धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 176

  1. [वै] स भीमसेनस तेजस्वी तथा सर्पवशं गतः चिन्तयाम आस सर्पस्य वीर्यम अत्यद्भुतं महत ॥ 1 ॥

  2. उवाच च महासर्पं कामया बरूहि पन्नग कस तवं भॊ भुजग शरेष्ठ किं मया च करिष्यसि ॥ 2 ॥

  3. पाण्डवॊ भिमसेनॊ ऽहं धर्मराजाद अनन्तरः नागायुत समप्राणॊ तवया नीतः कथं वशम ॥ 3 ॥

  4. सिंहाः केसरिणॊ वयाघ्रा महिषा वारणास तथा समागताश च बहुशॊ निहताश च मया मृधे ॥ 4 ॥

  5. दानवाश च पिशाचाश च राक्षसाश च महाबलाः भुजवेगम अशक्ता मे सॊढुं पन्नगसत्तम ॥ 5 ॥

  6. किं नु विद्या बलं किं वा वरदानम अथॊ तव उद्यॊगम अपि कुर्वाणॊ वशगॊ ऽसमि कृतस तवया ॥ 6 ॥

  7. असत्यॊ विक्रमॊ नॄणाम इति मे निश्चिता मतिः यथेदं मे तवया नागबलं परतिहतं महत ॥ 7 ॥

  8. इत्य एवं वादिनं वीरं भीमम अक्लिष्टकारिणम भॊगेन महता सर्पः समन्तात पर्यवेष्टयत ॥ 8 ॥

  9. निगृह्य तं महाबाहुं ततः स भुजगस तदा विमुच्यास्य भुजौ पीनाव इदं वचनम अब्रवीत ॥ 9 ॥

  10. दिष्ट्या तवं कषुधितस्याद्य देवैर भक्षॊ महाभुज दिष्ट्या कालस्य महतः परियाः पराणा हि देहिनाम ॥ 10 ॥

  11. यथा तव इदं मया पराप्तं भुजंगत्वम अरिंदम तद अवश्यं मया खयाप्यं तवाद्य शृणु सत्तम ॥ 11 ॥

  12. इमाम अवस्थां संप्राप्तॊ हय अहं कॊपान मनीषिणाम शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत ॥ 12 ॥

  13. नहुषॊ नाम राजर्षिर वयक्तं ते शरॊत्रम आगतः तवैव पूर्वः पूर्वेषाम आयॊर वंशकरः सुतः ॥ 13 ॥

  14. सॊ ऽहं शापाद अगस्त्यस्य बराह्मणान अवमन्य च इमाम अवस्थाम आपन्नः पश्य दैवम इदं मम ॥ 14 ॥

  15. तवां चेद अवध्यम आयान्तम अतीव परियदर्शनम अहम अद्यॊपयॊक्ष्यामि विधानं पश्य यादृशम ॥ 15 ॥

  16. न हि मे मुच्यते कश चित कथं चिद गरहणं गतः गजॊ वा महिषॊ वापि षष्ठे काले नरॊत्तम ॥ 16 ॥

  17. नासि केवलसर्पेण तिर्यग्यॊनिषु वर्तता गृहीतः कौरवश्रेष्ठ वरदानम इदं मम ॥ 17 ॥

  18. पतता हि विमानाग्रान मया शक्रासनाद दरुतम कुरु शापान्तम इत्य उक्तॊ भगवान मुनिसत्तमः ॥ 18 ॥

  19. स माम उवाच तेजस्वी कृपयाभिपरिप्लुतः मॊक्षस ते भविता राजन कस्माच चित कालपर्ययात ॥ 19 ॥

  20. ततॊ ऽसमि पतितॊ भूमौ न च माम अजहात समृतिः समार्तम अस्ति पुराणं मे यथैवाधिगतं तथा ॥ 20 ॥

  21. यस तु ते वयाहृतान परश्नान परतिब्रूयाद विशेषवित स तवां मॊक्षयिता शापाद इति माम अब्रवीद ऋषिः ॥ 21 ॥

  22. गृहीतस्य तवया राजन पराणिनॊ ऽपि बलीयसः सत्त्वभ्रंशॊ ऽधिकस्यापि सर्वस्याशु भविष्यति ॥ 22 ॥

  23. इति चाप्य अहम अश्रौषं वचस तेषां दयावताम मयि संजातहार्दानाम अथ ते ऽनतर्हिता दविजाः ॥ 23 ॥

  24. सॊ ऽहं परमदुष्कर्मा वसामि निरये ऽशुचौ सर्पयॊनिम इमां पराप्य कालाकाङ्क्षी महाद्युते ॥ 24 ॥

  25. तम उवाच महाबाहुर भीमसेनॊ भुजंगमम न ते कुप्ये महासर्पन चात्मानं विगर्हये ॥ 25 ॥

  26. यस्माद अभावी भावी वा मनुष्यः सुखदुःखयॊः आगमे यदि वापाये न तत्र गरपयेन मनः ॥ 26 ॥

  27. दैवं पुरुषकारेण कॊ निवर्तितुम अर्हति दैवम एव परं मन्ये पुरुषार्थॊ निरर्थकः ॥ 27 ॥

  28. पश्य दैपॊपघाताद धि भुजवीर्यव्यपाश्रयम इमाम अवस्थां संप्राप्तम अनिमित्तम इहाद्य माम ॥ 28 ॥

  29. किं तु नाद्यानुशॊचामि तथात्मानं विनाशितम यथा तु विपिने नयस्तान भरातॄन राज्यपरिच्युतान ॥ 29 ॥

  30. हिमवांश च सुदुर्गॊ ऽयं यक्षराक्षस संकुलः मां च ते समुदीक्षन्तः परपतिष्यन्ति विह्वलाः ॥ 30 ॥

  31. विनष्टम अथ वा शरुत्वा भविष्यन्ति निरुद्यमाः धर्मशीला मया तेहि बाध्यन्ते राज्यगृद्धिना ॥ 31 ॥

  32. अथ वा नार्जुनॊ धीमान विषादम उपयास्यति सर्वास्त्रविद अनाधृष्यॊ देवगन्धर्वराक्षसैः ॥ 32 ॥

  33. समर्थः स महाबाहुर एकाह्ना समहा बलः देवराजम अपि सथानात परच्यावयितुम ओजसा ॥ 33 ॥

  34. किं पुनर धृतराष्ट्रस्य पुत्रं दुर्द्यूत देविनम विद्विष्टं सर्वलॊकस्य दम्भलॊभ परायणम ॥ 34 ॥

  35. मातरं चैव शॊचामि कृपणां पुत्रगृद्धिनीम यस्माकं नित्यम आशास्ते महत्त्वम अधिकं परैः ॥ 35 ॥

  36. कथं नु तस्यानाथाया मद विनाशाद भुजंगम अफलास ते भविष्यन्ति मयि सर्वे मनॊरथाः ॥ 36 ॥

  37. नकुलः सहदेवश च यमजौ गुरुवर्तिनौ मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ ॥ 37 ॥

  38. निरुत्साहौ भविष्येते भरष्टवीर्यपराक्रमौ मद विनाशात परिद्यूनाव इति मे वर्तते मतिः ॥ 38 ॥

  39. एवंविधं बहु तदा विललाप वृकॊदरः भुजंगभॊग संरुद्धॊ नाशकच च विचेष्टितुम ॥ 39 ॥

  40. युधिष्ठिरस तु कौन्तेय बभूवास्वस्थ चेतनः अनिष्ट दर्शनान घॊरान उत्पातान परिचिन्तयन ॥ 40 ॥

  41. दारुणं हय अशिवं नादं शिवा दक्षिणतः सथिता दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह ॥ 41 ॥

  42. एकपक्षाक्षि चरणा वर्तिका घॊरदर्शना रुधिरं वमन्ती ददृशे परत्यादित्यम अपस्वरा ॥ 42 ॥

  43. परववाव अनिलॊ रूक्षश चण्डः शर्कर कर्षणः अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ॥ 43 ॥

  44. पृष्ठतॊ वायसः कृष्णॊ याहि याहीति वाशति मुहुर मुहुः परस्फुरति दक्षिणॊ ऽसय भुजस तथा ॥ 44 ॥

  45. हृदयं चरणश चापि वामॊ ऽसय परिवर्तते सव्यस्याक्ष्णॊ विकारश चाप्य अनिष्टः समपद्यत ॥ 45 ॥

  46. स धर्मराजॊ मेधावी शङ्कमानॊ महद भयम दरौपदीं परिपप्रच्छ कव भीम इति भारत ॥ 46 ॥

  47. शशंस तस्मै पाञ्चाली चिरयातं वृकॊदरम स परतस्थे महाबाहुर धौम्येन सहितॊ नृपः ॥ 47 ॥

  48. दरौपद्या रक्षणं कार्यम इत्य उवाच धनंजयम नकुलं सहदेवं च वयादिदेश दविजान परति ॥ 48 ॥

  49. स तस्य पदम उन्नीय तस्माद एवाश्रमात परभुः ददर्श पृथिवीं चिह्नैर भीमस्य परिचिह्निताम ॥ 49 ॥

  50. धावतस तस्य वीरस्य मृगार्थे वातरंहसः ऊरुवातविनिर्भग्नान दरुमान वयावर्तितान पथि ॥ 50 ॥

  51. स गत्वा तैस तदा चिह्नैर ददर्श गिरिगह्वरे गृहीतं भुजगेन्द्रेण निश्चेष्टम अनुजं तथा ॥ 51 ॥

Reach this point to mark the section finished.

Continue to अध्याय 177

Previous: अध्याय 175