धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 179

  1. [वै] निदाघान्तकरः कालः सर्वभूतसुखावहः तत्रैव वसतां तेषां परावृट समभिपद्यत ॥ 1 ॥

  2. छादयन्तॊ महाघॊषाः खं दिशश च बलाहकाः परववर्षुर दिवारात्रम असिताः सततं तदा ॥ 2 ॥

  3. तपात्यय निकेताश च शतशॊ ऽथ सहस्रशः अपेतार्क परभा जालाः सविद्युद्विमलप्रभाः ॥ 3 ॥

  4. विरूढ शष्पा पृथिवी मत्तदंश सरीसृपा बभूव पयसा सिक्ता शान्तधूमरजॊ ऽरुणा ॥ 4 ॥

  5. न सम परज्ञायते किं चिद अम्भसा समवस्तृते समं वा विषमं वापि नद्यॊ वा सथावराणि वा ॥ 5 ॥

  6. कषुब्धतॊया महाघॊषाः शवसमाना इवाशुगाः सिन्धवः शॊभयां चक्रुः काननानि तपात्यये ॥ 6 ॥

  7. नदतां काननान्तेषु शरूयन्ते विविधाः सवनाः वृष्टिभिस ताड्यमानानां वराहमृगपक्षिणाम ॥ 7 ॥

  8. सतॊकताः शिखिनश चैव पुंस्कॊकिल गणैः सह मत्ताः परिपतन्ति सम दर्दुराश चैव दर्पिताः ॥ 8 ॥

  9. तथा बहुविधाकारा परावृष मेघानुनादिता अभ्यतीता शिवा तेषां चरतां मरुधन्वसु ॥ 9 ॥

  10. करौञ्च हंसगणाकीर्णा शरत परणिहिताभवत रूड्ध कक्षवनप्रस्था परसन्नजलनिम्नगा ॥ 10 ॥

  11. विमलाकाश नक्षत्रा शरत तेषां शिवाभवत मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम ॥ 11 ॥

  12. पश्यन्तः शान्तरजसः कषपा जलदशीतलाः गरहनक्षत्रसंघैश च सॊमेन च विराजिताः ॥ 12 ॥

  13. कुमुदैः पुण्डरीकैश च शीतवारि धराः शिवाः नदीः पुष्करिणीश चैव ददृशुः समलंकृताः ॥ 13 ॥

  14. आकाशनीकाश तटां नीप नीवार संकुलाम बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम ॥ 14 ॥

  15. ते वै मुमुदिरे वीराः परसन्नसलिलां शिवाम पश्यन्तॊ दृढधन्वानः परिपूर्णां सरस्वतीम ॥ 15 ॥

  16. तेषां पुण्यतमा रात्रिः पर्व संधौ सम शारदी तत्रैव वसताम आसीत कार्तिकी जनमेजय ॥ 16 ॥

  17. पुण्यकृद्भिर महासत्त्वैस तापसैः सह पाण्डवाः तत सर्वं भरतश्रेष्ठाः समूहुर यॊगम उत्तमम ॥ 17 ॥

  18. तमिस्राभ्युदिते तस्मिन धौम्येन सह पाण्डवाः सूतैः पौरॊगवैश चैव काम्यकं परययुर वनम ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 180

Previous: अध्याय 178