[वै] तं विवक्षन्तम आलक्ष्य कुरुराजॊ महामुनिम कथा संजननार्थाय चॊदयाम आस पाण्डवः ॥ 1 ॥
भवान दैवतदैत्यानाम ऋषीणां च महात्मनाम राजर्षीणां च सर्वेषां चरितज्ञः सनातनः ॥ 2 ॥
सेव्यश चॊपासितव्यश च मतॊ नः काङ्क्षितश चिरम अयं च देवकीपुत्रः पराप्तॊ ऽसमान अवलॊककः ॥ 3 ॥
भवत्य एव हि मे बुद्धिर दृष्ट्वात्मानं सुखाच चयुतम धार्तराष्ट्रांश च दुर्वृत्तन्न ऋध्यतः परेक्ष्य सर्वशः ॥ 4 ॥
कर्मणः पुरुषः कर्ता शुभस्याप्य अशुभस्य च सवफलं तद उपाश्नाति कथं कर्ता सविद ईश्वरः ॥ 5 ॥
अथ वा सुखदुःखेषु नृणां बरह्मविदां वर इह वा कृतम अन्वेति परदेहाथ वा पुनः ॥ 6 ॥
देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः कथं संयुज्यते परेत्य इह वा दविजसत्तम ॥ 7 ॥
ऐह लौकिकम एवैतद उताहॊ पारलौकिकम कव च कर्माणि तिष्ठन्ति जन्तॊःप्रेतस्य भार्गव ॥ 8 ॥
[मार्क] तवद युक्तॊ ऽयम अनुप्रश्नॊ यथावद वदतां वर विदितं वेदितव्यं ते सथित्य अर्थम अनुपृच्छसि ॥ 9 ॥
अत्र ते वर्तयिष्यामि तद इहैकमनः शृणु यथेहामुत्र च नरः सुखदुःखम उपाश्नुते ॥ 10 ॥
निर्मलानि शरीराणि विशुद्धानि शरीरिणाम ससर्ज धर्मतन्त्राणि पूर्वॊत्पन्नः परजापतिः ॥ 11 ॥
अमॊघबलसंकल्पाः सुव्रताः सत्यवादिनः बरह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन ॥ 12 ॥
सर्वे देवैः समायान्ति सवच्छन्देन नभस्तलम ततश च पुनर आयान्ति सर्वे सवच्छन्दचारिणः ॥ 13 ॥
सवच्छन्दमरणाश चासन नराः सवच्छन्दजीविनः अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः ॥ 14 ॥
दरष्टारॊ देवसंघानाम ऋषीणां च महात्मनाम परत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः ॥ 15 ॥
आसन वर्षसहस्राणि तथा पुत्रसहस्रिणः ततः कालान्तरे ऽनयस्मिन पृथिवीतलचारिणः ॥ 16 ॥
कामक्रॊधाभिभूतास ते माया वयाजॊपजीविनः लॊभमॊहाभिभूताश च तयक्ता देवैस ततॊ नराः ॥ 17 ॥
अशुभैः कर्मभिः पापास तिर्यङ नरकगामिनः संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः ॥ 18 ॥
मॊघेष्टा मॊघसंकल्पा मॊघज्ञाना विचेतसः सर्वातिशङ्किनश चैव संवृत्ताः कलेशभागिनः अशुभैः कर्मभिश चापि परायशः परिचिह्निताः ॥ 19 ॥
दौष्कुल्या वयाधिबहुला दुरात्मानॊ ऽपरतापिनः भवन्त्य अल्पायुषः पापा रौद्रकर्मफलॊदयाः नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः ॥ 20 ॥
जन्तॊःप्रेतस्य कौन्तेय गतिः सवैर इह कर्मभिः पराज्ञस्य हीनबुद्धेश च कर्म कॊशः कव तिष्ठति ॥ 21 ॥
कवस्थस तत समुपाश्नाति सुकृतं यदि वेतरत इति ते दर्शनं यच च तत्राप्य अनुनयं शृणु ॥ 22 ॥
अयम आदि शरीरेण देव सृष्टेन मानवः शुभानाम अशुभानां च कुरुते संचयं महत ॥ 23 ॥
आयुषॊ ऽनते परहायेदं कषीणप्रायं कलेवरम संभवत्य एव युगपद यॊनौ नास्त्य अन्तरा भवः ॥ 24 ॥
तत्रास्य सवकृतं कर्म छायेवानुगतं सदा फलत्य अथ सुखार्हॊ वा दुःखार्हॊ वापि जायते ॥ 25 ॥
कृतान्तविधिसंयुक्तः सजन्तुर लक्षणैः शुभैः अशुभैर वा निरादानॊ लक्ष्यते जञानदृष्टिभिः ॥ 26 ॥
एषा तावद अबुद्धीनां गतिर उक्ता युधिष्ठिर अतः परं जञानवतां निबॊध गतिम उत्तमाम ॥ 27 ॥
मनुष्यास तप्ततपसः सर्वागम परायणाः सथिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः ॥ 28 ॥
सुशीलाः शुक्लजातीयाः कषान्ता दान्ताः सुतेजसः शुभयॊन्यन्तरगताः परायशः शुभलक्षणाः ॥ 29 ॥
जितेन्द्रियत्वाद वशिनः शुल्कत्वान मन्दरॊगिणः अल्पबाध परित्रासाद भवन्ति निरुपद्रवाः ॥ 30 ॥
चयवन्तं जायमानं च गर्भस्थं चैव सर्वशः सवम आत्मानं परं चैव बुध्यन्ते जञानचक्षुषः कर्मभूमिम इमां पराप्य पुनर यान्ति सुरालयम ॥ 31 ॥
किं चिद दैवाद धठात किं चित किं चिद एव सवकर्मभिः पराप्नुवन्ति नरा राजन मा ते ऽसत्व अन्या विचारणा ॥ 32 ॥
इमाम अत्रॊपमां चापि निबॊध वदतां वर मनुष्यलॊके यच छरेयॊ परं मन्ये युधिष्ठिर ॥ 33 ॥
इह वैकस्य नामुत्र अमुत्रैकस्य नॊ इह इह चामुत्र चैकस्य नामुत्रैकस्य नॊ इह ॥ 34 ॥
धनानि येषां विपुलानि सन्ति; नित्यं रमन्ते सुविभूषिताङ्गाः तेषाम अयं शत्रुवरघ्न लॊकॊ; नासौ सदा देहसुखे रतानाम ॥ 35 ॥
ये यॊगयुक्तास तपसि परसक्ताः; सवाध्यायशीला जरयन्ति देहान जितेन्द्रिया भूतहिते निविष्टास; तेषाम असौ नायम अरिघ्न लॊकः ॥ 36 ॥
ये धर्मम एव परथमं चरन्ति; धर्मेण लब्ध्वा च धनानि काले दारान अवाप्य करतुभिर यजन्ते; तेषाम अयं चैव परश च लॊकः ॥ 37 ॥
ये नैव विद्यां न तपॊ न दानं; न चापि मूढाः परजने यतन्ते न चाधिगच्छन्ति सुखान्य अभाग्यास; तेषाम अयं चैव परश च नास्ति ॥ 38 ॥
सर्वे भवन्तस तव अतिवीर्यसत्त्वा; दिव्यौजसः संहननॊपपन्नाः लॊकाद अमुष्माद अवनिं परपन्नाः; सवधीत विद्याः सुरकार्यहेतॊः ॥ 39 ॥
कृत्वैव कर्माणि महानि शूरास; तपॊ दमाचार विहारशीलाः देवान ऋषीन परेतगणांश च सर्वान; संतर्पयित्वा विधिना परेण ॥ 40 ॥
सवर्गं परं पुण्यकृतां निवासं; करमेण संप्राप्स्यथ कर्मभिः सवैः मा भूद विशङ्का तव कौरवेन्द्र; दृष्ट्वात्मनः कलेशम इमं सुखार्ह ॥ 41 ॥
वनपर्व · Vana Parva
अध्याय 181
Reach this point to mark the section finished.
Continue to अध्याय 182