धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 193

  1. [मार्क] इक्ष्वाकौ संस्थिते राजञ शशादः पृथिवीम इमाम पराप्तः परमधर्मात्मा सॊ ऽयॊध्यायां नृपॊ ऽभवत ॥ 1 ॥

  2. शशादस्य तु दायादः ककुत्स्थॊ नाम वीर्यवान अनेनाश चापि काकुत्स्थः पृथुश चानेनसः सुतः ॥ 2 ॥

  3. विष्वगश्वः पृथॊःपुत्रस तस्माद आर्द्रस तु जज्ञिवान आर्द्रस्य युवनाश्वस तु शरावस्तस तस्य चात्मजः ॥ 3 ॥

  4. जज्ञे शरावस्तकॊ राजा शरावस्ती येन निर्मिता शरावस्तस्य तु दायादॊ बृहदश्वॊ महाबलः बृहदश्व सुतश चापि कुवलाश्व इति समृतः ॥ 4 ॥

  5. कुवलाश्वस्य पुत्राणां सहस्राण्य एकविंशतिः सर्वे विद्यासु निष्णाता बलवन्तॊ दुरासदाः ॥ 5 ॥

  6. कुवलाश्वस तु पितृतॊ गुनैर अभ्यधिकॊ ऽभवत समये तं ततॊ राज्ये बृहदश्वॊ ऽभयषेचयत कुवलाश्वं महाराज शूरम उत्तमधार्मिकम ॥ 6 ॥

  7. पुत्र संक्रामित शरीस तु बृहदश्वॊ महीपतिः जगाम तपसे धीमांस तपॊवनम अमित्रहा ॥ 7 ॥

  8. अथ शुश्राव राजर्षिं तम उत्तङ्कॊ युधिष्ठिर वनं संप्रस्थितं राजन बृहदश्वं दविजॊत्तमः ॥ 8 ॥

  9. तम उत्तङ्कॊ महातेजा सर्वास्त्रविदुषां वरम नयवारयद अमेयात्मा समासाद्य नरॊत्तमम ॥ 9 ॥

  10. [उत्तन्क] भवता रक्षणं कार्यं तत तावत कर्तुम अर्हसि निरुद्विग्ना वयं राजंस तवत्प्रसादाद वसेमहि ॥ 10 ॥

  11. तवया हि पृथिवी राजन रक्ष्यमाणा महात्मना भविष्यति निरुद्विग्ना नारण्यं गन्तुम अर्हसि ॥ 11 ॥

  12. पालने हि महान धर्मः परजानाम इह दृश्यते न तथा दृश्यते ऽरण्ये मा ते भूद बुद्धिर ईदृशी ॥ 12 ॥

  13. ईदृशॊ न हि राजेन्द्र धर्मः कव चन दृश्यते परजानां पालने यॊ वै पुरा राजर्षिभिः कृतः रक्षितव्याः परजा राज्ञा तास तवं रक्षितुम अर्हसि ॥ 13 ॥

  14. निरुद्विग्नस तपॊ चर्तुं न हि शक्नॊमि पार्थिव ममाश्रमसमीपे वै समेषु मरुधन्वसु ॥ 14 ॥

  15. समुद्रॊ बालुका पूर्ण उजानक इति समृतः बहुयॊजनविस्तीर्णॊ बहुयॊजनम आयतः ॥ 15 ॥

  16. तत्र रौद्रॊ दानवेन्द्रॊ महावीर्यपराक्रमः मधुकैटभयॊः पुत्रॊ धुन्धुर नाम सुदारुणः ॥ 16 ॥

  17. अन्तर्भूमि गतॊ राजन वसत्य अमितविक्रमः तं निहत्य महाराज वनं तवं गन्तुम अर्हसि ॥ 17 ॥

  18. शेते लॊकविनाशाय तप आस्थाय दारुणम तरिदशानां विनाशाय लॊकानां चापि पार्थिव ॥ 18 ॥

  19. अवध्यॊ देवतानां स दैत्यानाम अथ रक्षसाम नागानाम अथ यक्षाणां गन्धर्वाणां च सर्वशः अवाप्य स वरं राजन सर्वलॊकपितामहात ॥ 19 ॥

  20. तं विनाशय भद्रं ते मा ते बुद्धिर अतॊ ऽनयथा पराप्स्यसे महतीं कीर्तिं शाश्वतीम अव्ययां धरुवाम ॥ 20 ॥

  21. करूरस्य सवपतस तस्य वालुकान्तर्हितस्य वै संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्तते यदा तदा भूश चलति सशैलवनकानना ॥ 21 ॥

  22. तस्य निःश्वासवातेन रज उद्धूयते महत आदित्यपथम आवृत्य सप्ताहं भूमिकम्पनम सविस्फुलिङ्गं सज्वालं सधूमं हय अति दारुणम ॥ 22 ॥

  23. तेन राजन न शक्नॊमि तस्मिन सथातुं सव आश्रमे तं विनाशय राजेन्द्र लॊकानां हितकाम्यया लॊकाः सवस्था भवन्त्व अद्य तस्मिन विनिहते ऽसुरे ॥ 23 ॥

  24. तवं हि तस्य विनाशाय पर्याप्त इति मे मतिः तेजसा तव तेजॊ च विष्णुर आप्याययिष्यति ॥ 24 ॥

  25. विष्णुना च वरॊ दत्तॊ मम पूर्वं ततॊ वधे यस तं महासुरं रौद्रं वधिष्यति महीपतिः तेजस तं वैष्णवम इति परवेक्ष्यति दुरासदम ॥ 25 ॥

  26. तत तेजस तवं समाधाय राजेन्द्र भुवि दुःसहम तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम ॥ 26 ॥

  27. न हि धुन्धुर महातेजा तेजसाल्पेन शक्यते निर्दग्धुं पृथिवीपाल स हि वर्षशतैर अपि ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 194

Previous: अध्याय 192