धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 190

  1. [वै] भूय एव बराह्मणमहाभाग्यं वक्तुम अर्हसीत्य अब्रवीत पाण्डवेयॊ मार्कण्डेयम ॥ 1 ॥

  2. अथाचष्ट मार्कण्डेयः ॥ 2 ॥

  3. अयॊध्यायाम इक्षुवाकु कुलॊत्पन्नः पार्थिवः परिक्षिन नाम मृगयाम अगमत ॥ 3 ॥

  4. तम एकाश्वेन मृगम अनुसरन्तं मृगॊ दूरम अपाहरत ॥ 4 ॥

  5. अथाध्वनि जातश्रमः कषुत्तृष्णाभिभूतश च कस्मिंश चिद उद्देशे नीलं वनषण्डम अपश्यत तच च विवेश ॥ 5 ॥

  6. ततस तस्य वनषण्डस्य मध्ये ऽतीव रमणीयं सरॊ दृष्ट्वा साश्वैव वयगाहत ॥ 6 ॥

  7. अथाश्वस्तः स बिस मृणालम अश्वस्याग्रे निक्षिप्य पुष्करिणी तीरे समाविशत ॥ 7 ॥

  8. ततः शयानॊ मधुरं गीतशब्दम अशृणॊत ॥ 8 ॥

  9. स शरुत्वा अचिन्तयत नेह मनुष्यगतिं पश्यामि कस्य खल्व अयं गीतशब्देति ॥ 9 ॥

  10. अथापश्यत कन्यां परमरूपदर्शनीयां पुष्पाण्य अवचिन्वतीं गायन्तीं च ॥ 10 ॥

  11. अथ सा राज्ञः समीपे पर्यक्रामत ॥ 11 ॥

  12. ताम अब्रवीद राजा कस्यासि सुभगे तवम इति ॥ 12 ॥

  13. सा परत्युवाच ॥ 13 ॥

  14. तां राजॊवाच अर्थी तवयाहम इति ॥ 14 ॥

  15. अथॊवाच कन्या समयेनाहं शक्या तवया लब्धुम नान्यथेति ॥ 15 ॥

  16. तां राजा समयम अपृच्छत ॥ 16 ॥

  17. ततः कन्येदम उवाच उदकं मे न दर्शयितव्यम इति ॥ 17 ॥

  18. स राजा बाढम इत्य उक्त्वा तां समागम्य तया सहास्ते ॥ 18 ॥

  19. तत्रैवासीने राजनि सेनान्वगच्छत पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत ॥ 19 ॥

  20. पर्याश्वस्तश च राजा तयैव सह शिबिकया परायाद अविघाटितया सवनगरम अनुप्राप्य रहसि तया सह रमन्न आस्ते नान्यत किं चनापश्यत ॥ 20 ॥

  21. अथ परधानामात्यस तस्याभ्याश चराः सत्रियॊ ऽपृच्छत किम अत्र परयॊजनं वर्ततेति ॥ 21 ॥

  22. अथाब्रुवंस ताः सत्रियः अपूर्वम इव पश्यामॊदकं नात्र नीयतेति ॥ 22 ॥

  23. अथामात्यॊ ऽनुदकं वनं कारयित्वॊदार वृक्षं बहुमूलपुष्पफलं रहस्य उपगम्य राजानम अब्रवीत वनम इदम उदारम अनुदकम साध्व अत्र रम्यताम इति ॥ 23 ॥

  24. स तस्य वचनात तयैव सहदेव्या तद वनं पराविशत स कदा चित तस्मिन वने रम्ये तयैव सह वयवहरत अथ कषुत तृष्णार्दितः शरान्तॊ ऽतिमात्रम अतिमुक्तागारम अपश्यत ॥ 24 ॥

  25. तत परविश्य राजा सह परियया सुधा तलसुकृतां विमलसलिलपूर्णां वापीम अपश्यत ॥ 25 ॥

  26. दृष्ट्वैव च तां तस्यैव तीरे सहैव तया देव्या वयतिष्ठत ॥ 26 ॥

  27. अथ तां देवीं स राजाब्रवीत साधुव अवतर वापी सलिलम इति ॥ 27 ॥

  28. सा तद वचॊ शरुत्वावतीर्य वापीं नयमज्जत न पुनर उदमज्जत ॥ 28 ॥

  29. तां मृगयमाणॊ राजा नापश्यत ॥ 29 ॥

  30. वापीम अपि निःस्राव्य मण्डूकं शवभ्रमुखे दृष्ट्वा करुद्धाज्ञापयाम आस सर्वमण्डूक वधः करियताम इति यॊ मयार्थी स मृतकरि मण्डूकैर उपायनैर माम उपतिष्ठेद इति ॥ 30 ॥

  31. अथ मण्डूकवधे घॊरे करियमाणे दिक्षु सर्वासु मण्डूकान भयम आविशत ते भीता मण्डूकराज्ञे यथावृत्तं नयवेदयन ॥ 31 ॥

  32. ततॊ मण्डूकराट तापस वेषधारी राजानम अभ्यगच्छत ॥ 32 ॥

  33. उपेत्य चैनम उवाच मा राजन करॊधवशं गमः परसादं कुरु नार्हसि मण्डूकानाम अनपराधिनां वधं कर्तुम इति ॥ 33 ॥

  34. शलॊकौ चात्र भवतः मा मण्डूकाञ जिघांस तवं कॊपं संधार्ययाच्युत परक्षीयते धनॊद्रेकॊ जनानाम अविजानताम ॥ 34 ॥

  35. परतिजानीहि नैतांस तवं पराप्य करॊधं विमॊक्ष्यसे अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर हि ते ॥ 35 ॥

  36. तम एवं वादिनम इष्टजनशॊकपरीतात्मा राजा परॊवाच न हि कषम्यते तन मया हनिष्याम्य एतान एतैर दुरात्मभिः परिया मे भक्षिता सर्वथैव मे वध्या मण्डूकाः नार्हसि विद्वन माम उपरॊद्धुम इति ॥ 36 ॥

  37. स तद वाक्यम उपलभ्य वयथितेन्द्रिय मनः परॊवाच परसीद राजन अहम आयुर नाम मण्डूकराजः मम सा दुहिता सुशॊभना नाम तस्या दौःशील्यम एतत बहवॊ हि राजानस तया विप्रलब्ध पूर्वेति ॥ 37 ॥

  38. तम अब्रवीद राजा तयास्म्य अर्थी स मे दीयताम इति ॥ 38 ॥

  39. अथैनां राज्ञे पितादात अब्रवीच चैनाम एनं राजानं शुश्रूषस्वेति ॥ 39 ॥

  40. सॊवाच दुहितरम यस्मात तवया राजानॊ विप्रलब्धास तस्माद अब्रह्मण्यानि तवापत्यानि भविष्यन्त्य अनृतकत्वात तवेति ॥ 40 ॥

  41. स च राजा ताम उपलभ्य तस्यां सुरत गुणनिबद्धहृदयॊ लॊकत्रयैश्वर्यम इवॊपलभ्य हर्षबाष्पकलया वाच परणिपत्याभिपूज्य मण्डूकराजानम अब्रवीत अनुगृहीतॊ ऽसमीति ॥ 41 ॥

  42. स च मण्डूकराजॊ जामातरम अनुज्ञाप्य यथागतम अगच्छत ॥ 42 ॥

  43. अथ कस्य चित कालस्य तस्यां कुमारास तरयस तस्य राज्ञः संबभूवुः शलॊ दलॊ बलश चेति ततस तेषां जयेष्ठं शलं समये पिता राज्ये ऽभिषिच्य तपसि धृतात्मा वनं जगाम ॥ 43 ॥

  44. अथ कदा चिच छिलॊ मृगयाम अचरत मृगं चासाद्य रथेनान्वधावत ॥ 44 ॥

  45. सूतं चॊवाच शीघ्रं मां वहस्वेति ॥ 45 ॥

  46. स तथॊक्तः सूतॊ राजानम अब्रवीत मा करियताम अनुबन्धः नैष शक्यस तवया मृगॊ गरहीतुं यद्य अपि ते रथे युक्तौ वाम्य सयाताम इति ॥ 46 ॥

  47. ततॊ ऽबरवीद राजा सूतम आचक्ष्व मे वाम्य हन्मि वा तवाम इति ॥ 47 ॥

  48. सैवम उक्तॊ राजभयभीतॊ वामदेव शापभीतश च सन्न आचख्यौ राज्ञे वामदेवस्याश्वौ वाम्य मनॊजवाव इति ॥ 48 ॥

  49. अथैनम एवं बरुवाणम अब्रवीद राजा वामदेवाश्रमं याहीति ॥ 49 ॥

  50. स गत्वा वामदेवाश्रमं तम ऋषिम अब्रवीत भगवन मृगॊ मया विद्धः पालयते तं संभावयेयम अर्हसि मे वाम्य दातुम इति ॥ 50 ॥

  51. तम अब्रवीद ऋषिः ददानि ते वाम्य कृतकार्येण भवता ममैव निर्यात्यौ कषिप्रम इति ॥ 51 ॥

  52. स च ताव अश्वौ परतिगृह्यानुज्ञाप्य चर्षिं परायाद वाम्य संयुक्तेन रथेन मृगं परति गच्छंश चाब्रवीत सूतम अश्वरत्नाव इमाव अयॊग्यौ बराह्मणानाम नैतौ परतिदेयौ वामदेवायेति ॥ 52 ॥

  53. एवम उक्त्वा मृगम अवाप्य सवनगरम एत्याश्वावन्तःपुरे ऽसथापयत ॥ 53 ॥

  54. अथर्षिश चिन्तयाम आस तरुणॊ राजपुत्रः कल्याणं पत्रम आसाद्य रमते न मे परतिनिर्यातयति अहॊ कष्टम इति ॥ 54 ॥

  55. मनसा निश्चित्य मासि पूर्णे शिष्यम अब्रवीत गच्छात्रेय राजानं बरूहि यदि पर्याप्तं निर्यातयॊपाध्याय वाम्येति ॥ 55 ॥

  56. स गत्वैवं तं राजानम अब्रवीत ॥ 56 ॥

  57. तं राजा परत्युवाच राज्ञाम एतद वाहनम अनर्हा बराह्मणा रत्नानाम एवंविधानाम किं च बराह्मणानाम अश्वैः कार्यम साधु परतिगम्यताम इति ॥ 57 ॥

  58. स गत्वैवम उपाध्यायायाचष्ट ॥ 58 ॥

  59. तच छरुत्वा वचनम अप्रियं वामदेवः करॊधपरीतात्मा सवयम एव राजानम अभिगम्याश्वार्थम अभ्यचॊदयत न चादाद राजा ॥ 59 ॥

  60. [वाम] परयच्छ वाम्यौ मम पार्थिव तवं; कृतं हि ते कार्यम अन्यैर अशक्यम मा तवा वधीद वरुणॊ घॊरपाशैर; बरह्मक्षत्रस्यान्तरे वर्तमानः ॥ 60 ॥

  61. [राजा] अनड्वाहौ सुव्रतौ साधु दान्ताव; एतद विप्राणां वाहनं वामदेव ताभ्यां याहि तवं यत्र कामॊ महर्षे; छन्दांसि वै तवादृशं संवहन्ति ॥ 61 ॥

  62. [वाम] छन्दांसि वै मादृशं संवहन्ति; लॊके ऽमुष्मिन पार्थिव यानि सन्ति अस्मिंस तु लॊके मम यानम एतद; अस्मद्विधानाम अपरेषां च राजन ॥ 62 ॥

  63. [राजा] चत्वारॊ वा गर्दभास तवां वहन्तु; शरेष्ठाश्वतर्यॊ हरयॊ वा तुरंगाः तैस तवं याहि कषत्रियस्यैष वाहॊ; मम वाम्यौ न तवैतौ हि विद्धि ॥ 63 ॥

  64. [वाम] घॊरं वरतं बराह्मणस्यैतद आहुर; एतद राजन यद इहाजीवमानः अयस्मया घॊररूपा महान्तॊ; वहन्तु तवां शितशूलाश चतुर्धा ॥ 64 ॥

  65. [राजा] ये तवा विदुर बराह्मणं वामदेव; वाचा हन्तुं मनसा कर्मणा वा ते तवां सशिष्यम इह पातयन्तु; मद्वाक्यनुन्नाः शितशूलासि हस्ताः ॥ 65 ॥

  66. [वाम] नानुयॊगा बराह्मणानां भवन्ति; वाचा राजन मनसा कर्मणा वा यस तव एवं बरह्म तपसान्वेति; विद्वांस तेन शरेष्ठॊ भवति हि जीवमानः ॥ 66 ॥

  67. [मार्क] एवम उक्ते वामदेवेन राजन; समुत्तस्थू राक्षसा घॊररूपाः तैः शूलहस्तैर वध्यमानः स राजा; परॊवाचेदं वाक्यम उच्चैस तदानीम ॥ 67 ॥

  68. इक्ष्वाकवॊ यदि बरह्मन दलॊ वा; विधेया मे यदि वान्ये विशॊ ऽपि नॊत्स्रक्ष्ये ऽहं वामदेवस्य वाम्यौ; नैवंविधा धर्मशीला भवन्ति ॥ 68 ॥

  69. एवं बरुवन्न एव स यातुधानैर; हतॊ जगामाशु महीं कषितीशः ततॊ विदित्वा नृपतिं निपातितम; इक्ष्वाकवॊ वै दलम अभ्यषिञ्चन ॥ 69 ॥

  70. राज्ये तदा तत्र गत्वा स विप्रः; परॊवाचेदं वचनं वामदेवः दलं राजानं बराह्मणानां हि देयम; एवं राजन सर्वधर्मेषु दृष्टम ॥ 70 ॥

  71. बिभेषि चेत तवम अधर्मान नरेन्द्र; परयच्छ मे शीघ्रम एवाद्य वाम्यौ एतच छरुत्वा वामदेवस्य वाक्यं; स पार्थिवः सूतम उवाच रॊषात ॥ 71 ॥

  72. एकं हि मे सायकं चित्ररूपं; दिग्धं विषेणाहर संगृहीतम येन विद्धॊ वामदेवः शयीत; संदश्यमानः शवभिर आर्तरूपः ॥ 72 ॥

  73. [वाम] जानामि पुत्रं दशवर्षं तवाहं; जातं महिष्यां शयेनजितं नरेन्द्र तं जहि तवं मद्वचनात परणुन्नस; तूर्णं परियं सायकैर घॊररूपैः ॥ 73 ॥

  74. [मार्क] एवम उक्तॊ वामदेवेन राजन्न; अन्तःपुरे राजपुत्रं जघान स सायकस तिग्मतेजा विसृष्टः; शरुत्वा दलस तच च वाक्यं बभाषे ॥ 74 ॥

  75. इक्ष्वाकवॊ हन्त चरामि वः परियं; निहन्मीमं विप्रम अद्य परमथ्य आनीयताम अपरस तिग्मतेजाः; पश्यध्वं मे वीर्यम अद्य कषितीशाः ॥ 75 ॥

  76. [वाम] यं तवम एनं सायकं घॊररूपं; विषेण दिग्धं मम संदधासि न तवम एनं शरवर्यं विमॊक्तुं; संधातुं वा शक्ष्यसि मानवेन्द्र ॥ 76 ॥

  77. [राजा] इक्ष्वाकवः पश्यत मां गृहीतं; न वै शक्नॊम्य एष शरं विमॊक्तुम न चास्य कर्तुं नाशम अभ्युत्सहामि; आयुष्मान वै जीवतु वामदेवः ॥ 77 ॥

  78. [वाम] संस्पृशैनां महिषीं सायकेन; ततस तस्माद एनसॊ मॊक्ष्यसे तवम ॥ 78 ॥

  79. [मार्क] ततस तथा कृतवान पार्थिवस तु; ततॊ मुनिं राजपुत्री बभाषे यथा युक्तं वामदेवाहम एनं; दिने दिने संविशन्ती वयशंसम बराह्मणेभ्यॊ मृगयन्ती सूनृतानि; तथा बरह्मन पुण्यलॊकं लभेयम ॥ 79 ॥

  80. [वाम] तवया तरातं राजकुलं शुभेक्षणे; वरं वृणीष्वाप्रतिमं ददानि ते परशाधीमं सवजनं राजपुत्रि; इक्ष्वाकुराज्यं सुमहच चाप्य अनिन्द्ये ॥ 80 ॥

  81. [राजपुत्री] वरं वृणे भगवन्न एकम एव; विमुच्यतां किल्बिषाद अद्य भर्ता शिवेन चाध्याहि सपुत्रबान्धवं; वरॊ वृतॊ हय एष मया दविजाग्र्य ॥ 81 ॥

  82. [मार्क] शरुत्वा वचॊ स मुनी राजपुत्र्यास; तथास्त्व इति पराह कुरुप्रवीर ततः स राजा मुदितॊ बभूव; वाम्यौ चास्मै संप्रददौ परणम्य ॥ 82 ॥

Reach this point to mark the section finished.

Continue to अध्याय 191

Previous: अध्याय 189