धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 189

  1. [मार्क] ततश चॊरक्षयं कृत्वा दविजेभ्यः पृथिवीम इमाम वाजिमेधे महायज्ञे विधिवत कल्पयिष्यति ॥ 1 ॥

  2. सथापयित्वा स मर्यादाः सवयम्भुविहिताः शुभाः वनं पुण्ययशः कर्मा जरावान संश्रयिष्यति ॥ 2 ॥

  3. तच छीलम अनुवर्त्स्यन्ते मनुष्या लॊकवासिनः विप्रैश चॊरक्शये चैव कृते कषेमं भविश्यते ॥ 3 ॥

  4. कृष्णाजिनानि शक्तीश च तरिशूलान्य आयुधानि च सथापयन विप्र शार्दूलॊ देशेषु विजितेषु च ॥ 4 ॥

  5. संस्तूयमानॊ विप्रेन्द्रैर मानयानॊ दविजॊत्तमान कल्किश चरिष्यति महीं सदा दस्यु वधे रतः ॥ 5 ॥

  6. हा तात हा सुतेत्य एवं तास ता वाचः सुदारुणाः विक्रॊशमानान सुभृशं दस्यून नेष्यति संशयम ॥ 6 ॥

  7. ततॊ ऽधर्मविनाशॊ वै धर्मवृद्धिश च भारत भविष्यति कृते पराप्ते करियावांश च जनस तथा ॥ 7 ॥

  8. आरामाश चैव चैत्याश च तटाकान्य अवटास तथा यज्ञक्रियाश च विविधा भविष्यन्ति कृते युगे ॥ 8 ॥

  9. बराह्मणाः साधवश चैव मुनयश च तपस्विनः आश्रमाः सह पाषण्डाः सथिताः सत्ये जनाः परजाः ॥ 9 ॥

  10. जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह सर्वेष्व ऋतुषु राजेन्द्र सर्वं सस्यं भविष्यति ॥ 10 ॥

  11. नरा दानेषु निरता वरतेषु नियमेषु च जपयज्ञपरा विप्रा धर्मकामा मुदा युताः पालयिष्यन्ति राजानॊ धर्मेणेमां वसुंधराम ॥ 11 ॥

  12. वयवहार रता वैश्या भविष्यन्ति कृते युगे षष कर्मनिरता विप्राः कषत्रिया रक्षणे रताः ॥ 12 ॥

  13. शुश्रूषायां रताः शूद्रास तथा वर्णत्रयस्य च एष धर्मः कृतयुगे तरेतायां दवापरे तथा पश्चिमे युगकाले च यः स ते संप्रकीर्तितः ॥ 13 ॥

  14. सर्वलॊकस्य विदिता युगसंख्या च पाण्डव एतत ते सर्वम आख्यातम अतीतानागतं मया वायुप्रॊक्तम अनुस्मृत्य पुराणम ऋषिसंस्तुतम ॥ 14 ॥

  15. एवं संसारमार्गा मे बहुशश चिरजीविना दृष्टाश चैवानुभूताश च तांस ते कथितवान अहम ॥ 15 ॥

  16. इदं चैवापरं भूयॊ सह भरातृभिर अच्युत धर्मसंशय मॊक्षार्थं निबॊध वचनं मम ॥ 16 ॥

  17. धर्मे तवयात्मा संयॊज्यॊ नित्यं धर्मभृतां वर धर्मात्मा हि सुखं राजा परेत्य चेह च नन्दति ॥ 17 ॥

  18. निबॊध च शुभां वाणीं यां परवक्ष्यामि ते ऽनघ न बराह्मणे परिभवः कर्तव्यस ते कदा चन बराह्मणॊ रुषितॊ हन्याद अपि लॊकान परतिज्ञया ॥ 18 ॥

  19. [वै] मार्कण्डेय वचॊ शरुत्वा कुरूणां परवरॊ नृपः उवाच वचनं धीमान परमं परमद्युतिः ॥ 19 ॥

  20. कस्मिन धर्मे मया सथेयं परजाः संरक्षता मुने कथं च वर्तमानॊ वै न चयवेयं सवधर्मतः ॥ 20 ॥

  21. [मार्क] दयावान सर्वभूतेषु हितॊ रक्तॊ ऽनसूयकः अपत्यानाम इव सवेषां परजानां रक्षणे रतः चर धर्मं तयजाधर्मं पितॄन देवांश च पूजय ॥ 21 ॥

  22. परमादाद यत्कृतं ते ऽभूत संयद दानेन तज जय अलं ते मानम आश्रित्य सततं परवान भव ॥ 22 ॥

  23. विजित्य पृथिवीं सर्वां मॊदमानः सुखी भव एष भूतॊ भविष्यश च धर्मस ते समुदीरितः ॥ 23 ॥

  24. न ते ऽसत्य अविदितं किं चिद अतीतानागतं भुवि तस्माद इमं परिक्लेशं तवं तात हृदि मा कृथाः ॥ 24 ॥

  25. एष कालॊ महाबाहॊ अपि सर्वदिवौकसाम मुह्यन्ति हि परजास तात कालेनाभिप्रचॊदिताः ॥ 25 ॥

  26. मा च ते ऽतर विचारॊ भूद यन मयॊक्तं तवानघ अतिशङ्क्य वचॊ हय एतद धर्मलॊपॊ भवेत तव ॥ 26 ॥

  27. जातासि परथिते वंशे कुरूणां भरतर्षभ कर्मणा मनसा वाचा सर्वम एतत समाचर ॥ 27 ॥

  28. [य] यत तवयॊक्तं दविजश्रेष्ठ वाक्यं शरुतिमनॊहरम तथा करिष्ये यत्नेन भवतः शासनं विभॊ ॥ 28 ॥

  29. न मे लॊभॊ ऽसति विप्रेन्द्र न भयं न च मत्सरः करिष्यामि हि तत सर्वम उक्तं यत ते मयि परभॊ ॥ 29 ॥

  30. [वै] शरुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः परहृष्टाः पाण्डवा राजन सहिताः शार्ङ्गधन्वना ॥ 30 ॥

  31. तथा कथां शुभां शरुत्वा मार्कण्डेयस्य धीमतः विस्मिताः समपद्यन्त पुराणस्य निवेदनात ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 190

Previous: अध्याय 188