[वै] नगॊत्तमं परस्रवणैर उपेतं; दिशां गजैः किंनरपक्षिभिश च सुखं निवासं जहतां हि तेषां; न परीतिर आसीद भरतर्षभाणाम ॥ 1 ॥
ततस तु तेषां पुनर एव हर्षः; कैलासम आलॊक्य महान बभूव कुबेर कान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम ॥ 2 ॥
समुच्छ्रयान पर्वतसंनिरॊधान; गॊष्ठान गिरीणां गिरिसेतुमालाः बहून परपातांश च समीक्ष्य वीराः; सथलानि निम्नानि च तत्र तत्र ॥ 3 ॥
तथैव चान्यानि महावनानि; मृगद्विजानेकप सेवितानि आलॊकयन्तॊ ऽभिययुः परतीतास; ते धन्विनः खड्गधरा नराग्र्याः ॥ 4 ॥
वनानि रम्याणि सरांसि नद्यॊ; गुहा गिरीणां गिरिगह्वराणि एते निवासाः सततं बभूवुर; निशानिशं पराप्य नरर्षभाणाम ॥ 5 ॥
ते दुर्ग वासं बहुधा निरुष्य; वयतीत्य कैलासम अचिन्त्यरूपम आसेदुर अत्यर्थ मनॊरमं वै; तम आश्रमाग्र्यं वृषपर्वणस ते ॥ 6 ॥
समेत्य राज्ञा वृषपर्वणस ते; परत्यर्चितास तेन च वीतमॊहाः शशंसिरे विस्तरशः परवासं; शिवं यथावद वृषपर्वणस ते ॥ 7 ॥
सुखॊषितास तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे अभ्याययुस ते बदरीं विशालां; सुखेन वीराः पुनर एव वासम ॥ 8 ॥
ऊषुस ततस तत्र महानुभावा; नारायण सथानगता नराग्र्याः कुबेर कान्तां नलिनीं विशॊकाः; संपश्यमानाः सुरसिद्धजुष्टाम ॥ 9 ॥
तां चाथ दृष्ट्वा नलिनीं विशॊकाः; पाण्डॊः सुताः सर्वनरप्रवीराः ते रेमिरे नन्दनवासम एत्य; दविजर्षयॊ वीतभया यथैव ॥ 10 ॥
ततः करमेणॊपययुर नृवीरा; यथागतेनैव पथा समग्राः विहृत्य मासं सुखिनॊ बदर्यां; किरात राज्ञॊ विषयं सुबाहॊः ॥ 11 ॥
चीनांस तुखारान दरदान सदार्वान; देशान कुणिन्दस्य च भूरि रत्नान अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहॊर ददृशुर नृवीराः ॥ 12 ॥
शरुत्वा च तान पार्थिव पुत्रपौत्रान; पराप्तान सुबाहुर विषये समग्रान परत्युद्ययौ परीतियुतः स राजा; तं चाभ्यनन्दन वृषभाः कुरूणाम ॥ 13 ॥
समेत्य राज्ञा तु सुबाहुना ते; सूतैर विशॊक परमुखैश च सर्वैः सहेन्द्रसेनैः परिचारकैश च; पौरॊगवैर ये च महानसस्थाः ॥ 14 ॥
सुखॊषितास तत्र त एकरात्रं; सुतान उपादाय रथांश च सर्वान घटॊत्कचं सानुचरं विसृज्य; ततॊ ऽभययुर यामुनम अद्रिराजम ॥ 15 ॥
तस्मिन गिरौ परस्रवणॊपपन्ने; हिमॊत्तरीयारुण पाण्डुसानौ विशाख यूपं समुपेत्य चक्रुस; तदा निवासं पुरुषप्रवीराः ॥ 16 ॥
वराहनानामृगपक्षिजुष्टं; महद वनं चैत्ररथ परकाशम शिवेन यात्वा मृगया परधानाः; संवत्सरं तत्र वने विजह्रुः ॥ 17 ॥
तत्राससादातिबलं भुजंगं; कषुधार्दितं मृत्युम इवॊग्ररूपम वृकॊदरः पर्वत कन्दरायां; विषादमॊहव्यथितान्तर आत्मा ॥ 18 ॥
दवीपॊ ऽभवद यत्र वृकॊदरस्य; युधिष्ठिरॊ धर्मभृतां वरिष्ठः अमॊक्षयद यस तम अनन्त तेजा; गराहेण संवेष्ठित सर्वगात्रम ॥ 19 ॥
ते दवादशं वर्षम अथॊपयान्तं; वने विहर्तुं कुरवः परतीताः तस्माद वनाच चैत्ररथ परकाशाच; छरिया जवलन्तस तपसा च युक्ताः ॥ 20 ॥
ततश च यात्वा मरुधन्व पार्श्वं; सदा धनुर्वेद रतिप्रधानाः सरस्वतीम एत्य निवासकामाः; सरस ततॊ दवैतवनं परतीयुः ॥ 21 ॥
समीक्ष्य तान दैतवने निविष्टान; निवासिनस तत्र ततॊ ऽभिजग्मुः तपॊ दमाचार समाधियुक्तास; तृणॊद पात्राहरणाश्म कुट्टाः ॥ 22 ॥
पलक्षाक्ष रौहीतक वेतसाश च; सनुहा बदर्यः खदिराः शिरीषाः बिल्वेङ्गुदाः पीलु शमी करीराः; सरस्वती तीररुहा बभूवुः ॥ 23 ॥
तां यक्षगन्धर्वमहर्षिकान्ताम; आयाग भूताम इव देवतानाम सरस्वतीं परीतियुताश चरन्तः; सुखं विजह्रुर नरदेव पुत्राः ॥ 24 ॥
वनपर्व · Vana Parva
अध्याय 174
Reach this point to mark the section finished.
Continue to अध्याय 175