[वै] युधिष्ठिरस तम आसाद्य सर्पभॊगाभिवेष्टितम दयितं भरतरं वीरम इदं वचनम अब्रवीत ॥ 1 ॥
कुन्ती मातः कथम इमाम आपदं तवम अवाप्तवान कश चायं पर्वताभॊगप्रतिमः पन्नगॊत्तमः ॥ 2 ॥
स धर्मराजम आलक्ष्य भराता भरातरम अग्रजम कथयाम आस तत सर्वं गरहणादि विचेष्टितम ॥ 3 ॥
[य] देवॊ वा यदि वा दैत्य उरगॊ वा भवान यदि सत्यं सर्पवचॊ बरूहि पृच्छति तवां युधिष्ठिरः ॥ 4 ॥
किम आहृत्य विदित्वा वा परीतिस ते सयाद भुजंगम किमाहारं परयच्छामि कथं मुञ्चेद भवान इमम ॥ 5 ॥
[सर्प] नहुषॊ नाम राजाहम आसं पूर्वस तवानघ परथितः पञ्चमः सॊमाद आयॊःपुत्रॊ नराधिप ॥ 6 ॥
करतुभिस तपसा चैव सवाध्यायेन दमेन च तरैलॊक्यैश्वर्यम अव्यग्रं पराप्तॊ विक्रमणेन च ॥ 7 ॥
तद ऐश्वर्यं समासाद्य दर्पॊ माम अगमत तदा सहस्रं हि दविजातीनाम उवाह शिबिलां मम ॥ 8 ॥
ऐश्वर्यमदमत्तॊ ऽहम अवमन्य ततॊ दविजान इमाम अगस्त्येन दशाम आनीतः पृथिवीपते ॥ 9 ॥
न तु माम अजहात परज्ञा यावद अद्येति पाण्डव तस्यैवानुग्रहाद राजन्न अगस्त्यस्य महात्मनः ॥ 10 ॥
षष्ठे काले ममाहारः पराप्तॊ ऽयम अनुजस तव नाहम एनं विमॊक्ष्यामि न चान्यम अभिकामये ॥ 11 ॥
परश्नान उच्चारितांस तु तवं वयाहरिष्यसि चेन मम अथ पश्चाद विमॊक्ष्यामि भरातरं ते वृकॊदरम ॥ 12 ॥
[य] बरूहि सर्पयथाकामं परतिवक्ष्यामि ते वचः अपि चेच छक्नुयां परीतिम आहर्तुं ते भुजंगम ॥ 13 ॥
वेद्यं यद बराह्मणेनेह तद भवान वेत्ति केवलम सर्पराजततः शरुत्वा परतिवक्ष्यामि ते वचः ॥ 14 ॥
[सर्प] बराह्मणः कॊ भवेद राजन वेद्यं किं च युधिष्ठिर बरवीह्य अतिमतिं तवां हि वाक्यैर अनुमिमीमहे ॥ 15 ॥
[य] सत्यं दानं कषमा शीलम आनृशंस्यं दमॊ घृणा दृश्यन्ते यत्र नागेन्द्र स बराह्मण इति समृतः ॥ 16 ॥
वेद्यं सर्पपरं बरह्म निर्दुःखम असुखं च यत यत्र गत्वा न शॊचन्ति भवतः किं विवक्षितम ॥ 17 ॥
[सर्प] चातुर्वर्ण्यं परमाणं च सत्यं च बरह्म चैव ह शूद्रेष्व अपि च सत्यं च दानम अक्रॊध एव च आनृशंस्यम अहिंसा च घृणा चैव युधिष्ठिर ॥ 18 ॥
वेद्यं यच चाथ निर्दुःखम असुखं च नराधिप ताभ्यां हीनं पदं चान्यन न तद अस्तीति लक्षये ॥ 19 ॥
[य] शूद्रे चैतद भवेल लक्ष्यं दविजे तच च न विद्यते न वै शूद्रॊ भवेच छूद्रॊ बराह्मणॊ न च बराह्मणः ॥ 20 ॥
यत्रैतल लक्ष्यते सर्पवृत्तं स बराह्मणः समृतः यत्रैतन न भवेत सर्पतं शूद्रम इति निर्दिशेत ॥ 21 ॥
यत पुनर भवता परॊक्तं न वेद्यं विद्यतेति ह ताभ्यां हीनम अतीत्यात्र पदं नास्तीति चेद अपि ॥ 22 ॥
एवम एतन मतं सर्पताभ्यां हीनं न विद्यते यथा शीतॊष्णयॊर मध्ये भवेन नॊष्णं न शीतता ॥ 23 ॥
एवं वै सुखदुःखाभ्यां हीनम अस्ति पदं कव चित एषा मम मतिः सर्पयथा वा मन्यते भवान ॥ 24 ॥
[सर्प] यदि ते वृत्ततॊ राजन बराह्मणः परसमीक्षितः वयर्था जातिस तदायुष्मन कृतिर यावन न दृश्यते ॥ 25 ॥
[य] जातिर अत्र महासर्पमनुष्यत्वे महामते संकरात सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ॥ 26 ॥
सर्वे सर्वास्व अपत्यानि जनयन्ति यदा नराः वान मैथुनम अथॊ जन्म मरणं च समं नृणाम ॥ 27 ॥
इदम आर्षं परमाणं च ये यजामह इत्य अपि तस्माच छीलं परधानेष्टं विदुर ये तत्त्वदर्शिनः ॥ 28 ॥
परान्न्न नाभिर वर्धनात पुंसॊ जातकर्म विधीयते तत्रास्य माता सावित्री पिता तव आचार्य उच्यते ॥ 29 ॥
वृत्त्या शूद्र समॊ हय एष यावद वेदे न जायते अस्मिन्न एवं मतिद्वैधे मनुः सवायम्भुवॊ ऽबरवीत ॥ 30 ॥
कृतकृत्याः पुनर वर्णा यदि वृत्तं न विद्यते संकरस तत्र नागेन्द्र बलवान परसमीक्षितः ॥ 31 ॥
यत्रेदानीं महासर्पसंस्कृतं वृत्तम इष्यते तं बराह्मणम अहं पूर्वम उक्तवान भुजगॊत्तम ॥ 32 ॥
[सर्प] शरुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर भक्षयेयम अहं कस्माद भरातरं ते वृकॊदरम ॥ 33 ॥
वनपर्व · Vana Parva
अध्याय 177
Reach this point to mark the section finished.
Continue to अध्याय 178