[मार्क] भूय एव तु माहात्म्यं बराह्मणानां निबॊध मे वैन्यॊ नामेह राजर्षिर अश्वमेधाय दीक्षितः तम अत्रिर गन्तुम आरेभे वित्तार्थम इति नः शरुतम ॥ 1 ॥
भूयॊ ऽथ नानुरुध्यत स धर्मव्यक्ति निदर्शनात संचिन्त्य स महातेजा वनम एवान्वरॊचयत धर्मपत्नीं समाहूय पुत्रांश चेदम उवाच ह ॥ 2 ॥
पराप्स्यामः फलम अत्यन्तं बहुलं निरुपद्रवम अरण्यगमनं कषिप्रं रॊचतां वॊ गुनाधिकम ॥ 3 ॥
तं भार्या परत्युवाचेदं धर्मम एवानुरुध्यती वैनं गत्वा महात्मानम अर्थयस्व धनं बहु स ते दास्यति राजर्षिर यजमानॊ ऽरथिने धनम ॥ 4 ॥
तत आदाय विप्रर्षे परतिगृह्य धनं बहु भृत्यान सुतान संविभज्य ततॊ वरज यथेप्सितम एष वै परमॊ धर्मधर्मविद्भिर उदाहृतः ॥ 5 ॥
[अत्रि] कथितॊ मे महाभागे गौतमेन महात्मना वैन्यॊ धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः ॥ 6 ॥
किं तव अस्ति तत्र दवेष्टारॊ निवसन्ति हि मे दविजाः यथा मे गौतमः पराह ततॊ न वयवसाम्य अहम ॥ 7 ॥
तत्र सम वाचं कल्याणीं धर्मकामार्थ संहिताम मयॊक्ताम अन्यथा बरूयुस ततस ते वै निरर्थकाम ॥ 8 ॥
गमिष्यामि महाप्राज्ञे रॊचते मे वचस तव गाश च मे दास्यते वैन्यः परभूतं चार्थसंचयम ॥ 9 ॥
[मार्क] एवम उक्त्वा जगामाशु वैन्य यज्ञं महातपः गत्वा च यज्ञायतनम अत्रिस तुष्टाव तं नृपम ॥ 10 ॥
राजन वैन्य तवम ईशश च भुवि तवं परथमॊ नृपः सतुवन्ति तवां मुनिगणास तवद अन्यॊ नास्ति धर्मवित ॥ 11 ॥
तम अब्रवीद ऋषिस तत्र वच करुद्धॊ महातपः मैवम अत्रे पुनर बरूया न ते परज्ञा समाहिता अत्र नः परथमं सथाता महेन्द्रॊ वै परजापतिः ॥ 12 ॥
अथात्रिर अपि राजेन्द्र गौतमं परत्यभाषत अयम एव विधाता च यथैवेन्द्रः परजापतिः तवम एव मुह्यसे मॊहान न परज्ञानं तवास्ति ह ॥ 13 ॥
[गौतम] जानामि नाहं मुह्यामि तवं विवक्षुर विमुह्यसे सतॊष्यसे ऽभयुदय परेप्सुस तस्य दर्शनसंश्रयात ॥ 14 ॥
न वेत्थ परमं धर्मं न चावैषि परयॊजनम बालस तवम असि मूढश च वृद्धः केवापि हेतुना ॥ 15 ॥
[मार्क] विवदन्तौ तथा तौ तु मुनीनां दर्शने सथितौ ये तस्य यज्ञे संवृत्तास ते ऽपृच्छन्त कथं तव इमौ ॥ 16 ॥
परवेशः केन दत्तॊ ऽयम अनयॊर वैन्य संसदि उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ ॥ 17 ॥
ततः परमधर्मात्मा काश्यपः सर्वधर्मवित विवादिनाव अनुप्राप्तौ ताव उभौ परत्यवेदयत ॥ 18 ॥
अथाब्रवीत सदस्यांस तु गौतमॊ मुनिसत्तमान आवयॊर वयाहृतं परश्नं शृणुत दविजपुंगवाः वैन्यॊ विधातेत्य आहात्रिर अत्र नः संशयॊ महान ॥ 19 ॥
शरुत्वैव तु महात्मानॊ मुनयॊ ऽभयद्रवन दरुतम सनत्कुमारं धर्मज्ञं संशय छेदनाय वै ॥ 20 ॥
स च तेषां वचॊ शरुत्वा यथातत्त्वं महातपः परत्युवाचाथ तान एवं धर्मार्थसहितं वचः ॥ 21 ॥
[सनत्कुमार] बरह्मक्षत्रेण सहितं कषत्रं च बरह्मणा सह राजा वै परथमॊ धर्मः परजानां पतिर एव च स एव शक्रः शुक्रश च स धाता स बृहस्पतिः ॥ 22 ॥
परजापतिर विराट सम्राट कषत्रियॊ भूपतिर नृपः य एभिः सतूयते शब्दैः कस तं नार्चितुम अर्हति ॥ 23 ॥
पुरा यॊनिर युधाजिच च अभिया मुदितॊ भवः सवर्णेता सहजिद बभ्रुर इति राजाभिधीयते ॥ 24 ॥
सत्यमन्युर युधाजीवः सत्यधर्मप्रवर्तकः अधर्माद ऋषयॊ भीता बलं कषत्रे समादधन ॥ 25 ॥
आदित्यॊ दिवि देवेषु तमॊनुदति तेजसा तथैव नृपतिर भूमाव अधर्मं नुदते भृशम ॥ 26 ॥
अतॊ राज्ञः परधानत्वं शास्त्रप्रामाण्य दर्शनात उत्तरः सिध्यते पक्षॊ येन राजेति भाषितम ॥ 27 ॥
[मार्क] ततः स राजा संहृष्टः सिद्धे पक्षे महामनः तम अत्रिम अब्रवीत परीतः पूर्वं येनाभिसंस्तुतः ॥ 28 ॥
यस्मात सर्वमनुष्येषु जयायांसं माम इहाब्रवीः सर्वदेवैश च विप्रर्षे संमितं शरेष्ठम एव च तस्मात ते ऽहं परदास्यामि विविधं वसु भूरि च ॥ 29 ॥
दासी सहस्रं शयामानां सुवस्त्राणाम अलंकृतम दशकॊट्यॊ हिरण्यस्य रुक्मभारांस तथा दश एतद ददानि ते विप्र सर्वज्ञस तवं हि मे मतः ॥ 30 ॥
तद अत्रिर नयायतः सर्वं परतिगृह्य महामनः परत्याजगाम तेजस्वी गृहान एव महातपः ॥ 31 ॥
परदाय च धनं परीतः पुत्रेभ्यः परयतात्मवान तपॊ समभिसंधाय वनम एवान्वपद्यत ॥ 32 ॥
वनपर्व · Vana Parva
अध्याय 183
Reach this point to mark the section finished.
Continue to अध्याय 184