[जनम] तस्मिन कृतास्त्रे रथिनां परधाने; परत्यागते भवनाद वृत्र हन्तुः अतः परं किम अकुर्वन्त पार्थाः; समेत्य शूरेण धनंजयेन ॥ 1 ॥
[वै] वनेषु तेष्व एव तु ते नरेन्द्राः; सहार्जुनेनेन्द्र समेन वीराः तस्मिंश च शैलप्रवरे सुरम्ये; धनेश्वराक्रीड गता विजह्रुः ॥ 2 ॥
वेश्मानि तान्य अप्रतिमानि पश्यन; करीडाश च नानाद्रुमसंनिकर्षाः चचार धवी बहुधा नरेन्द्रः; सॊ ऽसत्रेषु यत्तः सततं किरीटी ॥ 3 ॥
अवाप्य वासं नरदेव पुत्राः; परसादजं वैश्वरणस्य राज्ञः न पराणिनां ते सपृहयन्ति राजञ; शिवश च कालः स बभूव तेषाम ॥ 4 ॥
समेत्य पार्थेन यथैक रात्रम; ऊषुः समास तत्र तदा चतस्रः पूर्वाश च सॊ ता दश पाण्डवानां; शिवा बभूवुर वसतां वनेषु ॥ 5 ॥
ततॊ ऽबरवीद वायुसुतस तरस्वी; जिष्णुश च राजानम उपॊपविश्य यमौ च वीरौ सुरराजकल्पाव; एकान्तम आस्थाय हितं परियं च ॥ 6 ॥
तव परतिज्ञां कुरुराजसत्यां; चिकीर्षमाणास तवद अनु परियं च ततॊ ऽनुगच्छाम वनाय अपास्य; सुयॊधनं सानुचरं निहन्तुम ॥ 7 ॥
एका दशं वर्षम इदं वसामः; सुयॊधनेनात्त सुखाः सुखार्हाः तं वञ्चयित्वाधम बुद्धिशीलम; अज्ञातवासं सुखम आप्नुयामः ॥ 8 ॥
तवाज्ञया पार्थिव निर्विशङ्का; विहाय मानं विचरन वनानि समीपवासेन विलॊभितास ते; जञास्यन्ति नास्मान अपकृष्ट देशान ॥ 9 ॥
संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखम उद्धरेम निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय ॥ 10 ॥
सुयॊधनायानुचरैर वृताय; ततॊ महीम आहर धर्मराज सवर्गॊपमं शैलम इमं चरद्भिः; शक्यॊ विहन्तुं नरदेव शॊकः ॥ 11 ॥
कीर्तिश च ते भारत पुण्यगन्धा; नश्येत लॊकेषु चराचरेषु तत पराप्य राज्यं कुरुपुंगवानां; शक्यं महत पराप्तम अथ करियाश च ॥ 12 ॥
इदं तु शक्यं सततं नरेन्द्र; पराप्तुं तवया यल लभसे कुबेरात कुरुष्व बुद्धिं दविषतां वधाय; कृतागसां भारत निग्रहे च ॥ 13 ॥
तेजस तवॊग्रं न सहेत राजन; समेत्य साक्षाद अपि वज्रपाणिः न हि वयथां जातु करिष्यतस तौ; समेत्य देवैर अपि धर्मराज ॥ 14 ॥
तवदर्थसिद्ध्यर्थम अभिप्रवृत्तौ; सुपर्णकेतुश च शिनेश च नप्ता यथैव कृष्णॊ ऽपरतिमॊ बलेन; तथैव राजन स शिनिप्रवीरः ॥ 15 ॥
तवार्थ सिद्ध्यर्थम अभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस तैः तथैव चावां नरदेव वर्य; यमौ च वीरौ कृतिनौ परयॊगे तवदर्थयॊगप्रभव परधानाः; समं करिष्याम परान समेत्य ॥ 16 ॥
ततस तद आज्ञाय मतं महात्मा; तेषां स धर्मस्य सुतॊ वरिष्ठः परदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविद उत्तमौजः ॥ 17 ॥
आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः यथागतं मार्गम अवेक्षमाणः; पुनर गिरिं चैव निरीक्षमाणः ॥ 18 ॥
समाप्तकर्मा सहितः सुहृद्भिर; जित्वा सपत्नां परतिलभ्य राज्यम शैलेन्द्र भूयस तपसे धृतात्मा; दरष्टा तवास्मीति मतिं चकार ॥ 19 ॥
वृतः स सर्वैर अनुजैर दविजैश च; तेनैव मार्गेण पतिः कुरूणाम उवाह चैनां सगणांस तथैव; घटॊत्कचः पर्वतनिर्झरेषु ॥ 20 ॥
तान परस्थितान परीतिमना महर्षिः; पितेव पुत्रान अनुशिष्य सर्वान स लॊमशः परीतमना जगाम; दिवौकसां पुण्यतमं निवासम ॥ 21 ॥
तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपॊवनानि महान्ति चान्यानि सरांसि पार्थाः; संपश्यमानाः परययुर नराग्र्याः ॥ 22 ॥
वनपर्व · Vana Parva
अध्याय 173
Reach this point to mark the section finished.
Continue to अध्याय 174