[वै] काम्यकं पराप्य कौन्तेया युधिष्ठिरपुरॊगमाः कृतातिथ्या मुनिगणैर निषेदुः सह कृष्णया ॥ 1 ॥
ततस तान परिविश्वस्तान वसतः पाण्डुनन्दनान बराह्मणा बहवस तत्र समन्तात पर्यवारयन ॥ 2 ॥
अथाब्रवीद दविजः कश चिद अर्जुनस्य परियः सखा एष्यतीह महाबाहुर वशीशौरिर उदारधीः ॥ 3 ॥
विदिता हि हरेर यूयम इहायाताः कुरूद्वहाः सदा हि दर्शनाकाङ्क्षी शरेयॊ ऽनवेषी च वॊ हरिः ॥ 4 ॥
बहु वत्सर जीवी च मार्कण्डेयॊ महातपः सवाध्यायतपसा युक्तः कषिप्रं युष्मान समेष्यति ॥ 5 ॥
तथैव तस्य बरुवतः परत्यदृष्यत केशवः सैङ्क्य सुग्रीव युक्तेन रथेन रथिनां वरः ॥ 6 ॥
मघवान इव पौलॊम्या सहितः सत्यभामया उपायाद देवकीपुत्रॊ दिदृक्षुः कुरुसत्तमान ॥ 7 ॥
अवतीर्य रथात कृष्णॊ धर्मराजं यथाविधि ववन्दे मुदितॊ धीमान भीमं च बलिनां वरम ॥ 8 ॥
पूजयाम आस दौम्यं च यमाभ्याम अभिवादितः परिष्वज्य गुडाकेशं दरौपदीं पर्यसान्त्वयत ॥ 9 ॥
स दृष्ट्वा फल्गुनं वीरं चिरस्य परियम आगतम पर्यष्वजत दाशार्हः पुनः पुनर अरिंदमम ॥ 10 ॥
तथैव सत्यभामापि दरौपदीं परिषस्वजे पाण्डवानां परियं भार्यां कृष्णस्य महिषी परिया ॥ 11 ॥
ततस ते पाण्डवाः सर्वे सभार्याः सपुरॊहिताः आनर्चुः पुण्डरीकाक्षं परिवव्रुश च सर्वशः ॥ 12 ॥
कृष्णस तु पार्थेन समेत्य विद्वान; धनंजयेनासुरतर्जनेन बभौ यथा भूप पतिर महात्मा; समेत्य साक्षाद भगवान गुहेन ॥ 13 ॥
ततः समस्तानि किरीटमाली; वनेषु वृत्तानि गदाग्रजाय उक्त्वा यथावत पुनर अन्वपृच्छत; कथं सुभद्रा च तथाभुमन्युः ॥ 14 ॥
स पूजयित्वा मधुहा यथावन; पार्थांश च कृष्णां च पुरॊहितं च उवाच राजानम अभिप्रशंसन; युधिष्ठिरं तत्र सहॊपविश्य ॥ 15 ॥
धर्मः परः पाण्डव राज्यलाभात; तस्यार्थम आहुस तप एव राजन सत्यार्जवाभ्यां चरता सवधर्मं; जितस तवायं च परश च लॊकः ॥ 16 ॥
अघीतम अग्रे चरता वरतानि सम्यग; धनुर्वेदम अवाप्य कृत्स्नम कषात्रेण धर्मण वसूनि लब्ध्वा; सर्वे हय अवाप्ताः करतवः पुराणाः ॥ 17 ॥
न गराम्यधर्मेषु रतिस तवास्ति; कामान न किं चित कुरुषे नरेन्द्र न चार्थलॊभात परजहासि धर्मं; तस्मात सवभावाद असि धर्मराजः ॥ 18 ॥
धानं च सत्यं च तपॊ च राजञ; शरद्धा च शान्तिश च धृतिः कषमा च अवाप्य राष्ट्राणि वसूनि भॊगान; एषा परा पार्थ सदा रतिस ते ॥ 19 ॥
यदा जनौघः कुरुजाङ्गलानां; कृष्णां सभायाम अवशाम अपश्यत अपेतधर्मव्यवहार वृत्तं; सहेत तत पाण्डव कस तवदन्यः ॥ 20 ॥
असंशयं सर्वसमृद्धकामः; कषिप्रं परजाः पालयितासि सम्यक इमे वयं निग्रहणे कुरूणां; यदि परतिज्ञा भवतः समाप्ता ॥ 21 ॥
धौम्यं च कृष्णां च युधिष्ठिरं च; यमौ च भीमं च दशार्ह सिंहः उवाच दिष्ट्या भवतां शिवेन; पराप्तः किरीटी मुदितः कृतास्त्रः ॥ 22 ॥
परॊवाच कृष्णाम अपि याज्ञसेनीं; दशार्ह भर्ता सहितः सुहृद्भिः कृष्णे धनुर्वेद रतिप्रधानाः; सत्यव्रतास ते शिशवः सुशीलाः सद्भिः सदैवाचरितं समाधिं; चरन्ति पुत्रास तव याज्ञसेनि ॥ 23 ॥
राज्येन राष्ट्रैश च निमन्त्र्यमाणाः; पित्रा च कृष्णे तव सॊदरैश च न यज्ञसेनस्य न मातुलानां; गृहेषु बाला रतिम आप्नुवन्ति ॥ 24 ॥
आनर्तम एवाभिमुखाः शिवेन; गत्वा धनुर्वेद रतिप्रधानाः तवात्मजा वृष्णिपुरं परविश्य; न दैवतेभ्यः सपृहयन्ति कृष्णे ॥ 25 ॥
यथा तवम एवार्हसि तेषु वृत्तिं; परयॊक्तुम आर्या च यथैव कुन्ती तेष्व अप्रमादेन सदा करॊति; तथाच भूयॊ च तथा सुभद्रा ॥ 26 ॥
यथानिरुद्धस्य यथाभिमन्यॊर; यथा सुनीथस्य यथैव भानॊः तथा विनेता च गतिश च कृष्णे; तवात्मजानाम अपि रौक्मिणेयः ॥ 27 ॥
गदासिचर्म गरहणेषु शूरान; अस्त्रेषु शिक्षासु रथाश्वयाने सम्यग विनेता विनयत्य अतन्द्रीस; तांश चाभिमन्युः सततं कुमारः ॥ 28 ॥
स चापि सम्यक परणिधाय शिक्षाम; अस्त्राणि चैषां गुरुवत परदाय तवात्मजानां च तथाभिमन्यॊः; पराक्रमैस तुष्यति रौक्मिणेयः ॥ 29 ॥
यदा विहारं परसमीक्षमाणाः; परयान्ति पुत्रास तव याज्ञसेनि एकैकम एषाम अनुयान्ति तत्र; रथाश च यानानि च दन्तिनश च ॥ 30 ॥
अथाब्रवीद धर्मराजं तु कृष्णॊ; दशार्ह यॊधाः कुकुरान्धकाश च एते निदेशं तव पालयन्ति तिष्ठन्ति; यत्रेच्छसि तत्र राजन ॥ 31 ॥
आवर्ततां कार्मुकवेगवाता; हलायुध परग्रहणा मधूनाम सेना तवार्थेषु नरेन्द्र यत्ता; ससादि पत्त्यश्वरथा सनागा ॥ 32 ॥
परस्थाप्यतां पाण्डव धार्तराष्ट्रः; सुयॊधनः पापकृतां वरिष्ठः स सानुबन्धः ससुहृद गनश च; सौभस्य सौभाधिपतेश च मार्गम ॥ 33 ॥
कामतथा तिष्ठ नरेन्द्र तस्मिन; यथा कृतस ते समयः सभायाम दाशार्ह यॊधैस तु ससादि यॊधं; परतीक्षतां नागपुरं भवन्तम ॥ 34 ॥
वयपेतमनुर वयपनीतपाप्मा; विहृत्य यत्रेच्छसि तत्र कामम ततः समृद्धं परथमं विशॊकः; परपत्स्यसे नागपुरं सराष्ट्रम ॥ 35 ॥
ततस तद आज्ञाय मतं महात्मा; यथावद उक्तं पुरुषॊत्तमेन परशस्य विप्रेक्ष्य च धर्मराजः; कृताञ्जलिः केशवम इत्य उवाच ॥ 36 ॥
असंशयं केशव पाण्डवानां; भवान गतिस तवच छरणा हि पार्थाः कालॊदये तच च ततश च भूयॊ; कर्ता भवान कर्म न संशयॊ ऽसति ॥ 37 ॥
यथाप्रतिज्ञं विहृतश च कालः; सर्वाः समा दवादश निर्जनेषु अज्ञातचर्यां विधिवत समाप्य; भवद्गताः केशव पाण्डवेयाः ॥ 38 ॥
[वै] तथा वदति वार्ष्णेये धर्मराजे व भारत अथ पश्चात पतॊ वृद्धॊ बहुवर्षसहस्रधृक परत्यदृष्यत धर्मात्मा मार्कण्डेयॊ महातपः ॥ 39 ॥
तम आगतम ऋषिं वृद्धं बहुवर्षसहस्रिणम आनर्चुर बराह्मणाः सर्वे कृष्णश च सह पाण्डवैः ॥ 40 ॥
तम अर्चितं सुविष्वस्तम आसीनम ऋषिसत्तमम बराह्मणानां पतेनाह पाण्डवानां च केशवः ॥ 41 ॥
शुश्रूषवः पाण्डवास ते बराह्मणाश च समागताः दरौपदी सत्यभामा च तथाहं परमं वचः ॥ 42 ॥
पुरावृत्ताः कथाः पुण्याः सद आचाराः सनातनाः राज्ञां सत्रीणाम ऋषीणां च मार्कण्डेय विचक्ष्व नः ॥ 43 ॥
तेषु तत्रॊपविष्टेषु देवर्षिर अपि नारदः आजगाम विशुद्धात्मा पाण्डवान अवलॊककः ॥ 44 ॥
तम अप्य अथ महात्मानं सर्वे तु पुरुषर्षभाः पाद्यार्घ्याभ्यां यथान्यायम उपतस्थुर मनीषिणम ॥ 45 ॥
नारदस तव अथ देवर्षिर जञात्वा तांस तु कृतक्षणान मार्कण्डेयस्य वदतस तां कथाम अन्वमॊदत ॥ 46 ॥
उवाच चैनं कालज्ञः समयन्न इव स नारदः बरह्मर्षे कथ्यतां यत ते पाण्डवेषु विवक्षितम ॥ 47 ॥
एवम उक्तः परत्युवाच मार्कण्डेयॊ महातपः कषणं कुरुध्वं विपुलम आख्यातव्यं भविष्यति ॥ 48 ॥
एवम उक्ताः कषणं चक्रुः पाण्डवाः सह तैर दविजैः मध्यंदिने यथादित्यं परेक्षन्तस तं महामुनिम ॥ 49 ॥
वनपर्व · Vana Parva
अध्याय 180
Reach this point to mark the section finished.
Continue to अध्याय 181