धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 187

  1. [देव] कामं देवापि मां विप्र न विजानन्ति तत्त्वतः तवत परीत्या तु परवक्ष्यामि यथेदं विसृजाम्य अहम ॥ 1 ॥

  2. पितृभक्तॊ ऽसि विप्रर्षे मां चैव शरणं गतः अतॊ दृष्टॊ ऽसमि ते साक्षाद बरह्मचर्यं च ते महत ॥ 2 ॥

  3. आपॊ नारा इति परॊक्ताः संज्ञा नाम कृतं मया तेन नारायणॊ ऽसम्य उक्तॊ मम तद धययनं सदा ॥ 3 ॥

  4. अहं नारायणॊ नाम परभवः शाश्वतॊ ऽवययः विधाता सर्वभूतानां संहर्ता च दविजॊत्तम ॥ 4 ॥

  5. अहं विष्णुर अहं बरह्मा शक्रश चाहं सुराधिपः अहं वैश्रवणॊ राजा यमः परेताधिपस तथा ॥ 5 ॥

  6. अहं शिवश च सॊमश च कश्यपश च परजापतिः अहं धाता विधाता च यज्ञश चाहं दविजॊत्तम ॥ 6 ॥

  7. अग्निर आस्यं कषितिः पादौ चन्द्रादित्यौ च लॊचने सदिशं च नभॊ कायॊ वायुर मनसि मे सथितः ॥ 7 ॥

  8. मया करतुशतैर इष्टं बहुभिः सवाप्तदक्षिणैः यजन्ते वेदविदुषॊ मां देवयजने सथितम ॥ 8 ॥

  9. पृथिव्यां कषत्रियेन्द्राश च पार्थिवाः सवर्गकाङ्क्षिणः यजन्ते मां तथा वैश्याः सवर्गलॊकजिगीषवः ॥ 9 ॥

  10. चतुःसमुद्र पर्यन्तां मेरुमन्दर भूषणाम शेषॊ भूत्वाहम एवैतां धारयामि वसुंधराम ॥ 10 ॥

  11. वाराहं रूपम आस्थाय मयेयं जगती पुरा मज्जमाना जले विप्र वीर्येणासीत समुद्धृता ॥ 11 ॥

  12. अग्निश च वडवा वक्त्रॊ भूत्वाहं दविजसत्तम पिबाम्य अपः समाविद्धास ताश चैव विसृजाम्य अहम ॥ 12 ॥

  13. बरह्म वक्त्रं भुजौ कषत्रम ऊरू मे संश्रिता विशः पादौ शूद्रा भजन्ते मे विक्रमेण करमेण च ॥ 13 ॥

  14. ऋग्वेदः सामवेदश च यजुर्वेदॊ ऽपय अथर्वणः मत्तः परादुर्भवन्त्य एते माम एव परविशन्ति च ॥ 14 ॥

  15. यतयः शान्ति परमा यतात्मानॊ मुमुक्षवः कामक्रॊधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः ॥ 15 ॥

  16. सत्त्वस्था निरहंकारा नित्यम अध्यात्मकॊविदाः माम एव सततं विप्राश चिन्तयन्त उपासते ॥ 16 ॥

  17. अहं संवर्तकॊ जयॊतिर अहं सर्वर्तकॊ यमः अहं संवर्तकः सूर्यॊ अहं संवर्तकॊ ऽनिलः ॥ 17 ॥

  18. तारा रूपाणि दृश्यन्ते यान्य एतानि नभस्तले मम रूपाण्य अथैतानि विद्धि तवं दविजसत्तम ॥ 18 ॥

  19. रत्नाकराः समुद्राश च सर्व एव चतुर्दिशम वसनं शयनं चैव निलयं चैव विद्धि मे ॥ 19 ॥

  20. कामं करॊधं च हर्षं च भयं मॊहं तथैव च ममैव विद्धि रूपाणि सर्वाण्य एतानि सत्तम ॥ 20 ॥

  21. पराप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशॊभनम सत्यं दानं तपॊ चॊग्रम अहिंसा चैव जन्तुषु ॥ 21 ॥

  22. मद्विधानेन विहिता मम देहविहारिणः मयाभिभूत विज्ञाना विचेष्टन्ते न कामतः ॥ 22 ॥

  23. सम्यग वेदम अधीयाना यजन्तॊ विविधैर मखैः शान्तात्मानॊ जितक्रॊधाः पराप्नुवन्ति दविजातयः ॥ 23 ॥

  24. पराप्तुं न शक्यॊ यॊ विद्वन नरैर दुष्कृतकर्मभिः लॊभाभिभूतैः कृपणैर अनार्यैर अकृतात्मभिः ॥ 24 ॥

  25. तं मां महाफलं विद्धि पदं सुकृतकर्मणः दुष्प्रापं विप्र मूढानां मार्गं यॊगैर निषेवितम ॥ 25 ॥

  26. यदा यदा च धर्मस्य गलानिर भवति सत्तम अभ्युत्थानम अधर्मस्य तदात्मानं सृजाम्य अहम ॥ 26 ॥

  27. दैत्या हिंसानुरक्ताश च अवध्याः सुरसत्तमैः राक्षसाश चापि लॊके ऽसमिन यदॊत्पत्स्यन्ति दारुणाः ॥ 27 ॥

  28. तदाहं संप्रसूयामि गृहेषु शुभकर्मणाम परविष्टॊ मानुषं देहं सर्वं परशमयाम्य अहम ॥ 28 ॥

  29. सृष्ट्वा देवमनुष्यांश च गन्धर्वॊरगराक्षसान सथावराणि च भूतानि संहराम्य आत्ममायया ॥ 29 ॥

  30. कर्मकाले पुनर देहम अनुचिन्त्य सृजाम्य अहम परविश्य मानुषं देहं मर्यादा बन्धकारणात ॥ 30 ॥

  31. शवेतः कृतयुगे वर्णः पीतस तरेतायुगे मम रक्तॊ दवापरम आसाद्य कृष्णः कलियुगे तथा ॥ 31 ॥

  32. तरयॊ भागा हय अधर्मस्य तस्मिन काले भवन्त्य उत अन्तकाले च संप्राप्ते कालॊ भूत्वातिदारुणः तरैलॊक्यं नाशयाम्य एकः कृत्स्नं सथावरजङ्गमम ॥ 32 ॥

  33. अहं तरिवर्त्मा सर्वात्मा सर्वलॊकसुखावहः अभिभूः सर्वगॊ ऽनन्तॊ हृषीकेश उरु करमः ॥ 33 ॥

  34. कालचक्रं नयाम्य एकॊ बरह्मन्न अहम अरूपि वै शमनं सर्वभूतानां सर्वलॊककृतॊद्यमम ॥ 34 ॥

  35. एवं परणिहितः सम्यङ मयात्मा मुनिसत्तम सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश चन ॥ 35 ॥

  36. यच च किं चित तवया पराप्तं मयि कलेषात्मकं दविज सुखॊदयाय तत सर्वं शरेयसे च तवानघ ॥ 36 ॥

  37. यच च किं चित तवया लॊके दृष्टं सथावरजङ्गमम विहितः सर्वथैवासौ ममात्मा मुनिसत्तम ॥ 37 ॥

  38. अर्धं मम शरीरस्य सर्वलॊकपितामहः अहं नारायणॊ नाम शङ्खचक्रगदाधरः ॥ 38 ॥

  39. यावद युगानां विप्रर्षे सहस्रपरिवर्तनम तावत सवपिमि विश्वात्मा सर्वलॊकपितामहः ॥ 39 ॥

  40. एवं सर्वम अहं कालम इहासे मुनिसत्तम अशिशुः शिशुरूपेण यावद बरह्मा न बुध्यते ॥ 40 ॥

  41. मया च विप्र दत्तॊ ऽयं वरस ते बरह्मरूपिणा असकृत परितुष्टेन विप्रर्षिगणपूजित ॥ 41 ॥

  42. सर्वम एकार्णवं दृष्ट्वा नष्टं सथावरजङ्गमम विक्लवॊ ऽसि मया जञातस ततस ते दर्शितं जगत ॥ 42 ॥

  43. अभ्यन्तरं शरीरस्य परविष्टॊ ऽसि यदा मम दृष्ट्वा लॊकं समस्तं च विस्मितॊ नावबुध्यसे ॥ 43 ॥

  44. ततॊ ऽसि वक्त्राद विप्रर्षे दरुतं निःसारितॊ मया आख्यातस ते मया चात्मा दुर्ज्ञेयॊ ऽपि सुरासुरैः ॥ 44 ॥

  45. यावत स भगवान बरह्मा न बुध्यति महातपः तावत तवम इह विप्रर्षे विश्रब्धश चर वै सुखम ॥ 45 ॥

  46. ततॊ विभुद्धे तस्मिंस तु सर्वलॊकपितामहे एकीभूतॊ हि सरक्ष्यामि शरीराद दविजसत्तम ॥ 46 ॥

  47. आकाशं पृथिवीं जयॊतिर वायुं सलिलम एव च लॊके यच च भवेच छेषम इह सथावरजङ्गमम ॥ 47 ॥

  48. [मार्क] इत्य उक्त्वान्तर्हितस तात स देवः परमाद्भुतः परजाश चेमाः परपश्यामि विचित्रा बहुधा कृताः ॥ 48 ॥

  49. एतद दृष्टं मया राजंस तस्मिन पराप्ते युगक्षये आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर ॥ 49 ॥

  50. यः स देवॊ मया दृष्टः पुरा पद्मनिभेक्षणः स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः ॥ 50 ॥

  51. अस्यैव वरदानाद धि समृतिर न परजहाति माम दीर्घम आयुश च कौन्तेय सवच्छन्दमरणं तथा ॥ 51 ॥

  52. स एष कृष्णॊ वार्ष्णेयः पुराणपुरुषॊ विभुः आस्ते हरिर अचिन्त्यात्मा करीडन्न इव महाभुजः ॥ 52 ॥

  53. एष धाता विधाता च संहर्ता चैव सात्वतः शरीवत्स वक्षा गॊविन्दः परजापतिपतिः परभुः ॥ 53 ॥

  54. दृष्ट्वेमं वृष्णिशार्दूलं समृतिर माम इयम आगता आदिदेवम अजं विष्णुं पुरुषं पीतवाससम ॥ 54 ॥

  55. सर्वेषाम एव भूतानां पिता माता च माधवः गच्छध्वम एनं शरणं शरण्यं कौरवर्षभाः ॥ 55 ॥

Reach this point to mark the section finished.

Continue to अध्याय 188

Previous: अध्याय 186