धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 182

  1. [वै] मार्कण्डेयं महात्मानम ऊचुः पाण्डुसुतास तदा माहात्म्यं दविजमुख्यानां शरॊतुम इच्छाम कथ्यताम ॥ 1 ॥

  2. एवम उक्तः स भगवान मार्कण्डेयॊ महातपः उवाच सुमहातेजा सर्वशास्त्रविशारदः ॥ 2 ॥

  3. हैहयानां कुलकरॊ राजा परपुरंजयः कुमारॊ रूपसंपन्नॊ मृगयाम अचरद बली ॥ 3 ॥

  4. चरमाणस तु सॊ ऽरण्ये तृणवीरुत समावृते कृष्णाजिनॊत्तरासङ्गं ददर्श मुनिम अन्तिके स तेन निहतॊ ऽरण्ये मन्यमानेन वै मृगम ॥ 4 ॥

  5. वयथितः कर्म तत कृत्वा शॊकॊपहतचेतनः जगाम हैहयानां वै सकाशं परथितात्मनाम ॥ 5 ॥

  6. राज्ञां राजीवनेत्रासौ कुमारः पृथिवीपते तेषां च तद यथावृत्तं कथयाम आस वै तदा ॥ 6 ॥

  7. तं चापि हिंसितं तात मुनिं मूलफलाशिनम शरुत्वा दृष्ट्वाच ते तत्र बभूवुर दीनमानसाः ॥ 7 ॥

  8. कस्यायम इति ते सर्वे मार्गमाणास ततस ततः जग्मुश चारिष्टनेमेस ते तार्क्ष्यस्याश्रमम अञ्जसा ॥ 8 ॥

  9. ते ऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम तस्थुः सर्वे सतु मुनिस तेषां पूजाम अथाहरत ॥ 9 ॥

  10. ते तम ऊचुर महात्मानं न वयं सत्क्रियां मुने तवत्तॊ ऽरहाः कर्म दॊषेण बराह्मणॊ हिंसितॊ हि नः ॥ 10 ॥

  11. तान अब्रवीत स विप्रर्षिः कथं वॊ बराह्मणॊ हतः कव चासौ बरूत सहिताः पश्यध्वं मे तपॊबलम ॥ 11 ॥

  12. ते तु तत सर्वम अखिलम आख्यायास्मै यथातथम नापश्यंस तम ऋषिं तत्र गतासुं ते समागताः अन्वेषमाणाः सव्रीडाः सवप्नवद गतमानसाः ॥ 12 ॥

  13. तान अब्रवीत तत्र मुनिस तार्क्ष्यः परपुरंजयः सयाद अयं बराह्मणः सॊ ऽथ यॊ युष्माभिर निवाशितः पुत्रॊ हय अयं मम नृपास तपॊबलसमन्वितः ॥ 13 ॥

  14. ते तु दृष्ट्वैव तम ऋषिं विस्मयं परमं गताः महद आश्चर्यम इति वै विब्रुवाणा महीपते ॥ 14 ॥

  15. मृतॊ हय अयम अतॊ दृष्टः कथं जीवितम आप्तवान किम एतत तपसॊ वीर्यं यनायं जीवितः पुनः शरॊतुम इच्छाम विप्रर्षे यदि शरॊतव्यम इत्य उत ॥ 15 ॥

  16. स तान उवाच नास्माकं मृत्युः परभवते नृपाः कारणं वः परवक्ष्यामि हेतुयॊगं समासतः ॥ 16 ॥

  17. सत्यम एवाभिजानीमॊ नानृते कुर्महे मनः सवधर्मम अनुतिष्ठामस तस्मान मृत्युभयं न नः ॥ 17 ॥

  18. यद बराह्मणानां कुशलं तद एषां कथयामहे नैषां दुश्चरितं बरूमस तस्मान मृत्युभयं न नः ॥ 18 ॥

  19. अतिथीन अन्नपानेन भृत्यान अत्यशनेन च तेजस्वि देशवासाच च तस्मान मृत्युभयं न नः ॥ 19 ॥

  20. एतद वै लेश मात्रं वः समाख्यातं विमत्सराः गच्छध्वं सहिताः सर्वे न पापाद भयम अस्ति वः ॥ 20 ॥

  21. एवम अस्त्व इति ते सर्वे परतिपूज्य महामुनिम सवदेशम अगमन हृष्टा राजानॊ भरतर्षभ ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 183

Previous: अध्याय 181