[मार्क] धर्मव्याधस तु निपुणं पुनर एव युधिष्ठिर विप्रर्षभम उवाचेदं सर्वधर्मभृतां वरः ॥ 1 ॥
शरुतिप्रमाणॊ धर्मॊ हि वृद्धानाम इति भाषितम सूक्ष्मा गतिर हि धर्मस्य बहुशाखा हय अनन्तिका ॥ 2 ॥
पराणात्यये विवाहे च वक्तव्यम अनृतं भवेत अनृतं च भवेत सत्यं सत्यं चैवानृतं भवेत ॥ 3 ॥
यद भूतहितम अत्यन्तं तत सत्यम इति धारणा विपर्यय कृतॊ धर्मः पश्य धर्मस्य सूक्ष्मताम ॥ 4 ॥
यत करॊत्य अशुभं कर्म शुभं वा दविजसत्तम अवश्यं तत समाप्नॊति पुरुषॊ नात्र संशयः ॥ 5 ॥
विषमां च दशां पराप्य देवान गर्हति वै भृशम आत्मनः कर्म दॊषाणि न विजानात्य अपण्डितः ॥ 6 ॥
मूढॊ नैकृतिकाश चापि चपलश च दविजॊत्तम सुखदुःखविपर्यासॊ यदा समुपपद्यते नैनं परज्ञा सुनीतं वा तरायते नैव पौरुषम ॥ 7 ॥
यॊ यम इच्छेद यथाकामं तं तं कामं समश्नुयात यदि सयाद अपराधीनं पुरुषस्य करियाफलम ॥ 8 ॥
संयताश चापि दक्षाश च मतिमन्तश च मानवाः दृश्यन्ते निष्फलाः सन्तः परहीणाः सर्वकर्मभिः ॥ 9 ॥
भूतानाम अपरः कश चिद धिंसायां सततॊत्थितः वञ्चनायां च लॊकस्य स सुखेनेह जीवति ॥ 10 ॥
अचेष्टमानम आसीनं शरीः कं चिद उपतिष्ठति कश चित कर्माणि कुर्वन हि न पराप्यम अधिगच्छति ॥ 11 ॥
देवान इष्ट्वा तपस तप्त्वा कृपणैः पुत्रगृद्धिभिः दश मासधृता गर्भे जायन्ते कुलपांसनाः ॥ 12 ॥
अपरे धनधान्यैश च भॊगैश च पितृसंचितैः विपुलैर अभिजायन्ते लब्धास तैर एव मङ्गलैः ॥ 13 ॥
कर्मजा हि मनुष्याणां रॊगा नास्त्य अत्र संशयः आधिभिश चैव बाध्यन्ते वयाधैः कषुद्रमृगा इव ॥ 14 ॥
ते चापि कुशलैर वैद्यैर निपुणैः संभृतौषधैः वयाधयॊ विनिवार्यन्ते मृगा वयाधैर इव दविज ॥ 15 ॥
येषाम अस्ति च भॊक्तव्यं गरहणी दॊषपीडिताः न शक्नुवन्ति ते भॊक्तुं पश्य धर्मभृतां वर ॥ 16 ॥
अपरे बाहुबलिनः कलिश्यन्ते बहवॊ जनाः दुःखेन चाधिगच्छन्ति भॊजनं दविजसत्तम ॥ 17 ॥
इति लॊकम अनाक्रन्दं मॊहशॊकपरिप्लुतम सरॊतसासकृद आक्षिप्तं हरियमाणं बलीयसा ॥ 18 ॥
न मरियेयुर न जीर्येयुः सर्वे सयुः सार्वकामिकाः नाप्रियं परतिपश्येयुर वशित्वं यदि वै भवेत ॥ 19 ॥
उपर्य उपरि लॊकस्य सर्वॊ गन्तुं समीहते यतते च यथाशक्ति न च तद वर्तते तथा ॥ 20 ॥
बहवः संप्रदृश्यन्ते तुल्यनक्षत्र मङ्गलाः महच च फलवैषम्यं दृश्यते कर्म संधिषु ॥ 21 ॥
न कश चिद ईशते बरह्मन सवयं गराहस्य सत्तम कर्मणां पराकृतानां वै इह सिद्धिः परदृश्यते ॥ 22 ॥
यथा शरुतिर इयं बरह्मञ जीवः किल सनातनः शरीरम अध्रुवं लॊके सर्वेषां पराणिनाम इह ॥ 23 ॥
वध्यमाने शरीरे तु देहनाशॊ भवत्य उत जीवः संक्रमते ऽनयत्र कर्मबन्धनिबन्धनः ॥ 24 ॥
[बरा] कथं धर्मभृतां शरेष्ठ जीवॊ भवति शाश्वतः एतद इच्छाम्य अहं जञातु तत्त्वेन वदतां वर ॥ 25 ॥
[वयाध] न जीवनाशॊ ऽसति हि देहभेदे; मिथ्यैतद आहुर मरियतेति मूढाः जीवस तु देहान्तरितः परयाति; दशार्धतैवास्य शरीरभेदः ॥ 26 ॥
अन्यॊ हि नाश्नाति कृतं हि कर्म; स एव कर्ता सुखदुःखभागी यत तेन किं चिद धि कृतं हि कर्म; तद अश्नुते नास्ति कृतस्य नाशः ॥ 27 ॥
अपुण्य शीलाश च भवन्ति पुण्या; नरॊत्तमाः पापकृतॊ भवन्ति नरॊ ऽनुयातस तव इह कर्मभिः सवैस; ततः समुत्पद्यति भावितस तैः ॥ 28 ॥
[बरा] कथं संभवते यॊनौ कथं वा पुण्यपापयॊः जातीः पुण्या हय अपुण्याश च कथं गच्छति सत्तम ॥ 29 ॥
[वयध] गर्भाधान समायुक्तं कर्मेदं संप्रदृश्यते समासेन तु ते कषिप्रं परवक्ष्यामि दविजॊत्तम ॥ 30 ॥
यथा संभृत संभारः पुनर एव परजायते शुभकृच छुभयॊनीषु पापकृत पापयॊनिषु ॥ 31 ॥
शुभैः परयॊगैर देवत्वं वयामिश्रैर मानुषॊ भवेत मॊहनीयैर वियॊनीषु तव अधॊ गामी च किल्बिषैः ॥ 32 ॥
जातिमृत्युजरादुःखैः सततं समभिद्रुतः संसारे पच्यमानश च दॊषैर आत्मकृतैर नरः ॥ 33 ॥
तिर्यग्यॊनिसहस्राणि गत्वा नरकम एव च जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः ॥ 34 ॥
जन्तुस तु कर्मभिस तैस तैः सवकृतैः परेत्य दुःखितः तद्दुःखप्रतिघातार्थम अपुण्यां यॊनिम अश्नुते ॥ 35 ॥
ततः कर्म समादत्ते पुनर अन्यन नवं बहु पच्यते तु पुनस तेन भुक्त्वापथ्यम इवातुरः ॥ 36 ॥
अजस्रम एव दुःखार्तॊ ऽदुःखितः सुखसंज्ञितः ततॊ ऽनिवृत्त बन्धत्वात कर्मणाम उदयाद अपि परिक्रामति संसारे चक्रवद बहु वेदनः ॥ 37 ॥
स चेन निवृत्तबन्धस तु विशुद्धश चापि कर्मभिः पराप्नॊति सुकृताँल लॊकान यत्र गत्वा न शॊचति ॥ 38 ॥
पापं कुर्वन पापवृत्तः पापस्यान्तं न गच्छति तस्मात पुण्यं यतेत कर्तुं वर्जयेत च पातकम ॥ 39 ॥
अनसूयुः कृतज्ञश च कल्याणान्य एव सेवते सुखानि धर्मम अर्थं च सवर्गं च लभते नरः ॥ 40 ॥
संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः पराज्ञस्यानन्तरा वृत्तिर इह लॊके परत्र च ॥ 41 ॥
सतां धर्मेण वर्तेत करियां शिष्टवद आचरेत असंक्लेशेन लॊकस्य वृत्तिं लिप्सेत वै दविज ॥ 42 ॥
सन्ति हय आगतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः सवधर्मेण करिया लॊके कर्मणः सॊ ऽपय असंकरः ॥ 43 ॥
पराज्ञॊ धर्मेण रमते धर्मं चैवॊपजीवति तस्य धर्माद अवाप्तेषु धनेषु दविजसत्तम तस्यैव सिञ्चते मूलं गुणान पश्यति यत्र वै ॥ 44 ॥
धर्मात्मा भवति हय एवं चित्तं चास्य परसीदति स मैत्र जनसंतुष्ट इह परेत्य च नन्दति ॥ 45 ॥
शब्दं सपर्शं तथारूपं गन्धान इष्टांश च सत्तम परभुत्वं लभते चापि धर्मस्यैतत फलं विदुः ॥ 46 ॥
धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज अतृप्यमाणॊ निर्वेदम आदत्ते जञानचक्षुषा ॥ 47 ॥
परज्ञा चक्षुर नर इह दॊषं नैवानुरुध्यते विरज्यति यथाकामं न च धर्मं विमुञ्चति ॥ 48 ॥
सत्यत्यागे च यतते दृष्ट्वा लॊकं कषयात्मकम ततॊ मॊक्षे परयतते नानुपायाद उपायतः ॥ 49 ॥
एवं निर्वेदम आदत्ते पापं कर्म जहाति च धार्मिकश चापि भवति मॊक्षं च लभते परम ॥ 50 ॥
तपॊ निःश्रेयसं जन्तॊस तस्य मूलं शमॊ दमः तेन सर्वान अवाप्नॊति कामान यान मनसेच्छति ॥ 51 ॥
इन्द्रियाणां निरॊधेन सत्येन च दमेन च बरह्मणः पदम आप्नॊति यत परं दविजसत्तम ॥ 52 ॥
[बरा] इन्द्रियाणि तु यान्य आहुः कानि तानि यतव्रत निग्रहश च कथं कार्यॊ निग्रहस्य च किं फलम ॥ 53 ॥
कथं च फलम आप्नॊति तेषां धर्मभृतां वर एतद इच्छामि तत्त्वेन धर्मं जञातुं सुधार्मिक ॥ 54 ॥
वनपर्व · Vana Parva
अध्याय 200
Reach this point to mark the section finished.
Continue to अध्याय 201