धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 188

  1. [वै] एवम उक्तास तु ते पार्था यमौ च पुरुषर्षभौ दरौपद्या कृष्णया सार्धं नमश चक्रुर जनार्दनम ॥ 1 ॥

  2. स चैतान पुरुषव्याघ्र साम्ना परमवल्गुना सान्त्वयाम आस मानार्हान मन्यमानॊ यथाविधि ॥ 2 ॥

  3. युधिष्ठिरस तु कौन्तेयॊ मार्कण्डेयं महामुनिम पुनः पप्रच्छ साम्राज्ये भविष्यां जगतॊ गतिम ॥ 3 ॥

  4. आश्चर्यभूतं भवतः शरुतं नॊ वदतां वर मुने भार्गव यद्वृत्तं युगादौ परभवाप्ययौ ॥ 4 ॥

  5. अस्मिन कलियुगे ऽपय अस्ति पुनः कौतूहलं मम समाकुलेषु धर्मेषु किं नु शेषं भविष्यति ॥ 5 ॥

  6. किं वीर्या मानवास तत्र किमाहारविहारिणः किमायुषः किं वसना भविष्यन्ति युगक्षये ॥ 6 ॥

  7. कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम विस्तरेण मुने बरूहि विचित्राणीह भाषसे ॥ 7 ॥

  8. इत्य उक्तः स मुनिश्रेष्ठः पुनर एवाभ्यभाषत रमयन वृष्णिशार्दूलं पाण्डवांश च महामुनिः ॥ 8 ॥

  9. [मार्क] भविष्यं सर्वलॊकस्य वृत्तान्तं भरतर्षभ कलुषं कालम आसाद्य कथ्यमानं निबॊध मे ॥ 9 ॥

  10. कृते चतुष्पात सकलॊ निर्व्याजॊपाधि वर्जितः वृषः परतिष्ठितॊ धर्मॊ मनुष्येष्व अभवत पुरा ॥ 10 ॥

  11. अधर्मपादविद्धस तु तरिभिर अंशैः परतिष्ठितः तरेतायां दवापरे ऽरधेन वयामिश्रॊ धर्म उच्यते ॥ 11 ॥

  12. तरिभिर अंशैर अधर्मस तु लॊकान आक्रम्य तिष्ठति चतुर्थांशेन धर्मस तु मनुष्यान उपतिष्ठति ॥ 12 ॥

  13. आयुर वीर्यम अथॊ बुद्धिर बलं तेजॊ च पाण्डव मनुष्याणाम अनुयुगं हरसतीति निबॊध मे ॥ 13 ॥

  14. राजानॊ बराह्मणा वैश्याः शूद्राश चैव युधिष्ठिर वयाजैर धर्मं चरिष्यन्ति धर्मव्वैतंसिका नराः ॥ 14 ॥

  15. सत्यं संक्षेप्स्यते लॊके नरैः पण्डितमानिभिः सत्यहान्या ततस तेषाम आयुर अल्पं भविष्यति ॥ 15 ॥

  16. आयुषः परक्षयाद विद्यां न शक्ष्यन्त्य उपशिक्षितुम विद्या हीनान अविज्ञानाल लॊभॊ ऽपय अभिभविष्यति ॥ 16 ॥

  17. लॊभक्रॊधपरा मूढाः कामसक्ताश च मानवाः वैरबद्धा भविष्यन्ति परस्परवधेप्सवः ॥ 17 ॥

  18. बराह्मणाः कषत्रिया वैश्याः संकीर्यन्तः परस्परम शूद्र तुल्या भविष्यन्ति तपः सत्यविवर्जिताः ॥ 18 ॥

  19. अन्त्या मध्या भविष्यन्ति मध्याश चान्तावसायिनः ईदृशॊ भविता लॊकॊ युगान्ते पर्युपस्थिते ॥ 19 ॥

  20. वस्त्राणां परवरा शाणी धान्यानां कॊर दूषकाः भार्या मित्राश च पुरुषा भविष्यन्ति युगक्षये ॥ 20 ॥

  21. मत्स्यामिषेण जीवन्तॊ दुहन्तश चाप्य अजैडकम गॊषु नष्टासु पुरुषा भविष्यन्ति युगक्षये ॥ 21 ॥

  22. अन्यॊन्यं परिमुष्णन्तॊ हिंसयन्तश च मानवाः अजपा नास्तिकाः सतेना भविष्यन्ति युगक्षये ॥ 22 ॥

  23. सरित तीरेषु कुद्दालैर वापयिष्यन्ति चौषधीः ताश चाप्य अल्पफलास तेषां भविष्यन्ति युगक्षये ॥ 23 ॥

  24. शराद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः ते ऽपि लॊभसमायुक्ता भॊक्ष्यन्तीह परस्परम ॥ 24 ॥

  25. पिता पुत्रस्य भॊक्ता च पितुः पुत्रस तथैव च अतिक्रान्तानि भॊज्यानि भविष्यन्ति युगक्षये ॥ 25 ॥

  26. न वरतानि चरिष्यन्ति बराह्मणा वेद निन्दकाः न यक्ष्यन्ति न हॊष्यन्ति हेतुवादविलॊभिताः ॥ 26 ॥

  27. निम्ने कृषिं करिष्यन्ति यॊक्ष्यन्ति धुरि धेनुकाः एकहायन वत्सांश च वाहयिष्यन्ति मानवाः ॥ 27 ॥

  28. पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा निरुद्वेगॊ बृहद वादी न निन्दाम उपलप्स्यते ॥ 28 ॥

  29. मलेच्छ भूतं जगत सर्वं निश्क्रियं यज्ञवर्जितम भविष्यति निरानन्दम अनुत्सवम अथॊ तथा ॥ 29 ॥

  30. परायशः कृपणानां हि तथा बन्धुमताम अपि विधवानां च वित्तानि हरिष्यन्तीह मानवाः ॥ 30 ॥

  31. अल्पवीर्यबलाः सतब्धा लॊभमॊहपरायणाः तत्कथादानसंतुष्टा दुष्टानाम अपि मानवाः परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः ॥ 31 ॥

  32. संघातयन्तः कौन्तेय राजानः पापबुद्धयः परस्परवधॊद्युक्ता मूर्खाः पण्डितमानिनः भविष्यन्ति युगस्यान्ते कषत्रिया लॊककण्टकाः ॥ 32 ॥

  33. अरक्षितारॊ लुब्धाश च मानाहंकार दर्पिताः केवलं दण्डरुचयॊ भविष्यन्ति युगक्षये ॥ 33 ॥

  34. आक्रम्याक्रम्य साधूनां दारांश चैव धनानि च भॊक्ष्यन्ते निरनुक्रॊशा रुदताम अपि भारत ॥ 34 ॥

  35. न कन्यां याचते कश चिन नापि कन्या परदीयते सवयं गराहा भविष्यन्ति युगान्ते पर्युपस्थिते ॥ 35 ॥

  36. राजानश चाप्य असंतुष्टाः परार्थान मूढचेतसः सर्वॊपायैर हरिष्यन्ति युगान्ते पर्युपस्थिते ॥ 36 ॥

  37. मलेच्छी भूतं जगत सर्वं भविष्यति च भारत हस्तॊ हस्तं परिमुषेद युगान्ते पर्युपस्थिते ॥ 37 ॥

  38. सत्यं संक्षिप्यते लॊके नरैः पण्डितमानिभिः सथविरा बालमतयॊ बालाः सथविर बुद्धयः ॥ 38 ॥

  39. भीरवः शूरमानीनः शूरा भीरु विषादिनः न विश्वसन्ति चान्यॊन्यं युगान्ते पर्युपस्थिते ॥ 39 ॥

  40. एकाहार्यं जगत सर्वं लॊभमॊहव्यवस्थितम अधर्मॊ वर्धति महान न च धर्मः परवर्तते ॥ 40 ॥

  41. बराह्मणाः कषत्रिया वैश्या न शिष्यन्ति जनाधिप एकवर्णस तदा लॊकॊ भविष्यति युगक्षये ॥ 41 ॥

  42. न कषंस्यति पिता पुत्रं पुत्रश च पितरं तथा भार्या च पतिशुश्रूषां न करिष्यति का चन ॥ 42 ॥

  43. ये यवान्ना जनपदा गॊधूमान्नास तथैव च तान देशान संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ॥ 43 ॥

  44. सवैराहाराश च पुरुषा यॊषितश च विशां पते अन्यॊन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते ॥ 44 ॥

  45. मलेच्छ भूतं जगत सर्वं भविष्यति युधिष्ठिर न शराद्धैर हि पितॄंश चापि तर्पयिष्यन्ति मानवाः ॥ 45 ॥

  46. न कश चित कस्य चिच छरॊता न कश चित कस्य चिद गुरुः तमॊ गरस्तस तदा लॊकॊ भविष्यति नराधिप ॥ 46 ॥

  47. परमायुश च भविता तदा वर्षाणि षॊडश ततः पराणान विमॊक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ 47 ॥

  48. पञ्चमे वाथ षष्ठे वा वर्षे कन्या परसूयते सप्त वर्षाष्ट वर्षाश च परजास्यन्ति नरास तदा ॥ 48 ॥

  49. पत्यौ सत्री तु तदा राजन पुरुषॊ वा सत्रियं परति युगान्ते राजशार्दूल न तॊषम उपयास्यति ॥ 49 ॥

  50. अल्पद्रव्या वृथा लिङ्गा हिंसा च परभविष्यति न कश चित कस्य चिद दाता भविष्यति युगक्षये ॥ 50 ॥

  51. अट्टशूला जनपदाः शिव शूलाश चतुष्पथाः केशशूलाः सत्रियश चापि भविष्यन्ति युगक्षये ॥ 51 ॥

  52. मलेच्छाः करूराः सर्वभक्षा दारुणाः सर्वकर्मसु भाविनः पश्चिमे काले मनुष्या नात्र संशयः ॥ 52 ॥

  53. करयविक्रयकाले च सर्वः सर्वस्य वञ्चनम युगान्ते भरतश्रेष्ठ वृत्ति लॊभात करिष्यति ॥ 53 ॥

  54. जञानानि चाप्य अविज्ञाय करिष्यन्ति करियास तथा आत्मछन्देन वर्तन्ते युगान्ते पर्युपस्थिते ॥ 54 ॥

  55. सवभावात करूरकर्माणश चान्यॊन्यम अभिशङ्किनः भवितारॊ जनाः सर्वे संप्राप्ते युगसंक्षये ॥ 55 ॥

  56. आरामांश चैव वृक्षांश च नाशयिष्यन्ति निर्व्यथाः भविता संक्षयॊ लॊके जीवितस्य च देहिनाम ॥ 56 ॥

  57. तथा लॊभाभिभूताश च चरिष्यन्ति महीम इमाम बराह्मणाश च भविष्यन्ति बरह्म सवानि च भुञ्जते ॥ 57 ॥

  58. हाहाकृता दविजाश चैव भयार्ता वृषलार्दिताः तरातारम अलभन्तॊ वै भरमिष्यन्ति महीम इमाम ॥ 58 ॥

  59. जीवितान्तकरा रौद्राः करूराः पराणिविहिंसकाः यदा भविष्यन्ति नरास तदा संक्षेप्स्यते युगम ॥ 59 ॥

  60. आश्रयिष्यन्ति च नदीः पर्वतान विषमाणि च परधावमाना वित्रस्ता दविजाः कुरुकुलॊद्वह ॥ 60 ॥

  61. दस्यु परपीडिता राजन काका इव दविजॊत्तमाः कुराजभिश च सततं करभार परपीडिताः ॥ 61 ॥

  62. धैर्यं तयक्त्वा महीपाल दारुणे युगसंक्षये विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः ॥ 62 ॥

  63. शूद्रा धर्मं परवक्ष्यन्ति बराह्मणाः पर्युपासकाः शरॊतारश च भविष्यन्ति परामाण्येन वयवस्थिताः ॥ 63 ॥

  64. विपरीतश च लॊकॊ ऽयं भविष्यत्य अधरॊत्तरः एडूकान पूजयिष्यन्ति वर्जयिष्यन्ति देवताः शूद्राः परिचरिष्यन्ति न दविजान युगसंक्षये ॥ 64 ॥

  65. आश्रमेषु महर्षीणां बराह्मणावसथेषु च देवस्थानेषु चैत्येषु नागानाम आलयेषु च ॥ 65 ॥

  66. एडूक चिह्ना पृथिवी न देव गृहभूषिता भविष्यति युगे कषीणे तद युगान्तस्य लक्षणम ॥ 66 ॥

  67. यदा रौद्रा धर्महीना मांसादाः पानपास तथा भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम ॥ 67 ॥

  68. पुष्पे पुष्पं यदा राजन फले फलम उपाश्रितम परजास्यति महाराज तदा संक्षेप्स्यते युगम ॥ 68 ॥

  69. अकालवर्षी पर्जन्यॊ भविष्यति गते युगे अक्रमेण मनुष्याणां भविष्यति तदा करिया विरॊधम अथ यास्यन्ति वृषला बराह्मणैः सह ॥ 69 ॥

  70. मही मलेच्छ समाकीर्णा भविष्यति ततॊ ऽचिरात करभार भयाद विप्रा भजिष्यन्ति दिशॊ दश ॥ 70 ॥

  71. निर्विशेषा जनपदा नरावृष्टिभिर अर्दिताः आश्रमान अभिपत्स्यन्ति फलमूलॊपजीविनः ॥ 71 ॥

  72. एवं पर्याकुले लॊके मर्यादा न भविष्यति न सथास्यन्त्य उपदेशे च शिष्या विप्रियकारिणः ॥ 72 ॥

  73. आचार्यॊपनिधिश चैव वत्स्यते तदनन्तरम अर्थयुक्त्या परवत्स्यन्ति मित्र संबन्धिबान्धवाः अभावः सर्वभूतानां युगान्ते च भविष्यति ॥ 73 ॥

  74. दिशः परज्वलिताः सर्वा नक्षत्राणि चलानि च जयॊतींषि परतिकूलानि वाताः पर्याकुलास तथा उल्का पाताश च बहवॊ महाभयनिदर्शकाः ॥ 74 ॥

  75. षड्भिर अन्यैश च सहितॊ भास्करः परतपिष्यति तुमुलाश चापि निर्ह्रादा दिग दाहाश चापि सर्वशः कबन्धान्तर्हितॊ भानुर उदयास्तमये तदा ॥ 75 ॥

  76. अकालवर्षी च तदा भविष्यति सहस्रदृक सस्यानि च न रॊक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ 76 ॥

  77. अभीक्ष्णं करूर वादिन्यः परुषा रुदितप्रियाः भर्तॄणां वचने चैव न सथास्यन्ति तदा सत्रियः ॥ 77 ॥

  78. पुत्राश च मातापितरौ हनिष्यन्ति युगक्षये सूदयिष्यन्ति च पतीन सत्रियः पुत्रान अपाश्रिताः ॥ 78 ॥

  79. अपर्वणि महाराज सूर्यं राहुर उपैष्यति युगान्ते हुतभुक चापि सर्वतः परज्वलिष्यति ॥ 79 ॥

  80. पानीयं भॊजनं चैव याचमानास तदाध्वगाः न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते ॥ 80 ॥

  81. निर्घातवायसा नागाः शकुनाः समृगद्विजाः रूक्षा वाचॊ विमॊक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ 81 ॥

  82. मित्र संबन्धिनश चापि संत्यक्ष्यन्ति नरास तदा जनं परिजनं चापि युगान्ते पर्युपस्थिते ॥ 82 ॥

  83. अथ देशान दिशश चापि पत्तनानि पुराणि च करमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ॥ 83 ॥

  84. हा तात हा सुतेत्य एवं तदा वाचः सुदारुणाः विक्रॊशमानश चान्यॊन्यं जनॊ गां पर्यटिष्यति ॥ 84 ॥

  85. ततस तुमुलसंघाते वर्तमाने युगक्षये दविजातिपूर्वकॊ लॊकः करमेण परभविष्यति ॥ 85 ॥

  86. ततः कालान्तरे ऽनयस्मिन पुनर लॊकविवृद्धये भविष्यति पुनर दैवम अनुकूलं यदृच्छया ॥ 86 ॥

  87. यदा चन्द्रश च सूर्यश च तथा तिष्यबृहस्पती एकाराशौ समेष्यन्ति परपत्स्यति तदा कृतम ॥ 87 ॥

  88. कालवर्षी च पर्जन्यॊ नक्षत्राणि शुभानि च परदक्षिणा गरहाश चापि भविष्यन्त्य अनुलॊमगाः कषेमं सुभिक्षम आरॊग्यं भविष्यति निरामयम ॥ 88 ॥

  89. कल्किर विष्णुयशा नाम दविजः कालप्रचॊदितः उत्पत्स्यते महावीर्यॊ महाबुद्धिपराक्रमः ॥ 89 ॥

  90. संभूतः संभल गरामे बराह्मणावसथे शुभे मनसा तस्य सर्वाणि वाहनान्य आयुधानि च उपस्थास्यन्ति यॊधाश च शस्त्राणि कवचानि च ॥ 90 ॥

  91. स धर्मविजयी राजा चक्रवर्ती भविष्यति स चेमं संकुलं लॊकं परसादम उपनेष्यति ॥ 91 ॥

  92. उत्थितॊ बराह्मणॊ दीप्तः कषयान्तकृद उदारधीः स संक्षेपॊ हि सर्वस्य युगस्य परिवर्तकः ॥ 92 ॥

  93. स सर्वत्रगतान कषुद्रान बराह्मणैः परिवारितः उत्सादयिष्यति तदा सर्वान मलेच्छ गणान दविजः ॥ 93 ॥

Reach this point to mark the section finished.

Continue to अध्याय 189

Previous: अध्याय 187