धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 171

  1. [अर्ज] ततॊ माम अभिविश्वस्तं संरूढशरविक्षतम देवराजॊ ऽनुगृह्येदं काले वचनम अब्रवीत ॥ 1 ॥

  2. दिव्यान्य अस्त्राणि सर्वाणि तवयि तिष्ठन्ति भारत न तवाभिभवितुं शक्तॊ मानुषॊ भुवि कश चन ॥ 2 ॥

  3. भीष्मॊ दरॊणः कृपः कर्णः शकुनिः सह राजभिः संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षॊडशीम ॥ 3 ॥

  4. इदं च मे तनुत्राणं परायच्छन मघवान परभुः अभेद्यं कवचं दिव्यं सरजं चैव हिरण्मयीम ॥ 4 ॥

  5. देवदत्तं च मे शङ्खं देवः परादान महारवम दिव्यं चेदं किरीटं मे सवयम इन्द्रॊ युयॊज ह ॥ 5 ॥

  6. ततॊ दिव्यानि वस्त्राणि दिव्यान्य आभरणानि च परादाच छक्रॊ ममैतानि रुचिराणि बृहन्ति च ॥ 6 ॥

  7. एवं संपूजितस तत्र सुखम अस्म्य उषितॊ नृप इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह ॥ 7 ॥

  8. ततॊ माम अब्रवीच छक्रः परीतिमान अमरैः सह समयॊ ऽरजुन गन्तुं ते भरातरॊ हि समरन्ति ते ॥ 8 ॥

  9. एवम इन्द्रस्य भवने पञ्चवर्षाणि भारत उषितानि मया राजन समरता दयूतजं कलिम ॥ 9 ॥

  10. ततॊ भवन्तम अद्राक्षं भरातृभिः परिवारितम गन्धमादनम आसाद्य पर्वतस्यास्य मूर्धनि ॥ 10 ॥

  11. [य] दिष्ट्या धनंजयास्त्राणि तवया पराप्तानि भारत दिष्ट्या चाराधितॊ राजा देवानाम ईश्वरः परभुः ॥ 11 ॥

  12. दिष्ट्या च भगवान सथाणुर देव्या सह परंतप साक्षाद दृष्टः सुयुद्धेन तॊषितश च तवयानघ ॥ 12 ॥

  13. दिष्ट्या च लॊकपालैस तवं समेतस्ल भरतर्षभ दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः ॥ 13 ॥

  14. अद्य कृत्स्नाम इमां देवीं विजितां पुरमालिनीम मन्ये च धृतराष्ट्रस्य पुत्रान अपि वशीकृतान ॥ 14 ॥

  15. तानि तव इच्छामि ते दरष्टुं दिव्यान्य अस्त्राणि भारत यैस तथा वीर्यवन्तस ते निवातकवचा हता ॥ 15 ॥

  16. [अर्ज] शवःप्रभाते भवान दरष्टा दिव्यान्य अस्त्राणि सर्वशः निवातकवचा घॊरा यैर मया विनिपातिताः ॥ 16 ॥

  17. [वै] एवम आगमनं तत्र कथयित्वा धनंजयः भरातृभिः सहितः सर्वै रजनीं ताम उवास ह ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 172

Previous: अध्याय 170