धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 194

  1. [मार्क] स एवम उक्तॊ राजर्षिर उत्तङ्केनापराजितः उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिर अथाब्रवीत ॥ 1 ॥

  2. न ते ऽभिगमनं बरह्मन मॊघम एतद भविष्यति पुत्रॊ ममायं भगवन कुवलाश्व इति समृतः ॥ 2 ॥

  3. धृतिमान कषिप्रकारी च वीर्येणाप्रतिमॊ भुवि परियं वै सर्वम एतत ते करिष्यति न संशयः ॥ 3 ॥

  4. पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः विसर्जयस्व मां बरह्मन नयस्तशस्त्रॊ ऽसमि सांप्रतम ॥ 4 ॥

  5. तथास्त्व इति च तेनॊक्तॊ मुनिनामित तेजसा स तम आदिश्य तनयम उत्तङ्काय महात्मने करियताम इति राजर्षिर जगाम वनम उत्तमम ॥ 5 ॥

  6. [य] क एष भगवन दैत्यॊ महावीर्यस तपॊधन कस्य पुत्रॊ ऽथ नप्ता वा एतद इच्छामि वेदितुम ॥ 6 ॥

  7. एवं महाबलॊ दैत्यॊ न शरुतॊ मे तपॊधन एतद इच्छामि भगवन याथातथ्येन वेदितुम सर्वम एव महाप्राज्ञ विस्तरेण तपॊधन ॥ 7 ॥

  8. [मार्क] शृणु राजन्न इदं सर्वं यथावृत्तं नराधिप एकार्णवे तदा घॊरे नष्टे सथावरजङ्गमे परनष्टेषु च भूतेषु सर्वेषु भरतर्षभ ॥ 8 ॥

  9. परभवः सर्वभूतानां शाश्वतः पुरुषॊ ऽवययः सुष्वाप भगवान विष्णुर अप शय्याम एक एव ह नागस्य भॊगे महति शेषस्यामित तेजसः ॥ 9 ॥

  10. लॊककर्ता महाभाग भगवान अच्युतॊ हरिः नागभॊगेन महता परिरभ्य महीम इमाम ॥ 10 ॥

  11. सवपतस तस्य देवस्य पद्मं सूर्यसमप्रभम नाभ्यां विनिःसृतं तत्र यत्रॊत्पन्नः पितामहः साक्षाल लॊकगुरुर बरह्मा पद्मे सूर्येन्दुसप्रभे ॥ 11 ॥

  12. चतुर्वेदश चतुर्मूर्तिस तथैव च चतुर्मुखः सवप्रभावाद दुराधर्षॊ महाबलपराक्रमः ॥ 12 ॥

  13. कस्य चित तव अथ कालस्य दानवौ वीर्यवत्तरौ मधुश च कैटभश चैव दृष्टवन्तौ हरिं परभुम ॥ 13 ॥

  14. शयानं शयने दिव्ये नागभॊगे महाद्युतिम बहुयॊजनविस्तीर्णे बहु यॊगनम आयते ॥ 14 ॥

  15. किरीटकौस्तुभ धरं पीतकौशेयवाससम दीप्यमानं शरिया राजंस तेजसा वपुषा तथा सहस्रसूर्यप्रतिमम अद्भुतॊपमदर्शनम ॥ 15 ॥

  16. विस्मयः सुमहान आसीन मधुकैटभयॊस तदा दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम ॥ 16 ॥

  17. वित्रासयेताम अथ तौ बरह्माणम अमितौजसम वित्रस्यमानॊ बहुशॊ बरह्मा ताभ्यां महायशः अकम्पयत पद्मनालं ततॊ ऽबुध्यत केशवः ॥ 17 ॥

  18. अथापश्यत गॊविन्दॊ दानवौ वीर्तवत्तरौ दृष्ट्वा ताव अब्रवीद देवः सवागतं वां महाबलौ ददानि वां वरं शरेष्ठं परीतिर हि मम जायते ॥ 18 ॥

  19. तौ परहस्य हृषीकेशं महावीर्यौ महासुरौ परत्यब्रूतां महाराज सहितौ मधुसूदनम ॥ 19 ॥

  20. आवां वरय देव तवं वरदौ सवः सुरॊत्तम दातारौ सवॊ वरं तुभ्यं तद बरवीह्य अविचारयन ॥ 20 ॥

  21. [भग] परतिगृह्णे वरं वीराव ईप्सितश च वरॊ मम युवां हि वीर्यसंपन्नौ न वाम अस्ति समः पुमान ॥ 21 ॥

  22. वध्यत्वम उपगच्छेतां मम सत्यपराक्रमौ एतद इच्छाम्य अहं कामं पराप्तुं लॊकहिताय वै ॥ 22 ॥

  23. [म-क] अनृतं नॊक्तपूर्वं नौ सवैरेष्व अपि कुतॊ ऽनयथा सत्ये धर्मे च निरतौ विद्ध्य आवां पुरुषॊत्तम ॥ 23 ॥

  24. बले रूपे च वीर्ये च शमे च न समॊ ऽसति नौ धर्मे तपसि दाने च शीलसत्त्वदमेषु च ॥ 24 ॥

  25. उपप्लवॊ महान अस्मान उपावर्तत केशव उक्तं परतिकुरुष्व तवं कालॊ हि दुरतिक्रमः ॥ 25 ॥

  26. आवाम इच्छावहे देवकृतम एकं तवया विभॊ अनावृते ऽसमिन्न आकाशे वधं सुरवरॊत्तम ॥ 26 ॥

  27. पुत्रत्वम अभिगच्छाव तव चैव सुलॊचन वर एष वृतॊ देव तद विद्धि सुरसत्तम ॥ 27 ॥

  28. [भग] बाढम एवं करिष्यामि सर्वम एतद भविष्यति ॥ 28 ॥

  29. [म-क] विचिन्त्य तव अथ गॊविन्दॊ नापश्यद यद अनावृतम अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः ॥ 29 ॥

  30. सवकाव अनावृताव ऊरू दृष्ट्वा देववरस तदा मधुकैटभयॊ राजञ शिरसी मधुसूदनः चक्रेण शितधारेण नयकृन्तत महायशः ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 195

Previous: अध्याय 193