धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 172

  1. [वै] तस्यां रजन्यां वयुष्टायां धर्मराजॊ युधिष्ठिरः उत्थायावश्य कार्याणि कृतवान भरतृभिः सह ॥ 1 ॥

  2. ततः संचॊदयाम आस सॊ ऽरजुनं भरातृनन्दनम दर्शयास्त्राणि कौन्तेय यैर जिता दानवास तवया ॥ 2 ॥

  3. ततॊ धनंजयॊ राजन देवैर दत्तानि पाण्डवः अस्त्राणि तानि दिव्यानि दर्शयाम आस भारत ॥ 3 ॥

  4. यथान्यायं महातेजा शौचं परमम आस्थितः गिरिकूबरं पादपाङ्गं शुभवेणुत्रिवेणुकम पार्थिवं रथम आस्थाय शॊभमानॊ धनंजयः ॥ 4 ॥

  5. ततः सुदंशितस तेन कवचेन सुवर्चसा धनुर आदाय गाण्डीवं देवदत्तं च वारिजम ॥ 5 ॥

  6. शॊशुभ्यमानः कौन्तेय आनुपूर्व्यान महाभुजः अस्त्राणि तानि दिव्यानि दर्शनायॊपचक्रमे ॥ 6 ॥

  7. अथ परयॊक्ष्यमाणेन दिव्यान्य अस्त्राणि तेन वै समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा ॥ 7 ॥

  8. कषुभिताः सरितश चैव तथैव च महॊदधिः शैलाश चापि वयशीर्यन्त न ववौ च समीरणः ॥ 8 ॥

  9. न बभासे सहस्रांशुर न जज्वाल च पावकः न वेदाः परतिभान्ति सम दविजातीनां कथं चन ॥ 9 ॥

  10. अन्तर्भूमि गता ये च पराणिनॊ जनमेजय पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन ॥ 10 ॥

  11. वेपमानाः पराञ्जलयस ते सर्वे पिहिताननाः दह्यमानास तदास्त्रैस तैर याचन्ति सम धनंजयम ॥ 11 ॥

  12. ततॊ बरह्मर्षयश चैव सिधाश चैव सुरर्षयः जङ्गमानि च भूतानि सर्वाण्य एवावतस्थिरे ॥ 12 ॥

  13. राजर्षयश च परवरास तथैव च दिवौकसः यक्षराक्षस गन्धर्वास तथैव च पतत्रिणः ॥ 13 ॥

  14. ततः पितामहश चैव लॊकपालाश च सर्वशः भगवांश च महादेवः सगणॊ ऽभयाययौ तदा ॥ 14 ॥

  15. ततॊ वायुर महाराज दिव्यैर माल्यैः सुगन्धिभिः अभितः पाण्डवांश चित्रैर अवचक्रे समन्ततः ॥ 15 ॥

  16. जगुश च गाथा विविधा गन्धर्वाः सुरचॊदिताः ननृतुः संघशश चैव राजन्न अप्सरसां गणाः ॥ 16 ॥

  17. तस्मिंस तु तुमुले काले नारदः सुरचॊदितः आगम्याह वचॊ पार्थं शरवणीयम इदं नृप ॥ 17 ॥

  18. अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्य अस्त्राणि भारत नैतानि निरधिष्ठाने परयुज्यन्ते कदा चन ॥ 18 ॥

  19. अधिष्ठाने न वानार्तः परयुञ्जीत कदा चन परयॊगे सुमहान दॊषॊ हय अस्त्राणां कुरुनन्दन ॥ 19 ॥

  20. एतानि रक्ष्यमाणानि धनंजय यथागमम बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः ॥ 20 ॥

  21. अरक्ष्यमाणान्य एतानि तरैलॊक्यस्यापि पाण्डव भवन्ति सम विनाशाय मैवं भूयॊ कृथाः कव चित ॥ 21 ॥

  22. अजातशत्रॊ तवं चैव दरक्ष्यसे तानि संयुगे यॊज्यमानानि पार्थेन दविषताम अवमर्दने ॥ 22 ॥

  23. निवार्याथ ततः पार्थं सर्वे देवा यथागतम जग्मुर अन्ये च ये तत्र समाजग्मुर नरर्षभ ॥ 23 ॥

  24. तेषु सर्वेषु कौरव्य परतियातेषु पाण्डवाः तस्मिन्न एव वने हृष्टास त ऊषुः सह कृष्णया ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 173

Previous: अध्याय 171