊति च ॥ 8 ॥
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः एकशीलाश च मित्रत्वं भजन्ते पापकर्मिणः ॥ 9 ॥
स तेनासुखम आप्नॊति परत्र च विहन्यते पापात्मा भवति हय एवं धर्मलाभं तु मे शृणु ॥ 10 ॥
यस तव एतान परज्ञया दॊषान पूर्वम एवानुपश्यति कुशलः सुखदुःखेषु साधूंश चाप्य उपसेवते तस्य साधु समारम्भाद बुद्धिर धर्मेषु जायते ॥ 11 ॥
[बरा] बरवीसि सूनृतं धर्मं यस्य वक्ता न विद्यते दिव्यप्रभावः सुमहान ऋषिर एव मतॊ ऽसि मे ॥ 12 ॥
[वयध] बराह्मणा वै महाभागाः पितरॊ ऽगरभुजः सदा तेषां सर्वात्मना कार्यं परियं लॊके मनीषिणा ॥ 13 ॥
यत तेषां च परियं तत ते वक्ष्यामि दविजसत्तम नमस्कृत्वा बराह्मणेभ्यॊ बराह्मीं विद्यां निबॊध मे ॥ 14 ॥
इदं विश्वं जगत सर्वम अजय्यं चापि सर्वशः महाभूतात्मकं बरह्मन्नातः परतरं भवेत ॥ 15 ॥
महाभूतानि खं वायुर अग्निर आपस तथा च भूः शब्दः सपर्शश च रूपं च रसॊ गन्धश च तद गुणाः ॥ 16 ॥
तेषाम अपि गुणाः सर्वे गुणवृत्तिः परस्परम पूर्वपूर्व गुणाः सर्वे करमशॊ गुणिषु तरिषु ॥ 17 ॥
षष्ठस तु चेतना नाम मन इत्य अभिधीयते सप्तमी तु भवेद बुद्धिर अहंकारस ततः परम ॥ 18 ॥
इन्द्रियाणि च पञ्चैव रजॊ सत्त्वं तमस तथा इत्य एष सप्त दशकॊ राशिर अव्यक्तसंज्ञकः ॥ 19 ॥
सर्वैर इहेन्द्रियार्थैस तु वयक्ताव्यक्तैः सुसंवृतः चतुर्विंशक इत्य एष वयक्ताव्यक्तमयॊ गुणः एतत ते सर्वम आख्यातं किं भूयॊ शरॊतुम इच्छसि ॥ 20 ॥
वनपर्व · Vana Parva
अध्याय 201
Reach this point to mark the section finished.
Continue to अध्याय 202