[वै] मार्कण्डेयम ऋषयः पाण्डवाश च पर्यपृच्छन अस्ति कश चिद भवतश चिरजाततरेति ॥ 1 ॥
स तान उवाच अस्ति खलु राजर्षिर इन्द्रद्युम्नॊ नाम कषीणपुण्यस तरिदिवात परच्युतः कीर्तिस ते वयुच्छिन्नेति स माम उपातिष्ठत अथ परत्यभिजानाति मां भवान इति ॥ 2 ॥
तम अहम अब्रुवम न वयं रासायनिकाः शरीरॊपतापेनात्मनः समारभामहे ऽरथानाम अनुष्ठानम ॥ 3 ॥
अस्ति खलु हिमवति पराकारकर्णॊ नामॊलूकः स भवन्तं यदि जानीयात परकृष्टे चाध्वनि हिमवान तत्रासौ परतिवसतीति ॥ 4 ॥
स माम अश्वॊ भूत्वा तत्रावहद यत्र बभूवॊलूकः ॥ 5 ॥
अथैनं स राजर्षिः पर्यपृच्छत परत्यभिजानाति मां भवान इति ॥ 6 ॥
स मुहूर्तं धयात्वाब्रवीद एनम नाभिजाने भवन्तम इति ॥ 7 ॥
सैवम उक्तॊ राजर्षिर इन्द्रद्युमः पुनस तम उलूकम अब्रवीत अस्ति कश चिद भवतश चिरजाततरेति ॥ 8 ॥
सैवम उक्तॊ ऽबरवीद एनम अस्ति खल्व इन्द्रद्युम्नसरॊ नाम तस्मिन नाडीजङ्घॊ नाम बकः परतिवसति सॊ ऽसमत्तश चिरजाततरः तं पृच्छेति ॥ 9 ॥
ततेन्द्रद्युम्नॊ मां चॊलूकं चादाय तत सरॊ ऽगच्छद यत्रासौ नाडीजङ्घॊ नाम बकॊ बभूव ॥ 10 ॥
सॊ ऽसमाभिः पृष्टः भवान इन्द्रद्युनं राजानं परत्यभिजानातीति ॥ 11 ॥
सैवम उक्तॊ ऽबरवीन मुहूर्तं धयात्वा नाभिजानाम्य अहम इन्द्रद्युम्नं राजानम इति ॥ 12 ॥
ततः सॊ ऽसमाभिः पृष्टः अस्ति कश चिद अन्यॊ भवतश चिरजाततरेति ॥ 13 ॥
स नॊ ऽबरवीद अस्ति खल्व इहैव सरस्य अकूपारॊ नाम कच्छपः परतिवसति स मत्तश चिरजाततरेति स यदि कथं चिद अभिजानीयाद इमं राजानं तम अकूपारं पृच्छामेति ॥ 14 ॥
ततः स बकस तम अकूपारं कच्छपं विज्ञापयाम आस अस्त्य अस्माकम अभिप्रेतं भवन्तं कं चिद अर्थम अभिप्रष्टुम साध्व आगम्यतां तावद इति ॥ 15 ॥
एतच छरुत्वा स कच्छपस तस्मात सरसॊत्थायाभ्यगच्छद यत्र तिष्ठामॊ वयं तस्य सरसस तीरे ॥ 16 ॥
आगतं चैनं वयम अपृच्छाम भवान इन्द्रद्युम्नं राजानम अभिजानातीति ॥ 17 ॥
स मुहूर्तं धयात्वा बाष्पपूर्णनयन उद्विग्नहृदयॊ वेपमानॊ विसंज्ञकल्पः पराञ्जलिर अब्रवीत किम अहम एनं न परत्यभिजानामि अहं हय अनेन सहस्रकृत्वः पूर्वम अग्निचितिषूपहित पूर्वः सरश चेदम अस्य दक्षिणादत्ताभिर गॊभिर अतिक्रममाणाभिः कृतम अत्र चाहं परतिवसामीति ॥ 18 ॥
अथैतत कच्छपेनॊदाहृतं शरुत्वा समनन्तरं देवलॊकाद देव रथः परादुरासीत ॥ 19 ॥
वाचॊ चाश्रूयन्तेन्द्रद्युम्नं परति परस्तुतस ते सवर्गः यथॊचितं सथानम अभिपद्यस्व कीर्तिमान असि अव्यग्रॊ याहीति ॥ 20 ॥
दिवं सपृशति भूमिं च शब्दः पुण्यस्य कर्मणः यावत स शब्दॊ भवति तावत पुरुष उच्यते ॥ 21 ॥
अकीर्तिः कीर्त्यते यस्य लॊके भूतस्य कस्य चित पतत्य एवाधमाँल लॊकान यावच छब्दः स कीर्त्यते ॥ 22 ॥
तस्मात कल्याण वृत्तः सयाद अत्यन्ताय नरॊ भुवि विहाय वृत्तं पापिष्ठं धर्मम एवाभिसंश्रयेत ॥ 23 ॥
इत्य एतच छरुत्वा स राजाब्रवीत तिष्ठ तावद यावद इदानीम इमौ वृद्धौ यथास्थानं परतिपादयामीति ॥ 24 ॥
स मां पराकारकर्णं चॊलूकं यथॊचिते सथाने परतिपाद्य तेनैव यानेन संसिद्धॊ यथॊचितं सथानं परतिपन्नः ॥ 25 ॥
एतन मयानुभूतं चिरजीविना दृष्टम इति पाण्डवान उवाच मार्कण्डेयः ॥ 26 ॥
पाण्डवाश चॊचुः परीताः साधु शॊभनं कृतं भवता राजानम इन्द्रद्युम्नं सवर्गलॊकाच चयुतं सवे सथाने सवर्गे पुनः परतिपादयतेति ॥ 27 ॥
अथैनाम अब्रवीद असौ ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानॊ राजर्षिर नृगस तस्मात कृच्छ्रात समुद्धृत्य पुनः सवर्गं परतिपादितेति ॥ 28 ॥
वनपर्व · Vana Parva
अध्याय 191
Reach this point to mark the section finished.
Continue to अध्याय 192