धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 195

  1. [मार्क] धुन्धुर नाम महातेजा तयॊः पुत्रॊ महाद्युतिः स तपॊ ऽतप्यत महन महावीर्यपराक्रमः ॥ 1 ॥

  2. अतिष्ठद एकपादेन कृशॊ धमनि संततः तस्मै बरह्मा ददौ परीतॊ वरं वव्रे स च परभॊ ॥ 2 ॥

  3. देवदानव यक्षाणां सर्पगन्धर्वरक्षसाम अवध्यॊ ऽहं भवेयं वै वर एष वृतॊ मया ॥ 3 ॥

  4. एवं भवतु गच्छेति तम उवाच पितामहः स एवम उक्तस तत पादौ मूर्ध्ना सपृश्य जगाम ह ॥ 4 ॥

  5. स तु धुन्धुर वरं लब्ध्वा महावीर्यपराक्रमः अनुस्मरन पितृवधं ततॊ विष्णुम उपाद्रवत ॥ 5 ॥

  6. स तु देवान सगन्धर्वाञ जित्वा धुन्धुर अमर्षणः बबाध सर्वान असकृद देवान विष्णुं च वै भृशम ॥ 6 ॥

  7. समुद्रॊ बालुका पूर्ण उज्जानक इति समृतः आगम्य च स दुष्टात्मा तं देशं भरतर्षभ बाधते सम परं शक्त्या तम उत्तङ्काश्रमं परभॊ ॥ 7 ॥

  8. अन्तर्भूमि गतस तत्र वालुकान्तर्हितस तदा मधुकैटभयॊः पुत्रॊ धुन्धुर भीमपराक्रमः ॥ 8 ॥

  9. शेते लॊकविनाशाय तपॊबलसमाश्रितः उत्तङ्कस्याश्रमाभ्याशे निःश्वसन पावकार्चिषः ॥ 9 ॥

  10. एतस्मिन्न एव काले तु संभृत्य बलवाहनः कुवलाश्वॊ नरपतिर अन्वितॊ बलशालिनाम ॥ 10 ॥

  11. सहस्रैर एकविंशत्या पुत्राणाम अरिमर्दनः परायाद उत्तङ्क सहितॊ धुन्धॊस तस्य निवेशनम ॥ 11 ॥

  12. तम आविशत ततॊ विष्णुर भगवांस तेजसा परभुः उत्तङ्कस्य नियॊगेन लॊकानां हितकाम्यया ॥ 12 ॥

  13. तस्मिन परयाते दुर्धर्षे दिवि शब्दॊ महान अभूत एष शरीमान नृपसुतॊ धुन्धुमारॊ भविष्यति ॥ 13 ॥

  14. दिव्यैश च पुष्पैस तं देवाः समन्तात पर्यवाकिरन देवदुन्दुभयश चैव नेदुः सवयम उदीरिताः ॥ 14 ॥

  15. शीतश च वायुः परववौ परयाणे तस्य धीमतः विपांसुलां महीं कुर्वन ववर्ष च सुरेश्वरः ॥ 15 ॥

  16. अन्तरिक्षे विमानानि देवतानां युधिष्ठिर तत्रैव समदृश्यन्त धुन्धुर यत्र महासुरः ॥ 16 ॥

  17. कुवलाश्वस्य धुन्धॊश च युद्धकौतूहलान्विताः देवगन्धर्वसहिताः समवैक्षन महर्षयः ॥ 17 ॥

  18. नारायणेन कौरव्य तेजसाप्यायितस तदा स गतॊ नृपतिः कषिप्रं पुत्रैस तैः सर्वतॊदिशम ॥ 18 ॥

  19. अर्णवं खानयाम आस कुवलाश्वॊ महीपतिः कुवलाश्वस्य पुत्रैस तु तस्मिन वै वालुकार्णवे ॥ 19 ॥

  20. सप्तभिर दिवसैः खात्वा दृष्टॊ धुन्धुर महाबलः आसीद घॊरं वपुस तस्य वालुकान्तर्हितं महत दीप्यमानं यथा सूर्यस तेजसा भरतर्षभ ॥ 20 ॥

  21. ततॊ धुन्धुर महाराज दिशम आश्रित्य पश्चिमाम सुप्तॊ ऽभूद राजशार्दूल कालानलसमद्युतिः ॥ 21 ॥

  22. कुवलाश्वस्य पुत्रैस तु सर्वतः परिवारितः अभिदुर्तः शरैस तीक्ष्णैर गदाभिर मुसलैर अपि पट्टिषैः परिघैः परासैः खड्गैश च विमलैः शितैः ॥ 22 ॥

  23. स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः करुद्धश चाभक्षयत तेषां शस्त्राणि विविधानि च ॥ 23 ॥

  24. आस्याद वमन पावकं स संवर्तक समं तदा तान सर्वान नृपतेः पुत्रान अदहत सवेन तेजसा ॥ 24 ॥

  25. मुखजेनाग्निना करुद्धॊ लॊकान उद्वर्तयन्न इव कषणेन राजशार्दूल पुरेव कपिलः परभुः सगरस्यात्मजान करुद्धस तद अद्भुतम इवाभवत ॥ 25 ॥

  26. तेषु करॊधाग्निदग्धेषु तदा भरतसत्तम तं परबुद्धं महात्मानं कुम्भकर्णम इवापरम आससाद महातेजा कुवलाश्वॊ महीपतिः ॥ 26 ॥

  27. तस्य वारि महाराज सुस्राव बहु देहतः तद आपीयत तत तेजॊ राजा वारिमयं नृप यॊगी यॊगेन वह्निं च शमयाम आस वारिणा ॥ 27 ॥

  28. बरह्मास्त्रेण तदा राजा दैत्यं करूप पराक्रमम ददाह भरतश्रेष्ठ सर्वलॊकाभयाय वै ॥ 28 ॥

  29. सॊ ऽसत्रेण दग्ध्वा राजर्षिः कुवलाश्वॊ महासुरम सुरशत्रुम अमित्रघ्नस तरिलॊकेश इवापरः धुधुमार इति खयातॊ नाम्ना समभवत ततः ॥ 29 ॥

  30. परीतैश च तरिदशैः सर्वैर महर्षिसहितैस तदा वरं वृणीष्वेत्य उक्तः स पराञ्जलिः परणतस तदा अतीव मुदितॊ राजन्न इदं वचनम अब्रवीत ॥ 30 ॥

  31. दद्यां वित्तं दविजाग्र्येभ्यः शत्रूणां चापि दुर्जयः सख्यं च विष्णुना मे सयाद भूतेष्व अद्रॊह एव च धर्मे रतिश च सततं सवर्गे वासस तथाक्षयः ॥ 31 ॥

  32. तथास्त्व इति ततॊ देवैः परीतैर उक्तः स पार्थिवः ऋषिभिश च सगन्धर्वैर उत्तङ्केन च धीमता ॥ 32 ॥

  33. सभाज्य चैनं विविधैर आशीर्वादैस ततॊ नृपम देवा महर्षयश चैव सवानि सथानानि भेजिरे ॥ 33 ॥

  34. तस्य पुत्रास तरयः शिष्टा युधिष्ठिर तदाभवन दृढाश्वः कपिलाश्वश च चन्द्राश्वश चैव भारत तेभ्यः परम्परा राजन्न इक्ष्वाकूणां महात्मनाम ॥ 34 ॥

  35. एवं स निहतस तेन कुवलाश्वेन सत्तम धुन्धुर दैत्यॊ महावीर्यॊ मधुकैटभयॊः सुतः ॥ 35 ॥

  36. कुवलाश्वस तु नृपतिर धुन्धुमार इति समृतः नाम्ना च गुणसंयुक्तस तदा परभृति सॊ ऽभवत ॥ 36 ॥

  37. एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि धौन्धुमारम उपाख्यानं परथितं यस्य कर्मणा ॥ 37 ॥

  38. इदं तु पुन्यम आख्यानं विष्णॊः समनुकीर्तनम शृणुयाद यः स धर्मात्मा पुत्रवांश च भवेन नरः ॥ 38 ॥

  39. आयुस्मान धृतिमांश चैव शरुत्वा भवति पर्वसु न व वयाधिभयं किं चित पराप्नॊति विगतज्वरः ॥ 39 ॥

Reach this point to mark the section finished.

Continue to अध्याय 196

Previous: अध्याय 194