[मार्क] चिन्तयित्वा तद आश्चर्यं सत्रिया परॊक्तम अशेषतः विनिन्दन स दविजॊ ऽऽतमानम आगः कृत इवाबभौ ॥ 1 ॥
चिन्तयानः स धर्मस्य सूक्ष्मां गतिम अथाब्रवीत शरद्दधानेन भाव्यं वै गच्छामि मिथिलाम अहम ॥ 2 ॥
कृतात्मा धर्मवित तस्यां वयाधॊ निवसते किल तं गच्छाम्य अहम अद्यैव धर्मं परष्टुं तपॊधनम ॥ 3 ॥
इति संचिन्त्य मनसा शरद्दधानः सत्रिया वचः बलाका परत्ययेनासौ धर्म्यैश च वचनैः शुभैः संप्रतस्थे स मिथिलां कौतूहलसमन्वितः ॥ 4 ॥
अतिक्रामन्न अरण्यानि गरामांश च नगराणि च ततॊ जगाम मिथिलां जनकेन सुरक्षिताम ॥ 5 ॥
धर्मसेतु समाकीर्णां यज्ञॊत्सव वतीं शुभाम गॊपुराट्टालकवतीं गृहप्राकारशॊभिताम ॥ 6 ॥
परविश्य स पुरीं रम्यां विमानैर बहुभिर वृताम पण्यैश च बहुभिर युक्तां सुविभक्तमहापथाम ॥ 7 ॥
अश्वै रथैस तथा नागैर यानैश च बहुभिर वृताम हृष्टपुष्ट जनाकीर्णां नित्यॊत्सव समाकुलाम ॥ 8 ॥
सॊ ऽपश्यद बहु वृत्तान्तां बराह्मणः समतिक्रमन धर्मव्याधम अपृच्छच च स चास्य कथितॊ दविजैः ॥ 9 ॥
अपश्यत तत्र गत्वा तं सूना मध्ये वयवस्थितम मार्गमाहिष मांसानि विक्रीणन्तं तपस्विनम आकुलत्वात तु करेतॄणाम एकान्ते संस्थितॊ दविजः ॥ 10 ॥
स तु जञात्वा दविजं पराप्तं सहसा संभ्रमॊत्थितः आजगाम यतॊ विप्रः सथित एकान्त आसने ॥ 11 ॥
[वयाध] अभिवादये तवा भगवन सवागतं ते दविजॊत्तम अहं वयाधस तु भद्रं ते किं करॊमि परशाधि माम ॥ 12 ॥
एकपत्न्या यद उक्तॊ ऽसि गच्छ तवं मिथिलाम इति जानाम्य एतद अहं सर्वं यदर्थं तवम इहागतः ॥ 13 ॥
[मार्क] शरुत्वा तु तस्य तद वाक्यं स विप्रॊ भृशहर्षितः दवितीयम इदम आश्चर्यम इत्य अचिन्तयत दविजः ॥ 14 ॥
अदेशस्थं हि ते सथानम इति वयाधॊ ऽबरवीद दविजम गृहं गच्छाव भगवन यदि रॊचयसे ऽनघ ॥ 15 ॥
बाढम इत्य एव संहृष्टॊ विप्रॊ वचनम अब्रवीत अग्रतस तु दविजं कृत्वा स जगाम गरहान परति ॥ 16 ॥
परविश्य च गृहं रम्यम आसनेनाभिपूजितः पाद्यम आचमनीयं च परतिगृह्य दविजॊत्तमः ॥ 17 ॥
ततः सुखॊपविष्टस तं वयाधं वचनम अब्रवीत कर्मैतद वै न सदृशं भवतः परतिभाति मे अनुतप्ये भृशं तात तव घॊरेण कर्मणा ॥ 18 ॥
[वयाध] कुलॊचितम इदं कर्म पितृपैतामहं मम वर्तमानस्य मे धर्मे सवे मन्युं मा कृथा दविज ॥ 19 ॥
धात्रा तु विहितं पूर्वं कर्म सवं पालयाम्य अहम परयत्नाच च गुरू वृद्धौ शुश्रूषे ऽहं दविजॊत्तम ॥ 20 ॥
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च देवतातिथिभृत्यानाम अवशिष्टेन वर्तये ॥ 21 ॥
न कुत्सयाम्य अहं किं चिन न गर्हे बलवत्तरम कृतम अन्वेति कर्तारं पुरा कर्म दविजॊत्तम ॥ 22 ॥
कृषिगॊरक्ष्य वाणिज्यम इह लॊकस्य जीवनम दण्डनीतिस तरयी विद्या तेन लॊका भवन्त्य उत ॥ 23 ॥
कर्म शूद्रे कृषिर वैश्ये संग्रामः कषत्रिये समृतः बरह्मचर्यं तपॊ मन्त्राः सत्यं च बराह्मणे सदा ॥ 24 ॥
राजा परशास्ति धर्मेण सवकर्म निरताः परजाः विकर्माणश च ये के चित तान युनक्ति सवकर्मसु ॥ 25 ॥
भेतव्यं हि सदा राज्ञां परजानाम अधिपा हि ते मारयन्ति विकर्मस्थं लुब्धा मृगम इवेषुभिः ॥ 26 ॥
जनकस्येह विप्रर्षे विकर्मस्थॊ न विद्यते सवकर्म निरता वर्णाश चत्वारापि दविजॊत्तम ॥ 27 ॥
स एष जनकॊ राजा दुर्वृत्तम अपि चेत सुतम दण्ड्यं दण्डे निक्षिपति तथा न गलाति धार्मिकम ॥ 28 ॥
सुयुक्तचारॊ नृपतिः सर्वं धर्मेण पश्यति शरीश च राज्यं च दण्डश च कषत्रियाणां दविजॊत्तम ॥ 29 ॥
राजानॊ हि सवधर्मेण शरियम इच्छन्ति भूयसीम सर्वेषाम एव वर्णानां तराता राजा भवत्य उत ॥ 30 ॥
परेण हि हतान बरह्मन वराहमहिषान अहम न सवयं हन्मि विप्रर्षे विक्रीणामि सदा तव अहम ॥ 31 ॥
न भक्षयामि मांसानि ऋतुगामी तथा हय अहम सदॊपवासी च तथा नक्तभॊजी तथा दविज ॥ 32 ॥
अशीलश चापि पुरुषॊ भूत्वा भवति शीलवान पराणि हिंसा रतश चापि भवते धार्मिकः पुनः ॥ 33 ॥
वयभिचारान नरेन्द्राणां धर्मः संकीर्यते महान अधर्मॊ वर्धते चापि संकीर्यन्ते तथा परजाः ॥ 34 ॥
उरुण्डा वामनाः कुब्जाः सथूलशीर्षास तथैव च कलीबाश चान्धाश च जायन्ते बधिरा लम्बचूचुकाः पार्थिवानाम अधर्मत्वात परजानाम अभवः सदा ॥ 35 ॥
स एष राजा जनकः सर्वं धर्मेण पश्यति अनुगृह्णन परजाः सर्वाः सवधर्मनिरताः सदा ॥ 36 ॥
ये चैव मां परशंसन्ति ये च निन्दन्ति मानवाः सर्वान सुपरिणीतेन कर्मणा तॊषयाम्य अहम ॥ 37 ॥
ये जीवन्ति सवधर्मेण संभुञ्जन्ते च पार्थिवाः न किं चिद उपजीवन्ति दक्षा उत्थान शीलिनः ॥ 38 ॥
शक्त्यान्न दानं सततं तितिक्षा धर्मनित्यता यथार्हं परतिपूजा च सर्वभूतेषु वै दया तयागान नान्यत्र मर्त्यानां गुणास तिष्ठन्ति पूरुषे ॥ 39 ॥
मृषावादं परिहरेत कुर्यात परियम अयाचितः न च कामान न संरम्भान न दवेषाद धर्मम उत्सृजेत ॥ 40 ॥
परिये नातिभृशं हृष्येद अप्रिये न च संज्वरेत न मुह्येद अर्थकृच्छ्रेषु न च धर्मं परित्यजेत ॥ 41 ॥
कर्म चेत किं चिद अन्यत सयाद इतरन न समाचरेत यत कल्याणम अभिध्यायेत तत्रात्मानं नियॊजयेत ॥ 42 ॥
न पापं परति पापः सयात साधुर एव सदा भवेत आत्मनैव हतः पापॊ यः पापं कर्तुम इच्छति ॥ 43 ॥
कर्म चैतद असाधूनां वृजिनानाम असाधुवत न धर्मॊ ऽसतीति मन्वानाः शुचीन अवहसन्ति ये अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः ॥ 44 ॥
महादृतिर इवाध्मातः पापॊ भवति नित्यदा मूढानाम अवलिप्तानाम असारं भाषितं भवेत दर्शयत्य अन्तरात्मानं दिवा रूपम इवांशुमान ॥ 45 ॥
न लॊके राजते मूर्खः केवलात्म परशंसया अपि चेह मृजा हीनः कृतविद्यः परकाशते ॥ 46 ॥
अब्रुवन कस्य चिन निन्दाम आत्मपूजाम अवर्णयन न कश चिद गुणसंपन्नः परकाशॊ भुवि दृश्यते ॥ 47 ॥
विकर्मणा तप्यमानः पापाद विपरिमुच्यते नैतत कुर्यां पुनर इति दवितीयात परिमुच्यते ॥ 48 ॥
कर्मणा येन तेनेह पापाद दविज वरॊत्तम एवं शरुतिर इयं बरह्मन धर्मेषु परिदृश्यते ॥ 49 ॥
पापान्य अबुद्ध्वेह पुरा कृतानि; पराग धर्मशीलॊ विनिहन्ति पश्चात धर्मॊ बरह्मन नुदते पूरुषाणां; यत कुर्वते पापम इह परमादात ॥ 50 ॥
पापं कृत्वा हि मन्येत नाहम अस्मीति पूरुषः चिकीर्षेद एव कल्याणं शरद्दधानॊ ऽनसूयकः ॥ 51 ॥
वसनस्येव छिद्राणि साधूनां विवृणॊति यः पापं चेत पुरुषः कृत्वा कल्याणम अभिपद्यते मुच्यते सर्वपापेभ्यॊ महाभ्रैर इव चन्द्रमाः ॥ 52 ॥
यथादित्यः समुद्यन वै तमॊ सर्वं वयपॊहति एवं कल्याणम आतिष्ठन सर्वपापैः परमुच्यते ॥ 53 ॥
पापानां विद्ध्य अधिष्ठानं लॊभम एव दविजॊत्तम लुब्धाः पापं वयवस्यन्ति नरा नातिबहु शरुताः अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः ॥ 54 ॥
तेषां दमः पवित्राणि परलापा धर्मसंश्रिताः सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ॥ 55 ॥
[मार्क] स तु विप्रॊ महाप्राज्ञॊ धर्मव्याधम अपृच्छत शिष्टाचारं कथम अहं विद्याम इति नरॊत्तम एतन महामते वयाध परब्रवीहि यथातथम ॥ 56 ॥
[वयाध] यज्ञॊ दानं तपॊ वेदाः सत्यं च दविजसत्तम पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ॥ 57 ॥
कामक्रॊधौ वशे कृत्वा दम्भं लॊभम अनार्जवम धर्म इत्य एव संतुष्टास ते शिष्टाः शिष्टसंमताः ॥ 58 ॥
न तेषां विद्यते ऽवृत्तं यज्ञस्वाध्यायशीलिनाम आचार पालनं चैव दवितीयं शिष्टलक्षणम ॥ 59 ॥
गुरुशुश्रूषणं सत्यम अक्रॊधॊ दानम एव च एतच चतुष्टयं बरह्मञ शिष्टाचारेषु नित्यदा ॥ 60 ॥
शिष्टाचारे मनॊ कृत्वा परतिष्ठाप्य च सर्वशः याम अयं लभते तुष्टिं सा न शक्या हय अतॊ ऽनयथा ॥ 61 ॥
वेदस्यॊपनिषत सत्यं सत्यस्यॊपनिषद दमः दमस्यॊपनिषत तयागः शिष्टाचारेषु नित्यदा ॥ 62 ॥
ये तु धर्मम असूयन्ते बुद्धिमॊहान्विता नराः अपथा गच्छतां तेषाम अनुयातापि पीड्यते ॥ 63 ॥
ये तु शिष्टाः सुनियताः शरुतित्यागपरायणाः धर्म्यं पन्थानम आरूढाः सत्यधर्मपरायणाः ॥ 64 ॥
नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः उपाध्याय मते युक्ताः सथित्या धर्मार्थदर्शिनः ॥ 65 ॥
नास्तिकान भिन्नमर्यादान करूरान पापमतौ सथितान तयज ताञ जञानम आश्रित्य धार्मिकान उपसेव्य च ॥ 66 ॥
काललॊभ गरहाकीर्णां पञ्चेन्द्रिय जलां नदीम नावं धृतिमयीं कृत्वा जन्म दुर्गाणि संतर ॥ 67 ॥
करमेण संचितॊ धर्मॊ बुद्धियॊगमयॊ महान शिष्टाचारे भवेत साधू रागः शुक्लेव वाससि ॥ 68 ॥
अहिंसा सत्यवचनं सर्वभूतहितं परम अहिंसा परमॊ धर्मः स च सत्ये परतिष्ठितः सत्ये कृत्वा परतिष्ठां तु परवर्तन्ते परवृत्तयः ॥ 69 ॥
सत्यम एव गरीयस तु शिष्टाचार निषेवितम आचारश च सतां धर्मः सन्तश चाचार लक्षणः ॥ 70 ॥
यॊ यथा परकृतिर जन्तुः सवां सवां परकृतिम अश्नुते पापात्मा करॊधकामादीन दॊषान आप्नॊत्य अनात्मवान ॥ 71 ॥
आरम्भॊ नयाययुक्तॊ यः स हि धर्म इति समृतः अनाचारस तव अधर्मेति एतच छिष्टानुशासनम ॥ 72 ॥
अक्रुध्यन्तॊ ऽनसूयन्तॊ निरहंकार मत्सराः ऋजवः शम संपन्नाः शिष्टाचारा भवन्ति ते ॥ 73 ॥
तरैविद्य वृद्धाः शुचयश वृत्तवन्तॊ मनस्विनः गुरुशुश्रूषवॊ दान्ताः शिष्टाचारा भवन्त्य उत ॥ 74 ॥
तेषाम अदीनसत्त्वानां दुष्कराचार कर्मणाम सवैः कर्मभिः सत्कृतानां घॊरत्वं संप्रणश्यति ॥ 75 ॥
तं सद आचारम आश्चर्यं पुराणं शाश्वतं धरुवम धर्मं धर्मेण पश्यन्तः सवर्गं यान्ति मनीषिणः ॥ 76 ॥
आस्तिका मानहीनाश च दविजातिजनपूजकाः शरुतवृत्तॊपसंपन्नास ते सन्तः सवर्गगामिनः ॥ 77 ॥
वेदॊक्तः परमॊ धर्मॊ धर्मशास्त्रेषु चापरः शिष्टाचीर्णश च शिष्टानां तरिविधं धर्मलक्षणम ॥ 78 ॥
पारणं चापि विद्यानां तीर्थानाम अवगाहनम कषमा सत्यार्जवं शौचं शिष्टाचार निदर्शनम ॥ 79 ॥
सर्वभूतदयावन्तॊ अहिंसा निरताः सदा परुषं न परभाषन्ते सदा सन्तॊ दविज परियाः ॥ 80 ॥
शुभानाम अशुभानां च कर्मणां फलसंचये विपाकम अभिजानन्ति ते शिष्टाः शिष्टसंमताः ॥ 81 ॥
नयायॊपेता गुणॊपेताः सर्वलॊकहितैषिणः सन्तः सवर्गजितः शुक्लाः संनिविष्टाश च सत्पथे ॥ 82 ॥
दातारः संविभक्तारॊ दीनानुग्रह कारिणः सर्वभूतदयावन्तस ते शिष्टाः शिष्टसंमताः ॥ 83 ॥
सर्वपूज्याः शरुतधनास तथैव च तपस्विनः दाननित्याः सुखाँल लॊकान आप्नुवन्तीह च शरियम ॥ 84 ॥
पीडया च कलत्रस्य भृत्यानां च समाहिताः अतिशक्त्या परयच्छन्ति सन्तः सद्भिः समागताः ॥ 85 ॥
लॊकयात्रां च पश्यन्तॊ धर्मम आत्महितानि च एवं सन्तॊ वर्तमाना एधन्ते शाश्वतीः समाः ॥ 86 ॥
अहिंसा सत्यवचनम आनृशंस्यम अथार्जवम अद्रॊहॊ नातिमानश च हरीस तितिक्षा दमः शमः ॥ 87 ॥
धीमन्तॊ धृतिमन्तश च भूतानाम अनुकम्पकाः अकाम दवेषसंयुक्तास ते सन्तॊ लॊकसत्कृताः ॥ 88 ॥
तरीण्य एव तु पदान्य आहुः सतां वृत्तम अनुत्तमम न दरुह्येच चैव दद्याच च सत्यं चैव सदा वदेत ॥ 89 ॥
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानम उत्तमम शिष्टाचारा महात्मानॊ येषां धर्मः सुनिश्चितः ॥ 90 ॥
अनसूया कषमा शान्तिः संतॊषः परियवादिता कामक्रॊधपरित्यागः शिष्टाचार निषेवणम ॥ 91 ॥
कर्मणा शरुतसंपन्नं सतां मार्गम अनुत्तमम शिष्टाचारं निषेवन्ते नित्यं धर्मेष्व अतन्द्रिताः ॥ 92 ॥
परज्ञा परासादम आरुह्य मुह्यतॊ महतॊ जनान परेक्षन्तॊ लॊकवृत्तानि विविधानि दविजॊत्तम अतिपुण्यानि पापानि तानि दविज वरॊत्तम ॥ 93 ॥
एतत ते सर्वम आख्यातं यथा परज्ञं यथा शरुतम शिष्टाचार गुणान बरह्मन पुरस्कृत्य दविजर्षभ ॥ 94 ॥
वनपर्व · Vana Parva
अध्याय 198
Reach this point to mark the section finished.
Continue to अध्याय 199