धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 196

  1. [वै] ततॊ युधिष्ठिरॊ राजा मार्कण्डेयं महाद्युतिम पप्रच्छ भरतश्रेष्ठ धर्मप्रश्नं सुदुर्वचम ॥ 1 ॥

  2. शरॊतुम इच्छामि भगवन सत्रीणां माहात्म्यम उत्तमम कथ्यमानं तवया विप्र सूक्ष्मं धर्मं च तत्त्वतः ॥ 2 ॥

  3. परत्यक्षेण हि विप्रर्षौ देवा दृश्यन्ति सत्तम सूर्यचन्द्रमसौ वायुः पृथिवी बह्निर एव च ॥ 3 ॥

  4. पिता माता च भगवन गाव एव च सत्तम यच चान्यद एव विहितं तच चापि भृगुनन्दन ॥ 4 ॥

  5. मन्ये ऽहं गुरुवत सर्वम एकपत्न्यस तथा सत्रियः पतिव्रतानां शुश्रूषा दुष्करा परतिभाति मे ॥ 5 ॥

  6. पतिव्रतानां माहात्म्यं वक्तुम अर्हसि नः परभॊ निरुध्य चेन्द्रियग्रामं मनॊ संरुध्य चानघ पतिं दैवतवच चापि चिन्तयन्त्यः सथिता हि याः ॥ 6 ॥

  7. भगवन दुष्करं हय एतत परतिभाति मम परभॊ माता पितृषु शुश्रूषा सत्रीणां भर्तृषु च दविज ॥ 7 ॥

  8. सत्रीणां धर्मात सुघॊराद धि नान्यं पश्यामि दुष्करम साध्व आचाराः सत्रियॊ बरह्मन यत कुर्वन्ति सदादृताः दुष्करं बत कुर्वन्ति पितरॊ मातरश च वै ॥ 8 ॥

  9. एप पत्न्यश च या नार्यॊ याश च सत्यं वदन्त्य उत कुक्षिणा दश मासांश च गर्भं संधारयन्ति याः नार्यः कालेन संभूय किम अद्भुततरं ततः ॥ 9 ॥

  10. संशयं परमं पराप्य वेदानाम अतुलाम अपि परजायन्ते सुतान नार्यॊ दुःखेन महता विभॊ पुष्णन्ति चापि महता सनेहेन दविजसत्तम ॥ 10 ॥

  11. ये च करूरेषु सर्वेषु वर्तमाना जुगुप्सिताः सवकर्म कुर्वन्ति सदा दुष्करं तच च मे मतम ॥ 11 ॥

  12. कषत्रधर्मसमाचारं तथ्यं चाख्याहि मे दविज धर्मः सुदुर्लभॊ विप्र नृशंसेन दुरात्मना ॥ 12 ॥

  13. एतद इच्छामि भगवन परश्नं परश्नविदां वर शरॊतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत ॥ 13 ॥

  14. [मार्क] हन्त ते सर्वम आख्यास्ये परश्नम एतं सुदुर्वचम तत्त्वेन भरतश्रेष्ठ गदतस तन निबॊध मे ॥ 14 ॥

  15. मातरं सदृशीं तात पितॄन अन्ये च मन्यते कुष्करं कुरुते माता विवर्धयति या परजाः ॥ 15 ॥

  16. तपसा देवतेज्याभिर वन्दनेन तितिक्षया अभिचारैर उपायैश च ईहन्ते पितरः सुतान ॥ 16 ॥

  17. एवं कृच्छ्रेण महता पुत्रं पराप्य सुदुर्लभम चिन्तयन्ति सदा वीर दीदृशॊ ऽयं भविष्यति ॥ 17 ॥

  18. आशंसते च पुत्रेषु पिता माता च भारत यशॊ कीर्तिम अथैश्वर्यं परजा धर्मं तथैव च ॥ 18 ॥

  19. तयॊर आशां तु सफलां यः करॊति स धर्मवित पिता माता च राजेन्द्र तुष्यतॊ यस्य नित्यदा इह परेत्य च तस्याथ कीर्तिर धर्मश च शाश्वतः ॥ 19 ॥

  20. नैव यज्ञः सत्रियः कश चिन न शराद्धं नॊपवासकम या तु भर्तरि शुश्रूषा तया सवर्गम उपाश्नुते ॥ 20 ॥

  21. एतत परकरणं राजन्न अधिकृत्य युधिष्ठिर परतिव्रतानां नियतं धर्मं चावहितः शृणु ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 197

Previous: अध्याय 195