धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 19

  1. [वा] शाल्व बाणार्दिते तस्मिन परद्युम्ने बलिनां वरे वृष्णयॊ भग्नसंकल्पा विव्यथुः पृतना गताः ॥ 1 ॥

  2. हाहाकृतम अभूत सार्वं वृष्ण्यन्धकबलं तदा परद्युम्ने पतिते राजन परे च मुदिताभवन ॥ 2 ॥

  3. तं तथा मॊहितं दृष्ट्वा सारथिर जवनैर हयैः रणाद अपाहरत तूर्णं शिक्षितॊ दारुकिस ततः ॥ 3 ॥

  4. न तिदूरापयाते तु रथे रथवरप्रणुत धनुर गृहीत्वा यन्तारं लब्धसंज्ञॊ ऽबरवीद इदम ॥ 4 ॥

  5. सौते किं ते वयवसितं कस्माद यासि पराङ्मुखः नैष वृष्णिप्रवीराणाम आहवे धर्म उच्यते ॥ 5 ॥

  6. कच चित सौते न ते मॊहः शाल्वं दृष्ट्वा महाहवे विषादॊ वा रणं दृष्ट्वा बरूहि मे तवं यथातथम ॥ 6 ॥

  7. [सूत] जानार्दने न मे मॊहॊ नापि मे भयम आविशत अतिभारं तु ते मन्ये शाल्वं केशवनन्दन ॥ 7 ॥

  8. सॊ ऽपयामि शनैर वीर बलवान एष पापकृत मॊहितश च रणे शूरॊ रक्ष्यः सारथिना रथी ॥ 8 ॥

  9. आयुष्मंस तवं मया नित्यं रक्षितव्यस तवयाप्य अहम रक्षितव्यॊ रथी नित्यम इति कृत्वापयाम्य अहम ॥ 9 ॥

  10. एकश चासि महाबाहॊ बहवश चापि दानवाः नसमं रौक्मिणेयाहं रणं मत्वापयाम्य अहम ॥ 10 ॥

  11. [वा] एवं बरुवति सूते तु तदा मकरकेतुमान उव्वाच सूतं कौरव्य निवर्तय रथं पुनः ॥ 11 ॥

  12. दारुकात्मज मैवं तं पुनः कार्षीः कथं चन वयपयानं रणात सौते जीवतॊ मम कर्हि चित ॥ 12 ॥

  13. न स वृष्णिकुले जातॊ यॊ वै तयजति संगरम यॊ वा निपतितं हन्ति तवास्मीति च वादिनम ॥ 13 ॥

  14. तथा सत्रियं वै यॊ हन्ति वृद्धं बालं तथैव च विरथं विप्रकीर्णं च भग्नशस्स्त्रायुधं तथा ॥ 14 ॥

  15. तवं च सूत कुले जातॊ विनीतः सूत कर्मणि धर्मज्ञश चासि वृष्णीनाम आहवेष्व अपि दारुके ॥ 15 ॥

  16. स जानंश चरितं कृत्स्नं वृष्णीनां पृतना मुखे अपयानं पुनः सौते मैवं कार्षीः कथं चन ॥ 16 ॥

  17. अपयातं हतं पृष्ठे भीतं रणपलायिनम गदाग्रजॊ दुराधर्षः किं मां वक्ष्यति माधवः ॥ 17 ॥

  18. केशवस्याग्रजॊ वापि नीलवासा मदॊत्कटः किं वक्ष्यति महाबाहुर बलदेवः समागतः ॥ 18 ॥

  19. किं वक्ष्यति शिनेर नप्ता नरसिंहॊ महाधनुः अपयातं रणात सौते साम्ब्बश च समितिंजयः ॥ 19 ॥

  20. चारुदेष्णश च दुर्धर्षस तथैव गद सारणौ अक्रूरश च महाबाहुः किं मां वक्ष्यति सारथे ॥ 20 ॥

  21. शूरं संभावितं सन्तं नित्यं पुरुषमानिनम सत्रियश च वृष्णी वीराणां किं मां वक्ष्यन्ति संगताः ॥ 21 ॥

  22. परद्युम्नॊ ऽयम उपायाति भीतस तयक्त्वा महाहवम धिग एनम इति वक्ष्यन्ति न तु वक्ष्यन्ति साध्व इति ॥ 22 ॥

  23. धिग वाचा परिहासॊ ऽपि मम वा मद्विधस्य वा मृत्युनाभ्यधिकः सौते स तवं मा वयपयाः पुनः ॥ 23 ॥

  24. भारं हि मयि संन्यस्य यातॊ मधुनिहा हरिः यज्ञं भरत सिंहस्य पार्थस्यामित तेजसः ॥ 24 ॥

  25. कृतवर्मा मया वीरॊ निर्यास्यन्न एव वारितः शाल्वं निवारयिष्ये ऽहं तिष्ठ तवम इति सूतज ॥ 25 ॥

  26. स च संभावयन मां वै निवृत्तॊ हृदिकात्मजः तं समेत्य रणं तयक्त्वा किं वक्ष्यामि महारथम ॥ 26 ॥

  27. उपयातं दुराधर्षं शङ्खचक्रगदाधरम पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम ॥ 27 ॥

  28. सात्यकिं बलदेवं च ये चान्ये ऽनधकवृष्णयः मया सपर्धन्ति सततं किं नु वक्ष्यामि तान अहम ॥ 28 ॥

  29. तयक्त्वा रणम इमं सौते पृष्ठतॊ ऽभयाहतः शरैः तवयापनीतॊ विवशॊ न जीवेयं कथं चन ॥ 29 ॥

  30. स निवर्त रथेनाशु पुनर दारुकनन्दन न चैतद एवं कर्तव्यम अथापत्सु कथं चन ॥ 30 ॥

  31. न जीवितम अहं सौते बहु मन्ये कदा चन अपयातॊ रणाद भीतः पृष्ठतॊ ऽभयाहताः शरैः ॥ 31 ॥

  32. कदा वा सूतपुत्र तवं जानीषे मां भयार्दितम अपयातं रणं हित्वा यथा कापुरुषं तथा ॥ 32 ॥

  33. न युक्तं भवता तयक्तुं संग्रामं दारुकात्मज मयि युद्धार्थिनि भृशं स तवं याहि यतॊ रणम ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 20

Previous: अध्याय 18